९-१०. उपालिसुत्तादिवण्णना

९९-१००. नवमे अज्झोगाहेत्वा अधिप्पेतमत्थं सम्भवितुं साधेतुं दुक्खानि दुरभिसम्भवानि. अट्ठकथायं पन तत्थ निवासोयेव दुक्खोति दस्सेतुं ‘‘सम्भवितुं दुक्खानि दुस्सहानी’’ति वुत्तं. अरञ्ञवनपत्थानीति अरञ्ञलक्खणप्पत्तानि वनसण्डानि. वनपत्थसद्दो हि सण्डभूते रुक्खसमूहेपि वत्ततीति अरञ्ञग्गहणं. पविवेकन्ति पकारतो, पकारेहि वा विवेचनं, रूपादिपुथुत्तारम्मणे पकारतो गमनादिइरियापथप्पकारेहि अत्तनो कायस्स विवेचनं, गच्छतोपि तिट्ठतोपि निसज्जतोपि निपज्जतोपि एकस्सेव पवत्ति. तेनेव हि विवेचेतब्बानं विवेचनाकारस्स च भेदतो बहुविधत्ता ते एकत्तेन गहेत्वा ‘‘पविवेक’’न्ति एकवचनेन वुत्तं. दुक्करं पविवेकन्ति वा पविवेकं कत्तुं न सुखन्ति अत्थो. एकीभावेति एकत्तभावे. द्वयंद्वयारामोति द्विन्नं द्विन्नं भावाभिरतो. हरन्ति वियाति संहरन्ति विय विघातुप्पादनेन. तेनाह ‘‘घसन्ति विया’’ति. भयसन्तासुप्पादनेन खादितुं आगता यक्खरक्खसपिसाचादयो वियाति अधिप्पायो. ईदिसस्साति अलद्धसमाधिनो. तिणपण्णमिगादिसद्देहीति वातेरितानं तिणपण्णादीनं मिगपक्खिआदीनञ्च भीसनकेहि भेरवेहि सद्देहि. विविधेहि च अञ्ञेहि खाणुआदीहि यक्खादिआकारेहि उपट्ठितेहि भीसनकेहि. घटेन कीळा घटिकाति एके. दसमं उत्तानमेव.

उपालिसुत्तादिवण्णना निट्ठिता.

उपालिवग्गवण्णना निट्ठिता.

दुतियपण्णासकं निट्ठितं.