(१६) १. एकधम्मपाळि-पठमवग्गवण्णना
२९६. एकधम्मपाळिवण्णनायं इध धम्म-सद्दो सभावत्थो ‘‘कुसला धम्मा’’तिआदीसु वियाति आह – ‘‘एकसभावो’’ति. एकन्तेनाति एकंसेन, अवस्सन्ति अत्थो. वट्टेति संसारवट्टे. निब्बिन्दनत्थायाति अनभिरमनत्थाय. विरज्जनत्थायाति अरज्जनत्थाय. विरज्जनायाति पलुज्जनाय. तेनेवाह – ‘‘विगमाया’’ति. रागादीनं निरोधायाति मग्गञाणेन रागादीनं निरोधनत्थाय. मग्गञाणेन निरोधनं नाम अच्चन्तं अप्पवत्तिकरणन्ति आह – ‘‘अप्पवत्तिकरणत्थाया’’ति. यथा खादनीयस्स मुखे कत्वा खादनं नाम यावदेव अज्झोहरणत्थं, एवं रागादीनं निरोधनं वट्टनिरोधनत्थमेवाति वुत्तं – ‘‘वट्टस्सेव वा निरुज्झनत्थाया’’ति. यस्मा किलेसेसु खीणेसु इतरं वट्टद्वयम्पि खीणमेव होति, तस्मा मूलमेव गण्हन्तो ‘‘उपसमायाति किलेसवूपसमनत्थाया’’ति आह. सङ्खतधम्मानं अभिजाननं नाम तत्थ लक्खणत्तयारोपनमुखेनेवाति आह – ‘‘अनिच्चादि…पे… अभिजाननत्थाया’’ति. सम्बुज्झितब्बानि नाम चत्तारि अरियसच्चानि तब्बिनिमुत्तस्स ञेय्यस्स अभावतो. ‘‘चतुन्नं सच्चानं बुज्झनत्थाया’’ति वत्वा तयिदं बुज्झनं यस्स ञाणस्स वसेन इज्झति, तस्स ञाणस्स वसेन दस्सेतुं – ‘‘बोधि वुच्चती’’तिआदि वुत्तं. अप्पच्चयनिब्बानस्साति अमतधातुया.
उस्साहजननत्थन्ति कम्मट्ठाने अभिरुचिउप्पादनाय. विसकण्टकोति गुळस्स वाणिजसमञ्ञा. ‘‘किस्मिञ्चि देसे देसभासा’’ति केचि. उच्छुरसो समपाकपक्को चुण्णादीहि मिस्सेत्वा पिण्डीकतो गुळो, अपिण्डीकतो फाणितं. पाकविसेसेन खण्डखण्डसेदितो खण्डो, मलाभावं आपन्नो सक्करा.
सरतीति सति. अनु अनु सरतीति अनुस्सति, अनु अनुरूपा सतीतिपि अनुस्सति. दुविधं होतीति पयोजनवसेन दुविधं होति. चित्तसम्पहंसनत्थन्ति पसादनीयवत्थुस्मिं पसादुप्पादनेन भावनाचित्तस्स परितोसनत्थं. विपस्सनत्थन्ति विपस्सनासुखत्थं. उपचारसमाधिना हि चित्ते समाहिते विपस्सनासुखेन इज्झति. चित्तुप्पादोति भावनावसेन पवत्तो चित्तुप्पादो. उपहञ्ञति पतिहञ्ञति पटिकूलत्ता आरम्मणस्स. ततो एव उक्कण्ठति, कम्मट्ठानं रिञ्चति, निरस्सादो होति भावनस्सादस्स अलब्भनतो. पसीदति बुद्धगुणानं पसादनीयत्ता. तथा च कङ्खादिचेतोखिलाभावेन विनीवरणो होति. दमेत्वाति नीवरणनिराकरणेन निब्बिसेवनं कत्वा. एवं कम्मट्ठानन्तरानुयुञ्जनेन चित्तपरिदमनस्स उपमं दस्सेन्तो, ‘‘कथ’’न्तिआदिमाह.
को अयं…पे… अनुस्सरीति को अयं मम अब्भन्तरे ठत्वा अनुस्सरि. परिग्गण्हन्तोति बाहिरकपरिकप्पितस्स अनुस्सरकस्स सब्बसो अभावदस्सनमेतं. तेनाह – ‘‘न अञ्ञो कोची’’ति. दिस्वाति परियेसननयेन वुत्तप्पकारं चित्तमेव अनुस्सरीति दिस्वा सब्बम्पेतन्ति एतं हदयवत्थुआदिप्पभेदं सब्बम्पि. इदञ्च रूपं पुरिमञ्च अरूपन्ति इदं रुप्पनसभावत्ता रूपं, पुरिमं अतंसभावत्ता अरूपन्ति सङ्खेपतो रूपारूपं ववत्थपेत्वा. पञ्चक्खन्धे ववत्थपेत्वाति योजना. सम्भाविकाति समुट्ठापिका. तस्साति समुदयसच्चस्स. निरोधोति निरोधनिमित्तं. अप्पनावारोति यथारद्धाय देसनाय निगमनवारो.
२९७. एसेव नयोति इमिना य्वायं ‘‘तं पनेत’’न्तिआदिना अत्थनयो बुद्धानुस्सतियं विभावितोति अतिदिसति, स्वायं अतिदेसो पयोजनवसेन नवसुपि अनुस्सतीसु साधारणवसेन वुत्तोपि आनापानस्सतिआदीसु तीसु विपस्सनत्थानेव होन्तीति इमिना अपवादेन निवत्तितोति तासं एकप्पयोजनताव दट्ठब्बा. धम्मे अनुस्सति धम्मानुस्सतीति समासपदविभागदस्सनम्पि वचनत्थदस्सनपक्खिकमेवाति आह – ‘‘अयं पनेत्थ वचनत्थो’’ति. धम्मं आरब्भाति हि धम्मस्स अनुस्सतिया विसयभावदस्सनमेतं. एस नयो सेसेसुपि. सीलं आरब्भाति अत्तनो पारिसुद्धिसीलं आरब्भ. चागं आरब्भाति अत्तनो चागगुणं आरब्भ. देवता आरब्भाति एत्थ देवतागुणसदिसताय अत्तनो सद्धासीलसुतचागपञ्ञासु देवतासमञ्ञा. भवति हि तंसदिसेपि तब्बोहारो यथा ‘‘तानि ओसधानि, एस ब्रह्मदत्तो’’ति च. तेनाह – ‘‘देवता सक्खिट्ठाने ठपेत्वा’’तिआदि. तत्थ देवता सक्खिट्ठाने ठपेत्वाति ‘‘यथारूपाय सद्धाय समन्नागता ता देवता इतो चुता तत्थ उपपन्ना, मय्हम्पि तथारूपा सद्धा संविज्जति. यथारूपेन सीलेन, यथारूपेन सुतेन, यथारूपेन चागेन, यथारूपाय पञ्ञाय समन्नागता ता देवता इतो चुता तत्थ उपपन्ना, मय्हम्पि तथारूपा पञ्ञा संविज्जती’’ति एवं देवता सक्खिट्ठाने ठपेत्वा. अस्सासपस्सासनिमित्तं नाम तत्थ लद्धब्बप्पटिभागनिमित्तं. गताति आरम्मणकरणवसेन उपगता पवत्ता.
उपसम्मति एत्थ दुक्खन्ति उपसमो, निब्बानं. अच्चन्तमेव एत्थ उपसम्मति वट्टत्तयन्ति अच्चन्तूपसमो, निब्बानमेव. खिणोति खेपेति किलेसेति खयो, अरियमग्गो. ते एव उपसमेतीति उपसमो, अरियमग्गो एव. खयो च सो उपसमो चाति खयूपसमो. तत्रचायं उपसमो धम्मो एवाति धम्मानुस्सतिया उपसमानुस्सति एकसङ्गहोति? सच्चं एकसङ्गहो धम्मभावसामञ्ञे अधिप्पेते, सङ्खतधम्मतो पन असङ्खतधम्मो सातिसयो उळारतमपणीततमभावतोति दीपेतुं विसुं नीहरित्वा वुत्तं. इममेव हि विसेसं सन्धाय भगवा – ‘‘धम्मानुस्सती’’ति वत्वापि उपसमानुस्सतिं अवोच अनुस्सरन्तस्स सविसेसं सन्तपणीतभावेन उपट्ठानतो. एवञ्च कत्वा इध खयूपसमग्गहणम्पि समत्थितन्ति दट्ठब्बं. यथेव हि समानेपि लोकुत्तरधम्मभावे ‘‘यावता, भिक्खवे, धम्मा सङ्खता वा असङ्खता वा, विरागो तेसं अग्गमक्खायती’’तिआदिवचनतो (इतिवु. ९०) मग्गफलधम्मेहि निब्बानधम्मो सातिसयो, एवं फलधम्मतो मग्गधम्मो किलेसप्पहानेन अच्छरियधम्मभावतो, तस्मा अच्चन्तूपसमेन सद्धिं खयूपसमोपि गहितोति दट्ठब्बं. विपस्सनत्थानेव होन्तीति कस्मा वुत्तन्ति? ‘‘एकन्तनिब्बिदायातिआदिवचनतो’’ति केचि, तं अकारणं बुद्धानुस्सतिआदीसुपि तथा देसनाय आगतत्ता. यथा पन बुद्धानुस्सतिआदीनि कम्मट्ठानानि विपस्सनत्थानि होन्ति, निमित्तसम्पहंसनत्थानिपि होन्ति, न एवमेतानि, एतानि पन विपस्सनत्थानेवाति तथा वुत्तं.
पठमवग्गवण्णना निट्ठिता.