(१४) २. दुतियएतदग्गवग्गवण्णना

चूळपन्थकत्थेरवत्थु

१९८-२००. दुतियस्स पठमे मनेन निब्बत्तितन्ति अभिञ्ञामनेन उप्पादितं. मनेन कतकायोति अभिञ्ञाचित्तेन देसन्तरं पत्तकायो. मनेन निब्बत्तितकायोति अभिञ्ञामनसा निम्मितकायो ‘‘अञ्ञं कायं अभिनिम्मिनाती’’तिआदीसु (दी. नि. १.२३६-२३७; पटि. म. ३.१४) विय. एकसदिसेयेवाति अत्तसदिसेयेव. एकविधमेवाति अत्तना कतप्पकारमेव. एतप्परमो हि येभुय्येन सावकानं इद्धिनिम्मानविधि. अग्गो नाम जातो एकदेसेन सत्थु इद्धिनिम्मानानुविधानतो.

लाभितायाति एत्थ लाभीति ईकारो अतिसयत्थो. तेन थेरस्स चतुन्नं रूपावचरज्झानानं अतिसयेन सविसेसलाभितं दस्सेति. अरूपावचरज्झानानं लाभितायाति एत्थापि एसेव नयो. न केवलञ्चेता चेतोसञ्ञाविवट्टकुसलता रूपारूपज्झानलाभिताय एव, अथ खो इमेहिपि कारणेहीति दस्सेतुं – ‘‘चूळपन्थको चा’’तिआदि वुत्तं. चेतोति चेत्थ चित्तसीसेन समाधि वुत्तो, तस्मा चेतसो समाधिस्स विवट्टनं चेतोविवट्टो, एकस्मिंयेवारम्मणे समाधिचित्तं विवट्टेत्वा हेट्ठिमस्स हेट्ठिमस्स उपरूपरि हापनतो रूपावचरज्झानलाभी चेतोविवट्टकुसलो नाम. ‘‘सब्बसो रूपसञ्ञान’’न्तिआदिना (ध. स. २६५) वुत्तसञ्ञा अतिक्कमित्वा ‘‘आकासानञ्चायतनसञ्ञासहगतं…पे… नेवसञ्ञानासञ्ञायतनसञ्ञासहगत’’न्ति (ध. स. २६५-२६८) सञ्ञासीसेन वुत्तज्झानानं विवट्टकुसलो, तथा इत्थिपुरिसादिसञ्ञा निच्चसञ्ञादितो चित्तं विवट्टेत्वा केवले रूपारूपधम्ममत्ते असङ्खते निब्बाने च विसेसतो वट्टनतो च सुञ्ञतानुपस्सनाबहुलो सञ्ञाविवट्टकुसलो. समाधिकुसलताय चेतोविवट्टकुसलता तब्बहुलविहारिताय. तथा विपस्सनाकुसलताय सञ्ञाविवट्टकुसलता. एकोति चूळपन्थकत्थेरं वदति. समाधिलक्खणेति सवितक्कसविचारादिसमाधिसभावे. पुन एकोति महापन्थकत्थेरमाह. विपस्सनालक्खणेति सत्तअनुपस्सना अट्ठारसमहाविपस्सनादिविपस्सनासभावे. समाधिगाळ्होति समाधिस्मिं ओगाळ्हचित्तो सुभावितभावनता. अङ्गसंखित्तेति चतुरङ्गिकतिवङ्गिकादिवसेन झानङ्गानं सङ्खिपने. आरम्मणसंखित्तेति कसिणुग्घाटिमाकासादिनिब्बत्तनेन कसिणादिआरम्मणानं संखिपने. अङ्गववत्थापनेति वितक्कादीनं झानङ्गानं ववत्थापने. आरम्मणववत्थापनेति पथवीकसिणादिज्झानारम्मणानं ववत्थापने.

झानङ्गेहीति रूपावचरज्झानङ्गेहि, झानङ्गानेव झानं. पुन झानङ्गेहीति अरूपावचरज्झानङ्गेहि. भाताति जेट्ठभाता. अस्साति कुटुम्बियस्स. सुवण्णपूजन्ति सोवण्णमयं पुप्फपूजं कत्वा. देवपुरेति तावतिंसभवने सुदस्सनमहानगरे. अग्गद्वारेनाति तस्मिं दिवसे अग्गं सब्बपठमं विवटेन नगरद्वारेन निक्खमित्वा.

कोकनदन्ति पदुमविसेसनं यथा ‘‘कोकासक’’न्ति. तं किर बहुपत्तं वण्णसम्पन्नं अतिसुगन्धञ्च होति. ‘‘कोकनदं नाम सेतपदुम’’न्तिपि वदन्ति. पातोति पगेव. अयञ्हेत्थ अत्थो – यथा कोकनदसङ्खातं पदुमं पातो सूरियुग्गमनवेलायं फुल्लं विकसितं अवीतगन्धं सिया विरोचमानं, एवं सरीरगन्धेन गुणगन्धेन च सुगन्धं सरदकाले अन्तलिक्खे आदिच्चमिव अत्तनो तेजसा तपन्तं अङ्गेहि निच्छरणकजुतिया अङ्गीरसं सम्मासम्बुद्धं पस्साति.

चूळपन्थको किर कस्सपसम्मासम्बुद्धकाले पब्बजित्वा पञ्ञवा हुत्वा अञ्ञतरस्स दन्धभिक्खुनो उद्देसगहणकाले परिहासकेळिं अकासि. सो भिक्खु तेन परिहासेन लज्जितो नेव उद्देसं गण्हि, न सज्झायमकासि. तेन कम्मेनायं पब्बजित्वाव दन्धो जातो, तस्मा गहितगहितपदं उपरिउपरिपदं गण्हन्तस्स नस्सति. इद्धिया अभिसङ्खरित्वा सुद्धं चोळखण्डं अदासीति तस्स पुब्बहेतुं दिस्वा तदनुरूपे कम्मट्ठाने नियोजेन्तो सुद्धं चोळखण्डं अदासि. सो किर पुब्बे राजा हुत्वा नगरं पदक्खिणं करोन्तो नलाटतो सेदे मुच्चन्ते परिसुद्धेन साटकेन नलाटं पुञ्छि, साटको किलिट्ठो अहोसि. सो ‘‘इमं सरीरं निस्साय एवरूपो परिसुद्धसाटको पकतिं जहित्वा किलिट्ठो जातो, अनिच्चा वत सङ्खारा’’ति अनिच्चसञ्ञं पटिलभि. तेन कारणेनस्स रजोहरणमेव पच्चयो जातो.

लोमानीति चोळखण्डतन्तगतअंसुके वदति. ‘‘किलिट्ठधातुकानी’’ति किलिट्ठसभावानि. एवंगतिकमेवाति इदं चित्तम्पि भवङ्गवसेन पकतिया पण्डरं परिसुद्धं रागादिसम्पयुत्तधम्मवसेन संकिलिट्ठं जातन्ति दस्सेति. नक्खत्तं समानेत्वाति नक्खत्तं समन्नाहरित्वा, आवज्जेत्वाति अत्थो. बिळारस्सत्थायाति बिळारस्स गोचरत्थाय. जलपथकम्मिकेनाति समुद्दकम्मिकेन. चारिन्ति खादितब्बतिणं. सच्चकारन्ति सच्चभावावहं कारं, ‘‘अत्तना गहिते भण्डे अञ्ञेसं न दातब्ब’’न्ति वत्वा दातब्बलञ्जन्ति वुत्तं होति. ततियेन पटिहारेनाति ततियेन सासनेन. पत्तिका हुत्वाति सामिनो हुत्वा.

अप्पकेनपीति थोकेनपि परित्तेनपि. मेधावीति पञ्ञवा. पाभतेनाति भण्डमूलेन. विचक्खणोति वोहारकुसलो. समुट्ठापेति अत्तानन्ति महन्तं धनं यसञ्च उप्पादेत्वा तत्थ अत्तानं सण्ठपेति पतिट्ठापेति. यथा किं? अणुं अग्गिंव सन्धमं, यथा पण्डितो पुरिसो परित्तकं अग्गिं अनुक्कमेन गोमयचुण्णादीनि पक्खिपित्वा मुखवातेन धमेन्तो समुट्ठापेति वड्ढेति, महन्तं अग्गिक्खन्धं करोति, एवमेव पण्डितो थोकम्पि पाभतं लभित्वा नानाउपायेहि पयोजेत्वा धनञ्च यसञ्च वड्ढेति, वड्ढेत्वा पुन तत्थ अत्तानं पतिट्ठापेति. ताय एव वा पन धनस्स महन्तताय अत्तानं समुट्ठापेति, अभिञ्ञातं पाकटं करोतीति अत्थो.

सुभूतित्थेरवत्थु

२०१-२०२. ततिये रणाति हि रागादयो किलेसा वुच्चन्तीति ‘‘सरणा धम्मा’’तिआदीसु (ध. स. १०० दुकमातिका) रागादयो किलेसा ‘‘रणा’’ति वुच्चन्ति. रणन्ति एतेहीति रणा. येहि अभिभूता सत्ता नानप्पकारेन कन्दन्ति परिदेवन्ति, तस्मा ते रागादयो ‘‘रणा’’ति वुत्ता. देसितनियामतो अनोक्कमित्वाति देसितानोक्कमनतो अनुपगन्त्वा देसेति, सत्थारा देसितनियामेनेव अनोदिस्सकं कत्वा धम्मं देसेतीति वुत्तं होति. एवन्ति एवं मेत्ताझानतो वुट्ठाय भिक्खागहणे सति. भिक्खादायकानं महप्फलं भविस्सतीति इदं चूळच्छरासङ्घातसुत्तेन (अ. नि. १.५१ आदयो) दीपेतब्बं. अच्छरासङ्घातमत्तम्पि हि कालं मेत्तचित्तं आसेवन्तस्स भिक्खुनो दिन्नदानं महप्फलं होति महानिसंसं, तेन च सो अमोघं रट्ठपिण्डं भुञ्जतीति अयमत्थो तत्थ आगतोयेव. निमित्तं गण्हित्वाति आकारं सल्लक्खेत्वा.

खदिरवनियरेवतत्थेरवत्थु

२०३. पञ्चमे वनसभागन्ति सभागं वनं, सभागन्ति च सप्पायन्ति अत्थो. यञ्हि पकतिविरुद्धं ब्याधिविरुद्धञ्च न होति, तं ‘‘सभाग’’न्ति वुच्चति. उदकसभागन्तिआदीसुपि इमिनाव नयेन अत्थो वेदितब्बो. कल्याणकम्मायूहनक्खणोति कल्याणकम्मूपचयस्स ओकासो. तिण्णं भातिकानन्ति उपतिस्सो, चुन्दो, उपसेनोति इमेसं तिण्णं जेट्ठभातिकानं. तिस्सन्नञ्च भगिनीनन्ति चाला, उपचाला, सीसुपचालाति इमेसं तिस्सन्नं जेट्ठभगिनीनं. एत्थ च सारिपुत्तत्थेरो सयं पब्बजित्वा चाला, उपचाला, सीसुपचालाति तिस्सो भगिनियो, चुन्दो उपसेनोति इमे भातरो पब्बाजेसि, रेवतकुमारो एकोव गेहे अवसिस्सति. तेन वुत्तं – ‘‘अम्हाकं…पे… पब्बाजेन्ती’’ति. महल्लकतराति वुद्धतरा. इदञ्च कुमारिकाय चिरजीवितं अभिकङ्खमाना आहंसु. सा किर तस्स अय्यिका वीसतिवस्ससतिका खण्डदन्ता पलितकेसा वलित्तचा तिलकाहतगत्ता गोपानसिवङ्का अहोसि. विधावनिकन्ति विधावनकीळिकं. तिस्सन्नं सम्पत्तीनन्ति अनुस्सववसेन मनुस्सदेवमोक्खसम्पत्तियो सन्धाय वदति, मनुस्सदेवब्रह्मसम्पत्तियो वा. सीवलिस्स पुञ्ञं वीमंसिस्सामाति ‘‘सीवलिना कतपुञ्ञस्स विपाकदानट्ठानमिद’’न्ति ञत्वा एवमाह. सभागट्ठानन्ति समं देसं.

तं भूमिरामणेय्यकन्ति किञ्चापि अरहन्तो गामन्ते कायविवेकं न लभन्ति, चित्तविवेकं पन लभन्तेव. तेसञ्हि दिब्बप्पटिभागानिपि आरम्मणानि चित्तं चालेतुं न सक्कोन्ति, तस्मा गामो वा होतु अरञ्ञादीनं वा अञ्ञतरं, ‘यत्थ अरहन्तो विहरन्ति, तं भूमिरामणेय्यकं’, सो भूमिप्पदेसो रमणीयो एवाति अत्थो.

कङ्खारेवतत्थेरवत्थु

२०४. छट्ठे अकप्पियो, आवुसो, गुळोति एकदिवसं थेरो अन्तरामग्गे गुळकरणं ओक्कमित्वा गुळे पिट्ठम्पि छारिकम्पि पक्खित्ते दिस्वान ‘‘अकप्पियो गुळो, सामिसो न कप्पति गुळो विकाले परिभुञ्जितु’’न्ति कुक्कुच्चायन्तो एवमाह. अकप्पिया मुग्गाति एकदिवसं अन्तरामग्गे वच्चे मुग्गं जातं दिस्वा ‘‘अकप्पिया मुग्गा, पक्कापि मुग्गा जायन्ती’’ति कुक्कुच्चायन्तो एवमाह. सेसमेत्थ सब्बं उत्तानमेव.

सोणकोळिविसत्थेरवत्थु

२०५. सत्तमे हापेतब्बमेव अहोसि अच्चारद्धवीरियत्ता. उदकेन समुपब्यूळ्हेति उदकेन थलं उस्सारेत्वा तत्थ तत्थ रासिकते. हरितूपलित्तायाति गोमयपरिभण्डकताय. तिविधेन उदकेन पोसेन्तीति खीरोदकं गन्धोदकं केवलोदकन्ति एवं तिविधेन उदकेन पोसेन्ति परिपालेन्ति. परिस्सावेत्वाति परिसोधेत्वा गहिते तण्डुलेति योजेतब्बं. देवो मञ्ञेति देवो विय. वीणोवादेनाति ‘‘तं किं मञ्ञसि, सोण, यदा ते वीणाय तन्तियो अच्चायता होन्ति, अपि नु ते वीणा तस्मिं समये सरवती वा होति कम्मञ्ञा वाति? नो हेतं, भन्तेति. एवमेव खो, सोण, अच्चारद्धवीरियं उद्धच्चाय संवत्तति, अतिसिथिलवीरियं कोसज्जाय संवत्तति. तस्मातिह त्वं, सोण, वीरियसमतं अधिट्ठह, इन्द्रियानञ्च समतं पटिविज्झा’’ति (महाव. २४३) एवं वीणं उपमं कत्वा पवत्तितेन वीणोपमोवादेन. वीरियसमथयोजनत्थायाति वीरियस्स समथेन योजनत्थाय.

सोणकुटिकण्णत्थेरवत्थु

२०६. अट्ठमे कुटिकण्णोति वुच्चतीति ‘‘कोटिकण्णो’’ति वत्तब्बे ‘‘कुटिकण्णो’’ति वोहरीयति. कुलघरे भवा कुलघरिका. सा किर अवन्तिरट्ठे कुलघरे महाविभवस्स सेट्ठिस्स भरिया. दसबलस्स धम्मकथं सुत्वा सोतापत्तिफले पतिट्ठाय चिन्तेसीति इदं अङ्गुत्तरभाणकानं मतेन वुत्तं. सुत्तनिपातट्ठकथायं पन ‘‘सपरिसो भगवन्तं उपसङ्कम्म धम्मदेसनं अस्सोसि, न च कञ्चि विसेसं अधिगञ्छि. कस्मा? सो हि धम्मं सुणन्तो हेमवतं अनुस्सरित्वा ‘आगतो नु खो मे सहायको, नो’ति दिसादिसं ओलोकेत्वा तं अपस्सन्तो ‘वञ्चितो मे सहायो, यो एवं विचित्तप्पटिभानं भगवतो देसनं न सुणाती’ति विक्खित्तचित्तो अहोसी’’ति वुत्तं.

यस्मा पटिसन्धिजातिअभिनिक्खमनबोधिपरिनिब्बानेस्वेव द्वत्तिंस पुब्बनिमित्तानि हुत्वाव पटिविगच्छन्ति, न चिरट्ठितिकानि होन्ति, धम्मचक्कप्पवत्तने (सं. नि. ५.१०८१; पटि. म. २.३०) पन तानि सविसेसानि हुत्वा चिरतरं ठत्वा निरुज्झन्ति, तस्मा वुत्तं – ‘‘तियोजनसहस्सं हिमवन्तं अकालपुप्फितं दिस्वा’’तिआदि. अग्गबलकायाति सब्बपुरतो गच्छन्ता बलकाया. केन पुप्फितभावं जानासीति केन कारणेन हिमवन्तस्स पुप्फितभावं जानासीति, येन कारणेन इमं अकालपुप्फपाटिहारियं जातं, तं जानासीति वुत्तं होति. तस्स पवत्तितभावन्ति तस्स धम्मचक्कस्स भगवता पवत्तितभावं. सद्दे निमित्तं गण्हीति सद्दे आकारं सल्लक्खेसि. ततोति ‘‘अहं ‘एतं अमतधम्मं तम्पि जानापेस्सामी’ति तव सन्तिकं आगतोस्मी’’ति यं वुत्तं, तदनन्तरन्ति अत्थो.

सातागिरो हेमवतस्स बुद्धुप्पादं कथेत्वा तं भगवतो सन्तिकं आनेतुकामो ‘‘अज्ज पन्नरसो’’तिआदिगाथमाह. तत्थ (सु. नि. अट्ठ. १.१५३) अज्जाति अयं रत्तिन्दिवो पक्खगणनतो पन्नरसो, उपवसितब्बतो उपोसथो. तीसु वा उपोसथेसु अज्ज पन्नरसो उपोसथो, न चातुद्दसिउपोसथो, न सामग्गीउपोसथो. दिवि भवानि दिब्बानि, दिब्बानि एत्थ अत्थीति दिब्बानि. कानि तानि? रूपानि. तञ्हि रत्तिं देवानं दससहस्सिलोकधातुतो सन्निपतितानं सरीरवत्थाभरणविमानप्पभाहि अब्भादिउपक्किलेसविरहिताय चन्दप्पभाय च सकलजम्बुदीपो अलङ्कतो अहोसीति अतिविय अलङ्कतो च परिविसुद्धिदेवस्स भगवतो सरीरप्पभाय. तेनाह – ‘‘दिब्बा रत्ति उपट्ठिता’’ति.

एवं रत्तिगुणवण्णनापदेसेनपि सहायस्स चित्तं पसादं जनेन्तो बुद्धुप्पादं कथेत्वा आह – ‘‘अनोमनामं सत्थारं, हन्द पस्साम गोतम’’न्ति. तत्थ अनोमेहि अलामकेहि सब्बाकारपरिपूरेहि गुणेहि नामं अस्साति अनोमनामो. तथा हिस्स ‘‘बुज्झिता सच्चानीति बुद्धो, बोधेता पजायाति बुद्धो’’तिआदिना (महानि. १९२; चूळनि. पारायनत्थुतिगाथानिद्देसो ९७; पटि. म. १.१६२) नयेन बुद्धोति अनोमेहि गुणेहि नामं. ‘‘भग्गरागोति भगवा, भग्गदोसोति भगवा’’तिआदिना (महानि. ८४) नयेन भगवाति अनोमेहि गुणेहि नामं. एस नयो ‘‘अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो’’तिआदीसु. दिट्ठधम्मिकादिअत्थेहि देवमनुस्से अनुसासति ‘‘इमं पजहथ, इमं समादाय वत्तथा’’ति सत्था. तं अनोमनामं सत्थारं. हन्दाति वचसायत्थे निपातो. पस्सामाति तेन अत्तानं सह सङ्गहेत्वा पच्चुप्पन्नबहुवचनं. गोतमन्ति गोतमगोत्तं. इदं वुत्तं होति – ‘‘सत्था, न सत्था’’ति मा विमतिं अकासि, एकन्तब्यवसितो हुत्वाव एहि पस्साम गोतमन्ति.

एवं वुत्ते हेमवतो ‘‘अयं सातागिरो ‘अनोमनामं सत्थार’न्ति भणन्तो तस्स सब्बञ्ञुतं पकासेति, सब्बञ्ञुनो च दुल्लभा लोके, सब्बञ्ञुपटिञ्ञेहि पूरणादिसदिसेहेव लोको उपद्दुतो. सो पन यदि सब्बञ्ञू, अद्धा तादिलक्खणं पत्तो भविस्सति, तेन एवं गहेस्सामी’’ति चिन्तेत्वा तादिलक्खणं पुच्छन्तो आह – ‘‘कच्चि मनो’’तिआदि. तत्थ कच्चीति पुच्छा. मनोति चित्तं. सुपणिहितोति सुट्ठु ठपितो अचलो असम्पवेधी. सब्बेसु भूतेसु सब्बभूतेसु. तादिनोति तादिलक्खणं पत्तस्सेव सतो. पुच्छा एव वा अयं ‘‘सो तव सत्था सब्बभूतेसु तादी, उदाहु नो’’ति. इट्ठे अनिट्ठेचाति एवरूपे आरम्मणे. सङ्कप्पाति वितक्का. वसीकताति वसं गमिता. इदं वुत्तं होति – यं तं सत्थारं वदसि, तस्स ते सत्थुनो कच्चि तादिलक्खणं सम्पत्तस्स सतो सब्बभूतेसु मनो सुपणिहितो, उदाहु याव पच्चयं न लभति, ताव सुपणिहितो विय खायति. सो वा ते सत्था कच्चि सब्बभूतेसु सत्तेसु तादी, उदाहु नो, ये च इट्ठानिट्ठेसु आरम्मणेसु रागदोसवसेन सङ्कप्पा उप्पज्जेय्युं, त्यास्स कच्चि वसीकता, उदाहु कदाचि तेसम्पि वसेन वत्ततीति.

तीणि वस्सानीति सोणस्स पब्बजितदिवसतो पट्ठाय तीणि वस्सानि. तदा किर भिक्खू येभुय्येन मज्झिमदेसेयेव वसिंसु, तस्मा तत्थ कतिपया एव अहेसुं. ते च एकस्मिं निगमे एको द्वेति एवं विसुं विसुं वसिंसु, थेरानञ्च कतिपये भिक्खू आनेत्वा अञ्ञेसु आनीयमानेसु पुब्बं आनीता केनचिदेव करणीयेन पक्कमिंसु, कञ्चि कालं आगमेत्वा पुन तेसु आनीयमानेसु इतरे पक्कमिंसु, एवं पुनप्पुनं आनयनेन सन्निपातो चिरेनेव अहोसि, थेरो च तदा एकविहारी अहोसि. तेन वुत्तं – ‘‘तीणि वस्सानि गणं परियेसित्वा’’ति. तीणि वस्सानीति च अच्चन्तसंयोगे उपयोगवचनं. सत्थु अधिप्पायं ञत्वाति अत्तनो आणापनेनेव ‘‘इमिना सद्धिं एकगन्धकुटियं वसितुकामो भगवा’’ति सत्थु अधिप्पायं जानित्वा. भगवा किर येन सद्धिं एकगन्धकुटियं वसितुकामो, तस्स सेनासनपञ्ञत्तियं आनन्दत्थेरं आणापेति.

अज्झोकासे वीतिनामेत्वाति अज्झोकासे निसज्जाय वीतिनामेत्वा. यस्मा भगवा आयस्मतो सोणस्स समापत्तिसमापज्जनेन पटिसन्थारं करोन्तो सावकसाधारणा सब्बा समापत्तियो अनुलोमप्पटिलोमं समापज्जन्तो बहुदेव रत्तिं अज्झोकासे निसज्जाय वीतिनामेत्वा पादे पक्खालेत्वा विहारं पाविसि, तस्मा आयस्मापि सोणो भगवतो अधिप्पायं ञत्वा तदनुरूपं सब्बा ता समापत्तियो समापज्जन्तो बहुदेव रत्तिं अज्झोकासे निसज्जाय वीतिनामेत्वा पादे पक्खालेत्वा विहारं पाविसीति वदन्ति. पविसित्वा च भगवता अनुञ्ञातो चीवरतिरोकरणियं कत्वा भगवतो पादपस्से निसज्जाय वीतिनामेसि. अज्झेसीति आणापेसि. पटिभातु तं भिक्खु धम्मो भासितुन्ति भिक्खु तुय्हं धम्मो भासितुं उपट्ठातु, ञाणमुखं आगच्छतु, यथासुतं यथापरियत्तं धम्मं भणाहीति अत्थो. अट्ठकवग्गियानीति अट्ठकवग्गभूतानि कामसुत्तादिसोळससुत्तानि (महानि. १). सुग्गहितोति सम्मा उग्गहितो. सब्बे वरे याचीति विनयधरपञ्चमेन गणेन उपसम्पदा धुवन्हानं चम्मत्थरणं गणङ्गणूपाहनं चीवरविप्पवासोति इमे पञ्च वरे याचि. सुत्ते आगतमेवाति उदानपाळियं आगतसुत्तं सन्धाय वदति.

सीवलित्थेरवत्थु

२०७. नवमे साकच्छित्वा साकच्छित्वाति रञ्ञा सद्धिं पटिविरुज्झनवसेन पुनप्पुनं साकच्छं कत्वा. गुळदधिन्ति पत्थिन्नं गुळसदिसं कठिनदधिं. अतिअञ्छितुन्ति अतिविय आकड्ढितुं. कञ्जियं वाहेत्वाति दधिमत्थुं पवाहेत्वा, परिस्सावेत्वाति अत्थो. ‘‘दधितो कञ्जियं गहेत्वा’’तिपि पाठो. नन्ति सुप्पवासं. बीजपच्छिं फुसापेन्तीति इमिना सम्बन्धो. याव न उक्कड्ढन्तीति याव दाने न उक्कड्ढन्ति, दातुकामाव होन्तीति अधिप्पायो महादुक्खं अनुभोसीति पसवनिबन्धनं महन्तं दुक्खं अनुभोसि. सामिकं आमन्तेत्वाति सत्ताहं मूळ्हगब्भा तिब्बाहि खराहि दुक्खवेदनाहि फुट्ठा ‘‘सम्मासम्बुद्धो वत सो भगवा, यो इमस्स एवरूपस्स दुक्खस्स पहानाय धम्मं देसेति. सुप्पटिपन्नो वत तस्स भगवतो सावकसङ्घो, यो इमस्स एवरूपस्स दुक्खस्स पहानाय पटिपन्नो. सुसुखं वत निब्बानं, यत्थिदं एवरूपं दुक्खं न संविज्जती’’ति (उदा. १८) इमेहि तीहि वितक्केहि तं दुक्खं अधिवासेन्ती सत्थु सन्तिकं पेसेतुकामताय सामिकं आमन्तेत्वा. पुरे मरणाति मरणतो पुरेतरमेव. इङ्गितन्ति आकारं. जीवितभत्तन्ति जीवितसंसये दातब्बभत्तं. सब्बकम्मक्खमो अहोसीति सत्तवस्सिकेहि दारकेहि कातब्बं यं किञ्चि कम्मं कातुं समत्थताय सब्बस्स कम्मस्स खमो अहोसि. तेनेव सो सत्ताहं महादाने दीयमाने जातदिवसतो पट्ठाय धम्मकरणं आदाय सङ्घस्स उदकं परिस्सावेत्वा अदासि.

योमन्तिआदिगाथाय ‘‘यो भिक्खु इमं रागपलिपथञ्चेव किलेसदुग्गञ्च संसारवट्टञ्च चतुन्नं सच्चानं अप्पटिविज्झनकमोहञ्च अतीतो चत्तारो ओघे तिण्णो हुत्वा पारं अनुप्पत्तो, दुविधेन झानेन झायी, तण्हाय अभावेन अनेजो, कथंकथाय अभावेन अकथंकथी, उपादानानं अभावेन अनुपादियित्वा किलेसनिब्बानेन निब्बुतो, तमहं ब्राह्मणं वदामी’’ति अत्थो.

सब्बेसंयेव पन केसानं ओरोपनञ्च अरहत्तसच्छिकिरिया च अपच्छाअपुरिमा अहोसीति इमिना थेरस्स खुरग्गेयेव अरहत्तुप्पत्ति दीपिता. एकच्चे पन आचरिया एवं वदन्ति ‘‘हेट्ठा वुत्तनयेन धम्मसेनापतिना ओवादे दिन्ने ‘यं मया कातुं सक्का, तमहं जानिस्सामी’ति पब्बजित्वा विपस्सनाकम्मट्ठानं गहेत्वा तं दिवसंयेव अञ्ञतरं विचित्तं कुटिकं दिस्वा पविसित्वा मातुकुच्छियं सत्त वस्सानि अत्तना अनुभूतदुक्खं अनुस्सरित्वा तदनुसारेन अतीतानागते ञाणं नेन्तस्स आदित्ता विय तयो भवा उपट्ठहिंसु. ञाणस्स परिपाकं गतत्ता विपस्सनावीथिं ओतरित्वा तावदेव मग्गप्पटिपाटिया सब्बेपि आसवे खेपेन्तो अरहत्तं पापुणी’’ति. उभयथापि थेरस्स अरहत्तुप्पत्तियेव पकासिता, थेरो पन पभिन्नप्पटिसम्भिदो छळभिञ्ञो अहोसि.

वक्कलित्थेरवत्थु

२०८. दसमे आहारकरणवेलन्ति भोजनकिच्चवेलं. अधिगच्छे पदं सन्तन्ति सङ्खारूपसमं सुखन्ति लद्धनामं सन्तं पदं निब्बानं अधिगच्छेय्य. पठमपादेन पब्बते ठितोयेवाति पठमेन पादेन गिज्झकूटे पब्बते ठितोयेव. सेसमेत्थ सुविञ्ञेय्यमेव.

दुतियएतदग्गवग्गवण्णना निट्ठिता.