५-६. अप्पमादसुत्तादिवण्णना

१५-१६. पञ्चमे कारापकअप्पमादो नाम ‘‘इमे अकुसला धम्मा पहातब्बा, इमे कुसला धम्मा उपसम्पादेतब्बा’’ति तंतंपरिवज्जेतब्बवज्जनसम्पादेतब्बसम्पादनवसेन पवत्तो अप्पमादो. एसाति अप्पमादो. लोकियोव न लोकुत्तरो. अयञ्चाति च एसाति च अप्पमादमेव वदति. तेसन्ति चातुभूमकधम्मानं. पटिलाभकत्तेनाति पटिलाभापनकत्तेन.

जङ्गलानन्ति जङ्गलचारीनं. जङ्गल-सद्दो चेत्थ खरभावसामञ्ञेन पथवीपरियायो, न अनुपट्ठानविदूरदेसवाची. तेनाह ‘‘पथवीतलचारीन’’न्ति. पदानं वुच्चमानत्ता ‘‘सपादकपाणान’’न्ति विसेसेत्वा वुत्तं. समोधानन्ति अन्तोगधभावं. तेनाह ‘‘ओधानं पक्खेप’’न्ति. ‘‘उपक्खेप’’न्तिपि पठन्ति, उपनेत्वा पक्खिपितब्बन्ति अत्थो. वस्सिकाय पुप्फं वस्सिकं यथा ‘‘आमलकिया फलं आमलक’’न्ति. महातलस्मिन्ति उपरिपासादे. छट्ठं उत्तानमेव.

अप्पमादसुत्तादिवण्णना निट्ठिता.