(१४) १. पठमएतदग्गवग्गो
एतदग्गपदवण्णना
१८८. एतदग्गेसु पठमवग्गस्स पठमे आदिम्हि दिस्सतीति एत्थ अग्गसद्दोति आनेत्वा योजेतब्बं. अज्जतग्गेति अज्जदिवसं आदिं कत्वाति अत्थो. अङ्गुलग्गेनाति अङ्गुलिकोटिया. अम्बिलग्गन्ति अम्बिलकोट्ठासो. कोटिभूताति परमकोटिभूता तस्मिं ठाने तादिसानं अञ्ञेसं अभावतो. ततो एव सेट्ठभूतातिपि अग्गा. एतदग्गसन्निक्खेपोति एतदग्गे ठपनं अट्ठुप्पत्तिआदीहि चतूहिपि कारणेहि. महापञ्ञताय थेरेन एतदग्गट्ठानस्स लद्धभावं वित्थारतो दस्सेतुं – ‘‘कथ’’न्तिआदिमाह. द्वे पदन्तरानीति कण्डम्बमूले युगन्धरपब्बतेति द्वीसु ठानेसु द्वे पदानि दस्सेत्वा. मुण्डपीठकन्ति यं सत्तङ्गं पञ्चङ्गं वा न होति, केवलं मुण्डकपीठं, तं सन्धायेतं वुत्तं. अवत्थरित्वा निसीदीति बुद्धानुभावेन अज्झोत्थरित्वा निसीदि. तेनाह – ‘‘एवं निसीदन्तो’’तिआदि. कायसक्खिं कत्वाति नामकायेन देसनाय सम्पटिच्छनवसेन सक्खिभूतं कत्वा. कुसला धम्मा अकुसला धम्मा अब्याकता धम्माति इति-सद्दो आद्यत्थो, तेन सब्बं अभिधम्मदेसनं सङ्गण्हाति.
पाटिहारियट्ठानेति यमकपाटिहारियस्स कतट्ठाने. पस्सथाति तेसं बहुभावं सन्धाय वुत्तं. अस्साति मनुस्ससमूहस्स एकभावं. आकप्पन्ति आकारं. महाजनोति सदेवके लोके सब्बो महाजनो. यथा निरयदस्सनं संवेगजननत्थं, एवं देवलोकदस्सनम्पि संवेगजननत्थमेव ‘‘अनुपुब्बिकथायं सग्गकथा विय एवं सब्बसम्पत्तिसमुपेतोपि सग्गो अनिच्चो अद्धुवो चवनधम्मो’’ति. सज्जेत्वाति समपण्णासाय मुच्छनाहि यथा कामेन निवादेतुं सक्का, एवं सज्जेत्वा.
पुथुज्जनपञ्चकं पञ्हन्ति पुथुज्जनपञ्हं आदिं कत्वा पवत्तितं खीणासवपञ्हपरियन्तं पञ्हपञ्चकं. पठमं…पे… पुच्छीति पुथुज्जनविसये पञ्हं पुच्छि. पटिसम्भिदा यथाभिनीहारं यथासकं विपस्सनाभिनीहारेन पठमभूमियादयो विय पवत्तितविसयाति वुत्तं – ‘‘ते अत्तनो अत्तनो पटिसम्भिदाविसये ठत्वा कथयिंसू’’ति. बुद्धविसये पञ्हं पुच्छीति –
‘‘ये च सङ्खातधम्मासे, ये च सेखा पुथू इध;
तेसं मे निपको इरियं, पुट्ठो पब्रूहि मारिसा’’ति. (सु. नि. १०४४) –
इदं पञ्हं पुच्छि. तत्थ सङ्खातधम्माति सङ्खाता ञाता चतुसच्चधम्मा, ये च सङ्खातधम्मा चतूहि मग्गेहि पटिविद्धचतुसच्चधम्माति अत्थो. इमिना असेक्खा कथिता. पुथु-सद्दो उभयत्थपि योजेतब्बो ‘‘ये पुथू सङ्खातधम्मा, ये च पुथू सेखा’’ति. तेसन्ति तेसं द्विन्नं सेक्खासेक्खपुग्गलानं मे पुट्ठोति योजेतब्बं, मया पुट्ठोति अत्थो. इरियन्ति सेक्खासेक्खभूमिया आगमनप्पटिपदं. इरियति गच्छति सेक्खभूमिं असेक्खभूमिञ्च एतायाति इरिया, तं तेसं इरियं आगमनप्पटिपदं मया पुट्ठो पब्रूहि कथेहीति अत्थो. एवं भगवा बुद्धविसये पञ्हं पुच्छित्वा ‘‘इमस्स नु खो, सारिपुत्त, संखित्तेन भासितस्स कथं वित्थारेन अत्थो दट्ठब्बो’’ति आह. थेरो पञ्हं ओलोकेत्वा ‘‘सत्था मं सेक्खासेक्खानं भिक्खूनं आगमनप्पटिपदं पुच्छती’’ति पञ्हे निक्कङ्खो हुत्वा ‘‘आगमनप्पटिपदा नाम खन्धादिवसेन बहूहिपि मुखेहि सक्का कथेतुं, कतराकारेन नु खो कथेन्तो सत्थु अज्झासयं गण्हितुं सक्खिस्सामी’’ति अज्झासये कङ्खि, तं सन्धायेतं वुत्तं – ‘‘धम्मसेनापति…पे… न सक्कोती’’ति. पुच्छितपञ्हं विस्सज्जेतुं पटिभाने असति दिसाविलोकनं सत्तानं सभावोति दस्सेन्तो, ‘‘पुरत्थिम…पे... नासक्खी’’ति आह. तत्थ पञ्हुप्पत्तिट्ठानन्ति पञ्हुप्पत्तिकारणं.
थेरस्स किलमनभावं जानित्वाति ‘‘सारिपुत्तो पञ्हे निक्कङ्खो, अज्झासये मे कङ्खमानो किलमती’’ति थेरस्स किलमनभावं ञत्वा. चतुमहाभूतिककायपरिग्गहन्ति एतेन खन्धमुखेन नामरूपपरिग्गहो वुत्तो. ‘‘भूतमिदन्ति, सारिपुत्त, समनुपस्ससी’’ति हि वदन्तेन भगवता खन्धवसेन नामरूपपरिग्गहो दस्सितो. एवं किरस्स भगवतो अहोसि ‘‘सारिपुत्तो मया नये अदिन्ने कथेतुं न सक्खिस्सति, दिन्ने पन नये ममज्झासयं गहेत्वा खन्धवसेन कथेस्सती’’ति. थेरस्स सह नयदानेन सो पञ्हो नयसतेन नयसहस्सेन उपट्ठासि. तेनाह – ‘‘अञ्ञातं भगवा, अञ्ञातं सुगता’’ति.
अरूपावचरे पटिसन्धि नाम न होतीति बोधिसम्भारसम्भरणस्स अनोकासभावतो वुत्तं. तेनाह – ‘‘अभब्बट्ठानत्ता’’ति, लद्धब्याकरणानं बोधिसत्तानं उप्पत्तिया अभब्बदेसत्ताति अत्थो. रूपावचरे निब्बत्तीति कम्मवसितासम्भवतो अरूपावचरे अनिब्बत्तित्वा रूपावचरे निब्बत्ति.
परोसहस्सन्तिआदिना परोसहस्सजातकं दस्सेति. तत्थ परोसहस्सम्पीति अतिरेकसहस्सम्पि. समागतानन्ति सन्निपतितानं भासितस्स अत्थं जानितुं असक्कोन्तानं बालानं. कन्देय्युं ते वस्ससतं अपञ्ञाति ते एवं समागता अपञ्ञा इमे बालत्ता ससा विय वस्ससतम्पि वस्ससहस्सम्पि रोदेय्युं परिदेवेय्युं. रोदमानापि पन अत्थं वा कारणं वा नेव जानेय्युन्ति दीपेति. एकोव सेय्यो पुरिसो सपञ्ञोति एवरूपानं बालानं परोसहस्सतोपि एको पण्डितपुरिसोव सेय्यो वरतरोति अत्थो. कीदिसो सपञ्ञोति आह – ‘‘यो भासितस्स विजानाति अत्थ’’न्ति, अयं जेट्ठन्तेवासिको विय यो भासितस्स अत्थं जानाति, सो तादिसो सपञ्ञो वरतरोति अत्थो. दुतिये परोसतजातके झायेय्युन्ति याथावतो अत्थं जानितुं समाहिता हुत्वा चिन्तेय्युं. सेसमेत्थ वुत्तनयमेव.
ततियजातके ये सञ्ञिनोति ठपेत्वा नेवसञ्ञानासञ्ञायतनलाभिनो अवसेसचित्तकसत्ते दस्सेति. तेपि दुग्गताति तस्सा नेवसञ्ञानासञ्ञायतनसमापत्तिया अलाभतो तेपि दुग्गता दुक्खं उपगता सञ्ञीभवे. ‘‘सञ्ञा रोगो सञ्ञा गण्डो सञ्ञा सल्ल’’न्ति (म. नि. ३.२४) हि ते सञ्ञाय आदीनवदस्सिनो. येपि असञ्ञिनोति असञ्ञीभवे निब्बत्ते अचित्तकसत्ते दस्सेति. तेपि इमिस्सायेव समापत्तिया अलाभतो दुग्गतायेव. झानसुखं अनङ्गणं निद्दोसं यथावुत्तदोसाभावतो. बलवचित्तेकग्गतासभावेनपि तं अनङ्गणं नाम जातं. नेवसञ्ञी नासञ्ञीति आहाति अतीते किर बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो अरञ्ञायतने कालं करोन्तो अन्तेवासिकेहि पुट्ठो ‘‘नेवसञ्ञी नासञ्ञी’’ति आह. पुरिमजातके वुत्तनयेनेव तापसा जेट्ठन्तेवासिकस्स कथं न गण्हिंसु. बोधिसत्तो आभस्सरतो आगन्त्वा आकासे ठत्वा इमं गाथमाह. तेन वुत्तं – ‘‘सेसं वुत्तनयेनेव वेदितब्ब’’न्ति.
चतुत्थजातके (जा. १.१.१३५) चन्दस्स विय आभा एतस्साति चन्दाभं, ओदातकसिणं. सूरियाभन्ति सूरियस्स विय आभा एतस्साति सूरियाभं, पीतकसिणं. योध पञ्ञाय गाधतीति यो पुग्गलो इध सत्तलोके इदं कसिणद्वयं पञ्ञाय गाधति, आरम्मणं कत्वा अनुप्पविसति, तत्थ वा पतिट्ठहति. अवितक्केन दुतियज्झानेन आभस्सरूपगो होतीति सो पुग्गलो तथा कत्वा पटिलद्धेन दुतियेन झानेन आभस्सरब्रह्मलोकूपगो होति. सेसं पुरिमनयेनेव वेदितब्बन्ति इमिना इमं दस्सेति (जा. अट्ठ. १.१.१३५ चन्दाभजातकवण्णना) – अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो अरञ्ञायतने कालं करोन्तो अन्तेवासिकेहि पुच्छितो ‘‘चन्दाभं सूरियाभ’’न्ति वत्वा आभस्सरे निब्बत्तो. तापसा जेट्ठन्तेवासिकस्स न सद्दहिंसु. बोधिसत्तो आगन्त्वा आकासे ठितो इमं गाथं अभासि.
पञ्चमजातके आसीसेथेवाति आसाच्छेदं अकत्वा अत्तनो कम्मेसु आसं करेय्येव. न निब्बिन्देय्याति न निब्बेदं उप्पादेय्य, न उक्कण्ठेय्याति अत्थो. वोति निपातमत्तं. यथा इच्छिन्ति अहञ्हि सट्ठिहत्था नरका उट्ठानं इच्छिं, सोम्हि तथेव जातो, ततो उट्ठितोयेवाति दीपेति.
अतीते (जा. अट्ठ. ४.१३.सरभमिगजातकवण्णना) किर बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो सरभमिगयोनियं निब्बत्तित्वा अरञ्ञे पटिवसति. राजा मिगवित्तको अहोसि थामसम्पन्नो. एकदिवसं गन्त्वा अमच्चे आह – ‘‘यस्स पस्सेन मिगो पलायति, तेनेव सो दातब्बो’’ति. अथेकदिवसं सरभमिगो उट्ठाय रञ्ञो ठितट्ठानेन पलायि. अथ नं अमच्चा उप्पण्डेसुं. राजा चिन्तेसि – ‘‘इमे मं परिहासन्ति, मम पमाणं न जानन्ती’’ति गाळ्हं निवासेत्वा पत्तिकोव खग्गं आदाय ‘‘सरभं गण्हिस्सामी’’ति वेगेन पक्खन्दि. अथ नं दिस्वा तीणि योजनानि अनुबन्धि. सरभो अरञ्ञं पाविसि. राजापि पाविसियेव. तत्थ सरभमिगस्स गमनमग्गे सट्ठिहत्थमत्तो महापूतिपातनरकआवाटो अत्थि, सो तिंसहत्थमत्तं उदकेन पुण्णो तिणेहि च पटिच्छन्नो. सरभो उदकगन्धं घायित्वाव आवाटभावं ञत्वा थोकं ओसक्कित्वा गतो. राजा पन उजुकमेव आगच्छन्तो तस्मिं पति.
सरभो तस्स पदसद्दं असुणन्तो निवत्तित्वा तं अपस्सन्तो ‘‘नरकआवाटे पतितो भविस्सती’’ति ञत्वा आगन्त्वा ओलोकेन्तो तं गम्भीरे उदके अप्पतिट्ठे किलमन्तं दिस्वा तेन कतापराधं हदये अकत्वा सञ्जातकारुञ्ञो ‘‘मा मयि पस्सन्ते वराको नस्सतु, इमम्हा तं दुक्खा मोचेस्सामी’’ति आवाटतीरे ठितो ‘‘मा भायि, महाराज, अहं तं दुक्खा मोचेस्सामी’’ति वत्वा अत्तनो पियपुत्तं उद्धरितुं उस्साहं करोन्तो विय तस्सुद्धरणत्थाय सिलाय योग्गं कत्वा ‘‘विज्झिस्सामी’’ति आगतं राजानं सट्ठिहत्था नरका उद्धरित्वा अस्सासेत्वा पिट्ठिं आरोपेत्वा अरञ्ञा नीहरित्वा सेनाय अविदूरे ओतारेत्वा ओवादमस्स दत्वा पञ्चसु सीलेसु पतिट्ठापेसि. राजा सेनङ्गपरिवुतो नगरं गन्त्वा ‘‘इतो पट्ठाय सकलरट्ठवासिनो पञ्च सीलानि रक्खन्तू’’ति धम्मभेरिं चरापेसि. महासत्तेन पन अत्तनो कतगुणं कस्सचि अकथेत्वा सायं नानग्गरसभोजनं भुञ्जित्वा अलङ्कतसयने सयित्वा पच्चूसकाले महासत्तस्स गुणं सरित्वा उट्ठाय सयनपिट्ठे पल्लङ्केन निसीदित्वा पीतिपुण्णेन हदयेन उदानं उदानेन्तो ‘‘आसीसेथेव पुरिसो’’तिआदिना इमा छ गाथा अभासि.
तत्थ अहिता हिता चाति दुक्खफस्सा सुखफस्सा च, मरणफस्सा, जीवितफस्सातिपि अत्थो. सत्तानञ्हि मरणफस्सो अहितो, जीवितफस्सो हितो. तेसं अचिन्तितो मरणफस्सो आगच्छतीति दस्सेति. अचिन्तितम्पीति मया ‘‘आवाटे पतिस्सामी’’ति न चिन्तितं, ‘‘सरभं मारेस्सामी’’ति चिन्तितं. इदानि पन मे चिन्तितं नट्ठं, अचिन्तितमेव जातन्ति उदानवसेन वदति. भोगाति यसपरिवारा, एते चिन्तामया न होन्ति. तस्मा ञाणवता वीरियमेव कातब्बन्ति वदति. वीरियवतो हि अचिन्तितम्पि होतियेव.
तस्सेतं उदानं उदानेन्तस्सेव अरुणं उट्ठहि. पुरोहितो पातोव सुखसेय्यपुच्छनत्थं आगन्त्वा द्वारे ठितो तस्स उदानगीतसद्दं सुत्वा चिन्तेसि – ‘‘राजा हिय्यो मिगवं अगमासि, तत्थ सरभमिगं विद्धो भविस्सति, तेन मञ्ञे उदानं उदानेती’’ति. एवं ब्राह्मणस्स रञ्ञो परिपुण्णब्यञ्जनं उदानं सुत्वा सुमज्जिते आदासे मुखं ओलोकेन्तस्स छाया विय रञ्ञा च सरभेन च कतकारणं पाकटं अहोसि, सो नखग्गेन द्वारं आकोटेसि. राजा ‘‘को एसो’’ति पुच्छि. अहं, देव, पुरोहितोति. अथस्स द्वारं विवरित्वा ‘‘इतो एहाचरिया’’ति आह. सो पविसित्वा राजानं जयापेत्वा एकमन्तं ठितो ‘‘अहं, महाराज, तया अरञ्ञे कतकारणं जानामि, त्वं एकं सरभमिगं अनुबन्धन्तो नरके पतितो, अथ नं सो सरभो सिलाय योग्गं कत्वा नरकतो उद्धरि, सो त्वं तस्स गुणं सरित्वा उदानं उदानेसी’’ति वत्वा ‘‘सरभं गिरिदुग्गस्मि’’न्तिआदिना द्वे गाथा अभासि.
तत्थ अनुसरीति अनुबन्धि. विक्कन्तन्ति उद्धरणत्थाय कतपरक्कमं. अनुजीवसीति उपजीवसि, तस्सानुभावेन तया जीवितं लद्धन्ति अत्थो. समुद्धरीति उद्धरणं अकासि. सिलाय योग्गं सरभो करित्वाति सिलाय सोपानसदिसाय नरकतो उद्धरणयोग्गतं करित्वा. अलीनचित्तन्ति सङ्कोचं अप्पत्तचित्तं. त मिगं वदेसीति सुवण्णसरभमिगं इध सिरिसयने निपन्नो वण्णेसि. तं सुत्वा राजा, ‘‘अयं मया सद्धिं न मिगवं आगतो, सब्बञ्च पवत्तिं जानाति, कथं नु खो जानाति, पुच्छिस्सामि न’’न्ति चिन्तेत्वा – ‘‘किं त्वं नु तत्थेवा’’ति नवमगाथमाह. तत्थ भिंसरूपन्ति किं नु ते ञाणं बलवजातिकं, तेनेतं जानासीति वदति. ब्राह्मणो ‘‘नाहं सब्बञ्ञुबुद्धो, ब्यञ्जनं अमक्खेत्वा तया कथितगाथाय पन मय्हं अत्थो उपट्ठाती’’ति दीपेन्तो ‘‘न चेवह’’न्ति दसमगाथमाह. तत्थ सुभासितानन्ति ब्यञ्जनं अमक्खेत्वा सुट्ठु भासितानं. अत्थं तदानेन्तीति यो तेसं अत्थो, तं आनेन्ति उपधारेन्तीति अत्थो. तदा पुरोहितो धम्मसेनापति अहोसि. तेनेवाह – ‘‘अतीतेपी’’तिआदि. सेसं उत्तानत्थमेव.
अञ्ञासिकोण्डञ्ञत्थेरवत्थु
अञ्ञासिकोण्डञ्ञत्थेरादयोतिआदीसु पन याथावसरसगुणवसेनाति यथासभावगुणवसेन. पब्बज्जावसेन पटिवेधवसेन सुचिरं सुनिपुणं रत्तिन्दिवपरिच्छेदजाननवसेन च रत्तञ्ञुता वेदितब्बाति तं दस्सेन्तो ‘‘ठपेत्वा हि सम्मासम्बुद्ध’’न्तिआदिमाह. पाकटोव होतीति सतिपञ्ञावेपुल्लप्पत्तिको पाकटो विभूतो होति. अञ्ञासिकोण्डञ्ञोति सावकेसु सब्बपठमं चत्तारि अरियसच्चानि ञातकोण्डञ्ञो. सब्बेसुपि एतदग्गेसूति सब्बेसुपि एतदग्गसुत्तेसु, सब्बेसु वा एतदग्गट्ठपनेसु.
धुरपत्तानीति पत्तानं पमुखभूतानि बाहिरपत्तानि. नवुतिहत्थानीति मज्झिमपुरिसस्स हत्थेन नवुतिरतनानि. पदुमेनेव तं तं पदेसं उत्तरति अतिक्कमतीति पदुमुत्तरो, भगवा. गन्धदाममालादामादीहीति आदिसद्देन पत्तदामादिं सङ्गण्हाति. तत्थ गन्धदामेहि कतमाला गन्धदामं. लवङ्गतक्कोलजातिपुप्फादीहि कतमाला मालादामं. तमालपत्तादीहि कतमाला पत्तदामं. वङ्गपट्टेति वङ्गदेसे उप्पन्नघनसुखुमवत्थे. उत्तमसुखुमवत्थन्ति कासिकवत्थमाह.
तेपरिवट्टधम्मचक्कप्पवत्तनसुत्तन्तपरियोसानेति एत्थ ‘‘इदं दुक्खं अरियसच्च’’न्तिआदिना सच्चवसेन, ‘‘दुक्खं अरियसच्चं परिञ्ञेय्य’’न्तिआदिना किच्चवसेन, ‘‘दुक्खं अरियसच्चं परिञ्ञात’’न्तिआदिना कतवसेन च तीहि आकारेहि परिवट्टेत्वा चतुन्नं सच्चानं देसितत्ता तयो परिवट्टा एतस्स अत्थीति तिपरिवट्टं, तिपरिवट्टमेव तेपरिवट्टं, तेपरिवट्टञ्च तं धम्मचक्कप्पवत्तनञ्चाति तेपरिवट्टधम्मचक्कप्पवत्तनं, तदेव सुत्तन्तं, तस्स परियोसानेति अत्थो.
सालिगब्भं फालेत्वा आदायाति सालिगब्भं फालेत्वा तत्थ लब्भमानं सालिखीररसं आदाय. अनुच्छविकन्ति बुद्धानं अनुच्छविकं खीरपायसं पचापेम. वेणियो पुरिसभाववसेन बन्धित्वा कलापकरणे कलापग्गं. खले कलापानं ठपनदिवसे खलग्गं. मद्दित्वा वीहीनं रासिकरणदिवसे खलभण्डग्गं. कोट्ठेसु हि धञ्ञस्स पक्खिपनदिवसे कोट्ठग्गं.
द्वे गतियोति द्वे एव निप्फत्तियो, द्वे निट्ठाति अत्थो. तस्मिं कुमारे सब्बञ्ञुतं पत्तेति कोण्डञ्ञमाणवस्सेव लद्धियं ठत्वा इतरेपि छ जना पुत्ते अनुसासिंसु. बोधिरुक्खमूले पाचीनपस्सं अचलट्ठानं नाम, यं ‘‘वजिरासन’’न्तिपि वुच्चति. महतं महतियो वहतीति ‘‘पाचीनमुखो’’ति अवत्वा ‘‘पाचीनलोकधातुअभिमुखो’’ति वुत्तं. मंसचक्खुपि लोकनाथस्स अप्पटिघातं महाविसयञ्चाति. चतुरङ्गसमन्नागतन्ति ‘‘कामं तचो च न्हारु च, अट्ठि च अवसिस्सतू’’तिआदिना (म. नि. २.१८४; सं. नि. २.२२, २३७; अ. नि. २.५; महानि. १९६) वुत्तचतुरङ्गसमन्नागतं.
इदं पन सब्बमेवाति ‘‘कस्स नु खो अहं पठमं धम्मं देसेस्सामी’’तिआदिनयप्पवत्तं (म. नि. १.२८४; २.३४१; महाव. १०) सब्बमेव. परिवितक्कमत्तमेव तथा अत्थसिद्धिया अभावतो. पुप्फितफलितं कत्वाति अभिञ्ञापटिसम्भिदाहि सब्बपालिफुल्लं, मग्गफलेहि सब्बसो फलभारभरितञ्च करोन्तो पुप्फितं फलितं कत्वा. अपक्कमितुकामो हुत्वाति द्वेपि अग्गसावके अत्तनो निपच्चकारं करोन्ते दिस्वा तेसं गुणातिरेकतं बहु मञ्ञन्तो बुद्धानं सन्तिका अपक्कमितुकामो हुत्वा. तत्थेवाति छद्दन्तदहतीरेयेव.
सारिपुत्त-मोग्गल्लानत्थेरवत्थु
१८९-१९०. दुतियततियेसु इद्धिमन्तानन्ति एत्थ मन्त-सद्दो अतिसयत्थविसयोति थेरस्स अतिसयिकइद्धितं दस्सेतुं – ‘‘इद्धिया सम्पन्नान’’न्ति वुत्तं. सह पंसूहि कीळिंसूति सहपंसुकीळिता. इधलोकत्तभावमेवाति दिट्ठधम्मिकअत्तभावमेव. सोळस पञ्ञा पटिविज्झित्वा ठितोति मज्झिमनिकाये अनुपदसुत्तन्तदेसनाय ‘‘महापञ्ञो, भिक्खवे, सारिपुत्तो, पुथुपञ्ञो, भिक्खवे, सारिपुत्तो, हासपञ्ञो, भिक्खवे, सारिपुत्तो, जवनपञ्ञो, भिक्खवे, सारिपुत्तो, तिक्खपञ्ञो, भिक्खवे, सारिपुत्तो, निब्बेधिकपञ्ञो, भिक्खवे, सारिपुत्तो’’ति (म. नि. ३.९३) एवमागता महापञ्ञादिका छ, तस्मिंयेव सुत्ते आगता नवानुपुब्बविहारसमापत्तिपञ्ञा, अरहत्तमग्गपञ्ञाति इमा सोळसविधा पञ्ञा पटिविज्झित्वा सच्छिकत्वा ठितो.
पञ्हसाकच्छन्ति पञ्हस्स पुच्छनवसेन विस्सज्जनवसेन च साकच्छं करोति. अत्थिकेहि उपञ्ञातं मग्गन्ति एतं अनुबन्धनस्स कारणवचनं. इदञ्हि वुत्तं होति – यंनूनाहं इमं भिक्खुं पिट्ठितो पिट्ठितो अनुबन्धेय्यं. कस्मा? यस्मा इदं पिट्ठितो पिट्ठितो अनुबन्धनं नाम अत्थिकेहि उपञ्ञातं मग्गं, ञातो चेव उपगतो च मग्गोति अत्थो. अथ वा अत्थिकेहि अम्हेहि मरणे सति अमतेनपि भवितब्बन्ति एवं केवलं अत्थीति उपञ्ञातं, अनुमानञाणेन उपगन्त्वा ञातं निब्बानं नाम अत्थि, तं मग्गन्तो परियेसन्तोति एवम्पेत्थ अत्थो दट्ठब्बो.
नेसं परिसायाति द्विन्नं अग्गसावकानं परिवारभूतपरिसाय. द्वे अग्गसावकेति सारिपुत्तमोग्गल्लाने द्वे महानुभावे सावके. ठानन्तरेति अग्गसावकत्तसञ्ञिते ठानन्तरे ठपेसि. कस्मा पनेत्थ ‘‘अग्गसावके’’ति अवत्वा ‘‘महासावके’’ति वुत्तं. यदि अञ्ञेपि महाथेरा अभिञ्ञातादिगुणविसेसयोगेन ‘‘महासावका’’ति वत्तब्बतं लभन्ति, इमेयेव पन सावकेसु अनञ्ञसाधारणभूता विसेसतो ‘‘महासावका’’ति वत्तब्बाति दस्सनत्थं ‘‘द्वेपि महासावके’’ति वुत्तं.
महाकस्सपत्थेरवत्थु
१९१. चतुत्थे यस्मा धुतवादधुतधम्मधुतङ्गानि धुतमूलकानि, तस्मा ‘‘धुतो वेदितब्बो’’ति आरद्धं, तत्थ किलेसे धुनि धुतवाति धुतो, धुतकिलेसो पुग्गलो, किलेसधुननो वा धम्मो, किलेसधुननो धम्मोति च सपुब्बभागो अरियमग्गो दट्ठब्बो. तं धुतसञ्ञितं किलेसधुननधम्मं वदति, परे तत्थ पतिट्ठापेतीति धुतवादो. चतुक्कञ्चेत्थ सम्भवतीति तं दस्सेतुं – ‘‘एत्थ पना’’तिआदि आरद्धं. तयिदन्ति निपातो, तस्स सो अयन्ति अत्थो. धुतभूतस्स धुतभूता धम्मा धुतधम्मा. अप्पिच्छता सन्तुट्ठिता हेट्ठा वुत्ता एव. किलेसे सम्मा लिखति तच्छतीति सल्लेखो, किलेसजेगुच्छी, तस्स भावो सल्लेखता. द्वीहिपि कामेहि विविच्चतीति पविवेको, योनिसोमनसिकारबहुलो पुग्गलो, तस्स भावो पविवेकता. इमिना सरीरट्ठपनमत्तेन अत्थीति इदमट्ठि त्थ-कारस्स ट्ठ-कारं कत्वा, तस्स भावो इदमट्ठिता, इमेहि वा कुसलधम्मेहि अत्थि इदमट्ठि, येन ञाणेन ‘‘पब्बजितेन नाम पंसुकूलिकङ्गादीसु पतिट्ठितेन भवितब्ब’’न्ति यथानुसिट्ठं धुतगुणे समादियति चेव परिहरति च, तं ञाणं इदमट्ठिता. तेनाह – ‘‘इदमट्ठिता ञाणमेवा’’ति. धुतधम्मा नामाति धुतङ्गसेवनाय पटिपक्खभूतानं पापधम्मानं धुननवसेन पवत्तिया धुतोति लद्धनामाय धुतङ्गचेतनाय उपकारका धम्माति कत्वा धुतधम्मा नाम. अनुपतन्तीति तदन्तोगधा तप्परियापन्ना होन्ति तदुभयस्सेव पवत्तिविसेसभावतो. पटिक्खेपवत्थूसूति धुतङ्गसेवनाय पटिक्खिपितब्बवत्थूसु पहातब्बवत्थूसु.
पंसुकूलिकङ्गं…पे… नेसज्जिकङ्गन्ति उद्देसोपि पेय्यालनयेन दस्सितो. यदेत्थ वत्तब्बं, तं सब्बं विसुद्धिमग्गे (विसुद्धि. १.२२ आदयो) वित्थारतो वुत्तं. धुतवादग्गहणेनेव थेरस्स धुतभावोपि गहितो होतीति ‘‘धुतवादान’’न्तेव वुत्तं. अयं महाति अभिनीहारादिमहन्ततायपि सासनस्स उपकारितायपि अयं थेरो महा, गुणमहन्तताय पसंसावचनमेव वा एतं थेरस्स यदिदं महाकस्सपोति यथा ‘‘महामोग्गल्लानो’’ति.
सत्थु धम्मदेसनाय वत्थुत्तये सञ्जातप्पसादताय उपासकभावे ठितत्ता वुत्तं – ‘‘उपोसथङ्गानि अधिट्ठाया’’तिआदि. एतस्स अग्गभावस्साति योजेतब्बं. सच्चकारोति सच्चभावावहो कारो, अविसंवादनवसेन वा तदत्थसाधनोति अत्थो. कोलाहलन्ति कुतूहलविप्फारो. सत्था सत्तमे सत्तमे संवच्छरे धम्मं कथेन्तो सत्तानं सवनयोग्गं कालं सल्लक्खेन्तो दिवा सायन्हसमयं कथेति, रत्तियं सकलयामं. तेनाह – ‘‘ब्राह्मणो ब्राह्मणे आह – ‘भोति किं रत्तिं धम्मं सुणिस्ससि दिवा’’’ति. विस्सासिकोति विस्सासिकभावो. ‘‘ततो पट्ठाय सो’’ति वा पाठो.
द्वे असङ्ख्येय्यानि पूरितपारमिस्साति इदं सा परम्पराय सोतपतितं अत्थं गहेत्वा आह. अदिन्नविपाकस्साति अविपक्कविपाकस्स. भद्दके कालेति युत्ते काले. नक्खत्तन्ति नक्खत्तेन लक्खितं छणं. तस्मिं तस्मिञ्हि नक्खत्ते अनुभवितब्बछणानि नक्खत्तानि नाम, इतरानि पन छणानि नाम. सम्मापतितदुक्खतो विमोचनेन ततो निय्यानावहताय इच्छितत्थस्स लभापनतो च निय्यानिकं. तेसन्ति सुवण्णपदुमानं. ओलम्बकाति सुवण्णरतनविचित्ता रतनदामा. पुञ्ञनियामेनाति पुञ्ञानुभावसिद्धेन नियामेन. स्वस्स बाराणसिरज्जं दातुं कतोकासो. फुस्सरथन्ति मङ्गलरथं. सेतच्छत्तउण्हीसवालबीजनिखग्गमणिपादुकानि पञ्चविधं राजककुधभण्डन्ति वदन्ति. इध पन सेतच्छत्तं विसुं गहितन्ति सीहासनं पञ्चमं कत्वा वदन्ति. पारुपनकण्णन्ति पारुपनवत्थस्स दसन्तं. दिब्बवत्थदायिपुञ्ञानुभावचोदितो ‘‘ननु ताता थूल’’न्ति आह. अहो तपस्सीति अहो कपणो अहं राजाति अत्थो. बुद्धानं सद्दहित्वाति बुद्धानं सासनं सद्दहित्वा. चङ्कमनसतानीति इति-सद्दो आद्यत्थो. तेन हि अग्गिसालादीनि पब्बजितसारुप्पानि ठानानि सङ्गण्हाति.
साधुकीळितन्ति अरियानं परिनिब्बुतट्ठाने कातब्बसक्कारं वदति. नप्पमज्जि, निरोगा अय्याति पुच्छिताकारदस्सनं. परिनिब्बुता देवाति देवी पटिवचनं अदासि. पटियादेत्वाति निय्यातेत्वा. समणकपब्बज्जन्ति समितपापेहि अरियेहि अनुट्ठातब्बपब्बज्जं. सो हि राजा पच्चेकबुद्धानं वेसस्स दिट्ठत्ता ‘‘इदमेव भद्दक’’न्ति तादिसंयेव लिङ्गं गण्हि. तत्थेवाति ब्रह्मलोके एव. वीसतिमे वस्से सम्पत्तेति आहरित्वा सम्बन्धो. ब्रह्मलोकतो चवित्वा निब्बत्तत्ता, ब्रह्मचरियाधिकारस्स च चिरकालसम्भूतत्ता ‘‘एवरूपं कथं मा कथेथा’’ति आह. वीसति धरणानि निक्खन्ति वदन्ति, पञ्चपलं निक्खन्ति अपरे. इत्थाकरोति इत्थिरतनस्स उप्पत्तिट्ठानं. अय्यधीताति अम्हाकं अय्यस्स धीता, भद्दकापिलानीति अत्थो. समानपण्णन्ति सदिसपण्णं सदिसलेखं कुमारस्स कुमारिकाय च युत्तं पण्णलेखं. ते पुरिसा समागतट्ठानतो मगधरट्ठे महातित्थगामं मद्दरट्ठे सागलनगरञ्च उद्दिस्स अपक्कमन्ता अञ्ञमञ्ञं विस्सज्जन्ता नाम होन्तीति ‘‘इतो च एत्तो च पेसेसु’’न्ति वुत्ता.
पुप्फदामन्ति हत्थिहत्थप्पमाणं पुप्फदामं. तानीति तानि उभोहि गन्थापितानि द्वे पुप्फदामानि. तेति उभो भद्दा चेव पिप्पलिकुमारो च. लोकामिसेनाति कामस्सादेन. असंसट्ठाति न संयुत्ता घटे जलन्तेन विय पदीपेन अज्झासये समुज्जलन्तेन विमोक्खबीजेन समुस्साहितचित्तत्ता. यन्तबद्धानीति सस्ससम्पादनत्थं तत्थ तत्थ द्वारकवाटयोजनवसेन बद्धानि निक्खमनतुम्बानि. कम्मन्तोति कसिकम्मकरणट्ठानं. दासिकगामाति दासानं वसनगामा. ओसारेत्वाति पक्खिपित्वा. आकप्पकुत्तवसेनाति आकारवसेन किरियावसेन. अननुच्छविकन्ति पब्बजितभावस्स अननुरूपं. तस्स मत्थकेति द्वेधापथस्स द्विधाभूतट्ठाने. एतेसं सङ्गहं कातुं वट्टतीति निसीदतीति सम्बन्धो. सा पन तत्थ सत्थु निसज्जा एदिसीति दस्सेतुं – ‘‘निसीदन्तो पना’’तिआदि वुत्तं. तत्थ या बुद्धानं अपरिमितकालसम्भूताचिन्तेय्यापरिञ्ञेय्यपुञ्ञसम्भारूपचयनिब्बत्ता रूपप्पभावबुद्धगुणविज्जोतिता द्वत्तिंसमहापुरिसलक्खणअसीतिअनुब्यञ्जनसमुज्जलिता ब्यामप्पभाकेतुमालालङ्कता सभावसिद्धिताय अकित्तिमा रूपकायसिरी, तंयेव महाकस्सपस्स अदिट्ठपुब्बप्पसादसंवद्धनत्थं अनिग्गूहित्वा निसिन्नो भगवा ‘‘बुद्धवेसं गहेत्वा…पे… निसीदी’’ति वुत्तो. असीतिहत्थप्पदेसं ब्यापेत्वा पवत्तिया असीतिहत्थाति वुत्ता. सतसाखोति बहुसाखो अनेकसाखो. सुवण्णवण्णोव अहोसि निरन्तरं बुद्धरस्मीहि समन्ततो समोकिण्णभावतो.
तीसु ठानेसूति दूरतो नातिदूरे आसन्नेति तीसु ठानेसु. तीहि ओवादेहीति ‘‘तस्मातिह ते, कस्सप, एवं सिक्खितब्बं ‘तिब्बं मे हिरोत्तप्पं पच्चुपट्ठितं भविस्सति थेरेसु नवेसु मज्झिमेसू’ति. एवञ्हि ते, कस्सप, सिक्खितब्बं. तस्मातिह ते, कस्सप, एवं सिक्खितब्बं ‘यं किञ्चि धम्मं सुणिस्सामि कुसलूपसंहितं, सब्बं तं अट्ठिं कत्वा मनसि करित्वा सब्बं चेतसा समन्नाहरित्वा ओहितसोतो धम्मं सुणिस्सामी’ति, एवञ्हि ते, कस्सप, सिक्खितब्बं. तस्मातिह ते, कस्सप, एवं सिक्खितब्बं ‘सातसहगता च मे कायगतासति न विजहिस्सती’ति, एवञ्हि ते, कस्सप, सिक्खितब्ब’’न्ति (सं. नि. २.१५४) इमेहि तीहि ओवादेहि. एत्थ हि भगवा पठमं ओवादं थेरस्स ब्राह्मणजातिकत्ता जातिमानप्पहानत्थमभासि, दुतियं बाहुसच्चं निस्साय उप्पज्जनकअहंकारप्पहानत्थं, ततियं उपधिसम्पत्तिं निस्साय उप्पज्जनकअत्तसिनेहप्पहानत्थं. मुदुका खो त्यायन्ति मुदुका खो ते अयं. कस्मा पन भगवा एवमाह? थेरेन सह चीवरं परिवत्तेतुकामताय. कस्मा परिवत्तेतुकामो जातोति? थेरं अत्तनो ठाने ठपेतुकामताय. किं सारिपुत्तमोग्गल्लाना नत्थीति? अत्थि, एवं पनस्स अहोसि ‘‘इमेन चिरं ठस्सन्ति, कस्सपो पन वीसतिवस्ससतायुको, सो मयि परिनिब्बुते सत्तपण्णिगुहायं वसित्वा धम्मविनयसङ्गहं कत्वा मम सासनं पञ्चवस्ससहस्सपरिमाणकालप्पवत्तनकं करिस्सतीति अत्तनो ठाने ठपेसि. एवं भिक्खू कस्सपस्स सुस्सूसितब्बं मञ्ञिस्सन्ती’’ति. तस्मा एवमाह.
चन्दूपमोति चन्दसदिसो हुत्वा. किं परिमण्डलताय? नो, अपिच खो यथा चन्दो गगनतलं पक्खन्दमानो न केनचि सद्धिं सन्थवं वा सिनेहं वा आलयं वा करोति, न च न होति महाजनस्स पियो मनापो, अयम्पि एवं केनचि सद्धिं सन्थवादीनं अकरणेन बहुजनस्स पियो मनापो चन्दूपमो हुत्वा खत्तियकुलादीनि चत्तारि कुलानि उपसङ्कमतीति अत्थो. अपकस्सेव कायं अपकस्स चित्तन्ति तेनेव सन्थवादीनं अकरणेन कायञ्च चित्तञ्च अपकड्ढित्वा, अपनेत्वाति अत्थो. निच्चं नवोति निच्चनवकोव, आगन्तुकसदिसो हुत्वाति अत्थो. आगन्तुको हि पटिपाटिया सम्पत्तगेहं पविसित्वा सचे नं घरसामिका दिस्वा ‘‘अम्हाकम्पि पुत्तभातरो विप्पवासं गन्त्वा एवं विचरिंसू’’ति अनुकम्पमाना निसीदापेत्वा भोजेन्ति, भुत्तमत्तोयेव ‘‘तुम्हाकं भाजनं गण्हथा’’ति उट्ठाय पक्कमति, न तेहि सद्धिं सन्थवं वा करोति, किच्चकरणीयानि वा संविदहति, एवमयम्पि पटिपाटिया सम्पत्तं घरं पविसित्वा यं इरियापथे पसन्ना मनुस्सा देन्ति, तं गहेत्वा छिन्नसन्थवो तेसं किच्चकरणीये अब्यावटो हुत्वा निक्खमतीति दीपेति.
अप्पगब्भोति नप्पगब्भो, अट्ठट्ठानेन कायपागब्भियेन, चतुट्ठानेन वचीपागब्भियेन, अनेकट्ठानेन मनोपागब्भियेन च विरहितोति अत्थो. अट्ठट्ठानं कायपागब्भियं नाम सङ्घगणपुग्गलभोजनसालजन्ताघरनहानतित्थभिक्खाचारमग्गेसु अन्तरघरपवेसने च कायेन अप्पतिरूपकरणं. चतुट्ठानं वचीपागब्भियं नाम सङ्घगणपुग्गलअन्तरघरेसु अप्पतिरूपवाचानिच्छारणं. अनेकट्ठानं मनोपागब्भियं नाम तेसु तेसु ठानेसु कायवाचाहि अज्झाचारं अनापज्जित्वापि मनसा कामवितक्कादीनं वितक्कनं. सब्बेसम्पि इमेसं पागब्भियानं अभावेन अप्पगब्भो हुत्वा कुलानि उपसङ्कमतीति अत्थो. कस्सपसंयुत्तेन च चन्दूपमप्पटिपदादिथेरस्स धुतवादेसु अग्गभावस्स बोधितत्ता वुत्तं ‘‘एतदेव कस्सपसंयुत्तं अट्ठुप्पत्तिं कत्वा’’ति.
अनुरुद्धत्थेरवत्थु
१९२. पञ्चमे भोजनपपञ्चमत्तन्ति गोचरगामे पिण्डाय चरणाहारपरिभोगसञ्ञितं भोजनपपञ्चमत्तं. दीपरुक्खानन्ति लोहदन्तकट्ठमयानं महन्तानं दीपरुक्खानं. लोहमयेसुपि हि तेसु दीपाधारेसु दीपरुक्खकाति रुळ्हिरेसा दट्ठब्बा. ओलम्बकदीपमण्डलदीपसञ्चरणदीपादिका सेसदीपा.
अनुपरियायि पदक्खिणकरणवसेन. अहं तेनाति येन तुय्हं अत्थो, अहं तेन पवारेमि, तस्मा तं आहरापेत्वा गण्हाति अत्थो. सुवण्णपातियंयेवस्स भत्तं उप्पज्जीति देवतानुभावेन उप्पज्जि, न किञ्चि पचनकिच्चं अत्थि. सत्त महापुरिसवितक्के वितक्केसीति ‘‘अप्पिच्छस्सायं धम्मो, नायं धम्मो महिच्छस्सा’’तिआदिके सत्त महापुरिसवितक्के वितक्केसि. अट्ठमेति ‘‘निप्पपञ्चारामस्सायं धम्मो, नायं धम्मो पपञ्चारामस्सा’’ति एतस्मिं पुरिसवितक्के.
मम सङ्कप्पमञ्ञायाति ‘‘अप्पिच्छस्सायं धम्मो, नायं धम्मो महिच्छस्सा’’तिआदिना (दी. नि. ३.३५८; अ. नि. ८.३०) महापुरिसवितक्कवसेन आरद्धमत्तं मत्थकं पापेतुं असमत्थभावेन ठितं मम सङ्कप्पं जानित्वा. मनोमयेनाति मनोमयेन विय मनसा निम्मितसदिसेन, परिणामितेनाति अत्थो. इद्धियाति ‘‘अयं कायो इदं चित्तं विय होतू’’ति एवं पवत्ताय अधिट्ठानिद्धिया.
यदा मे अहु सङ्कप्पोति यस्मिं काले मय्हं ‘‘कीदिसो नु खो अट्ठमो महापुरिसवितक्को’’ति परिवितक्को अहोसि, यदा मे अहु सङ्कप्पो, ततो मम सङ्कप्पमञ्ञाय इद्धिया उपसङ्कमि, उत्तरि देसयीति योजना. उत्तरि देसयीति ‘‘निप्पपञ्चारामस्सायं धम्मो निप्पपञ्चरतिनो, नायं धम्मो पपञ्चारामस्स पपञ्चरतिनो’’ति (दी. नि. ३.३५८; अ. नि. ८.३०) इमं अट्ठमं महापुरिसवितक्कं पूरेन्तो उपरि देसयि. तं पन देसितं दस्सेन्तो आह – ‘‘निप्पपञ्चरतो बुद्धो, निप्पपञ्चमदेसयी’’ति, पपञ्चा नाम रागादयो किलेसा, तेसं वूपसमनताय तदभावतो च लोकुत्तरधम्मा निप्पपञ्चा नाम. यथा तं पापुणाति, तथा धम्मं देसेसि, सामुक्कंसिकं चतुसच्चदेसनं अदेसयीति अत्थो.
तस्साहं धम्ममञ्ञायाति तस्स सत्थु देसनाधम्मं जानित्वा. विहासिन्ति यथानुसिट्ठं पटिपज्जन्तो विहरिं. सासने रतोति सिक्खत्तयसङ्गहे सासने अभिरतो. तिस्सो विज्जा अनुप्पत्ताति पुब्बेनिवासञाणं, दिब्बचक्खुञाणं, आसवक्खयञाणन्ति इमा तिस्सो विज्जा मया अनुप्पत्ता सच्छिकता. ततो एव कतं बुद्धस्स सासनं, अनुसिट्ठि ओवादो अनुट्ठितोति अत्थो.
भद्दियत्थेरवत्थु
१९३. छट्ठे उच्च-सद्देन समानत्थो उच्चा-सद्दोति आह – ‘‘उच्चाकुलिकानन्ति उच्चे कुले जातान’’न्ति. काळी सा देवीति काळवण्णताय काळी सा देवी. कुलानुक्कमेन रज्जानुप्पत्ति महाकुलिनस्सेवाति वुत्तं – ‘‘सोयेव चा’’तिआदि.
लकुण्डकभद्दियत्थेरवत्थु
१९४. सत्तमे रित्तकोति देय्यवत्थुरहितो. गुणे आवज्जेत्वाति भगवतो रूपगुणे चेव आकप्पसम्पदादिगुणे च अत्तनो अधिप्पायं ञत्वा अम्बपक्कस्स पटिग्गहणं परिभुञ्जनन्ति एवमादिके यथाउपट्ठिते गुणे आवज्जेत्वा.
पिण्डोलभारद्वाजत्थेरवत्थु
१९५. अट्ठमे अभीतनादभावेन सीहस्स विय नादो सीहनादो, सो एतेसं अत्थीति सीहनादिका, तेसं सीहनादिकानं. गरहितब्बपसंसितब्बधम्मे याथावतो जानन्तस्सेव गरहा पसंसा च युत्तरूपाति आह – ‘‘बुद्धा च नामा’’तिआदि. खीणा जातीतिआदीहि पच्चवेक्खणञाणस्स भूमिं दस्सेति. तेन हि ञाणेन अरियसावको पच्चवेक्खन्तो ‘‘खीणा जाती’’तिआदिं पजानाति. कतमा पनस्स जाति खीणा, कथञ्च पजानातीति? न तावस्स अतीता खीणा पुब्बेव खीणत्ता, न अनागता अनागते वायामाभावतो, न पच्चुप्पन्ना विज्जमानत्ता. या पन मग्गस्स अभावितत्ता उप्पज्जेय्य एकचतुपञ्चवोकारभवेसु एकचतुपञ्चक्खन्धप्पभेदा जाति, सा मग्गस्स भावितत्ता अनुप्पादधम्मतं आपज्जनेन खीणा. तं सो मग्गभावनाय पहीनकिलेसे पच्चवेक्खित्वा ‘‘किलेसाभावे विज्जमानम्पि कम्मं आयतिं अप्पटिसन्धिकं होती’’ति जानन्तो पजानाति.
वुसितन्ति वुट्ठं परिवुट्ठं, कतं चरितं निट्ठितन्ति अत्थो. ब्रह्मचरियन्ति मग्गब्रह्मचरियं. पुथुज्जनकल्याणकेन हि सद्धिं सत्त सेक्खा मग्गब्रह्मचरियं वसन्ति नाम, खीणासवो वुट्ठवासो. तस्मा अरियसावको अत्तनो ब्रह्मचरियवासं पच्चवेक्खन्तो ‘‘वुसितं ब्रह्मचरिय’’न्ति पजानाति. कतं करणीयन्ति चतूसु सच्चेसु चतूहि मग्गेहि परिञ्ञापहानसच्छिकिरियाभावनाभिसमयवसेन सोळसविधं किच्चं निट्ठापितन्ति अत्थो. पुथुज्जनकल्याणकादयो हि तं किच्चं करोन्ति, खीणासवो कतकरणीयो. तस्मा अरियसावको अत्तनो करणीयं पच्चवेक्खन्तो ‘‘कतं करणीय’’न्ति पजानाति. नापरं इत्थत्तायाति इदानि पुन इत्थभावाय एवं सोळसविधकिच्चभावाय, किलेसक्खयाय वा मग्गभावनाय किच्चं मे नत्थीति पजानाति. अथ वा इत्थत्तायाति इत्थभावतो इमस्मा एवंपकारा इदानि वत्तमानक्खन्धसन्ताना अपरं खन्धसन्तानं मय्हं नत्थि, इमे पन पञ्चक्खन्धा परिञ्ञाता तिट्ठन्ति छिन्नमूलका रुक्खा विय, ते चरिमकविञ्ञाणनिरोधेन अनुपादानो विय जातवेदो निब्बायिस्सन्तीति पजानाति.
मन्ताणिपुत्तपुण्णत्थेरवत्थु
१९६. नवमे अट्ठारससुपि विज्जाट्ठानेसु निप्फत्तिं गतत्ता ‘‘सब्बसिप्पेसु कोविदो हुत्वा’’ति वुत्तं. अभिदयाअब्भञ्ञावहस्सेव धम्मस्स तत्थ उपलब्भनतो ‘‘मोक्खधम्मं अदिस्वा’’ति वुत्तं. तेनाह – ‘‘इदं वेदत्तयं नामा’’तिआदि. तथा हि अनेन दुग्गतिपरिमुच्चनम्पि दुल्लभं, अभिञ्ञापरिवारानं अट्ठन्नं समापत्तीनं लाभिताय सयं एकदेसेन उपसन्तो परमुक्कंसगतं उत्तमदमथसमथं अनञ्ञसाधारणं भगवन्तं सम्भावेन्तो ‘‘अयं पुरिसो’’तिआदिमाह. पिटकानि गहेत्वा आगच्छन्तीति फलभाजनानि गहेत्वा अस्सामिकाय आगच्छन्ति. बुद्धानन्ति गारववसेन बहुवचननिद्देसो कतो. परिभुञ्जीति देवताहि पक्खित्तदिब्बोजं वनमूलफलाफलं परिभुञ्जि. पत्ते पतिट्ठापितसमनन्तरमेव हि देवता तत्थ दिब्बोजं पक्खिपिंसु. सम्मसित्वाति पच्चवेक्खित्वा, परिवत्तेत्वाति च वदन्ति. अरहत्तं पापुणिंसूति महादेवत्थेरस्स अनुमोदनकथाय अनुपुब्बिकथासक्खिकाय सुविसोधितचित्तसन्ताना अरहत्तं पापुणिंसु.
दसहि कथावत्थूहीति अप्पिच्छकथा सन्तुट्ठिकथा पविवेककथा असंसग्गकथा वीरियारम्भकथा सीलसम्पदाकथा समाधिसम्पदाकथा पञ्ञासम्पदाकथा विमुत्तिसम्पदाकथा विमुत्तिञाणदस्सनसम्पदाकथाति इमेहि दसहि कथावत्थूहि. जातिभूमिरट्ठवासिनोति जातिभूमिवन्तदेसवासिनो, सत्थु जातदेसवासिनोति अत्थो. सीसानुलोकिकोति पुरतो गच्छन्तस्स सीसं अनु अनु पस्सन्तो. ओकासं सल्लक्खेत्वाति साकच्छाय अवसरं सल्लक्खेत्वा. सत्तविसुद्धिक्कमं पुच्छीति ‘‘किं नु खो, आवुसो, सीलविसुद्धत्थं भगवति ब्रह्मचरियं वुस्सती’’तिआदिना (म. नि. १.२५७) सत्त विसुद्धियो पुच्छि. धम्मकथिकानं अग्गट्ठाने ठपेसि सविसेसेन दसकथावत्थुलाभिताय.
महाकच्चानत्थेरवत्थु
१९७. दसमे संखित्तेन कथितधम्मस्साति मधुपिण्डिकसुत्तन्तदेसनासु विय सङ्खेपेन देसितधम्मस्स. तं देसनं वित्थारेत्वाति तं सङ्खेपदेसनं आयतनादिवसेन वित्थारेत्वा. अत्थं विभजमानानन्ति तस्सा सङ्खेपदेसनाय अत्थं विभजित्वा कथेन्तानं. अत्थवसेन वाति ‘‘एत्तका एतस्स अत्था’’ति अत्थवसेन वा देसनं पूरेतुं सक्कोन्ति. ब्यञ्जनवसेन वाति ‘‘एत्तकानि एत्थ ब्यञ्जनानि देसनावसेन वत्तब्बानी’’ति ब्यञ्जनवसेन वा पूरेतुं सक्कोन्ति. अयं पन महाकच्चानत्थेरो उभयवसेनपि सक्कोति तस्स सङ्खेपेन उद्दिट्ठस्स वित्थारेन सत्थु अज्झासयानुरूपं देसनतो, तस्मा तत्थ अग्गोति वुत्तो. वुत्तनयेनेवाति ‘‘पातोव सुभोजनं भुञ्जित्वा उपोसथङ्गानि अधिट्ठाया’’तिआदिना हेट्ठा वुत्तनयेनेव. अञ्ञेहीति अञ्ञासं इत्थीनं केसेहि अतिविय दीघा. न केवलञ्च दीघा एव, अथ खो सिनिद्धनीलमुदुकञ्चिका च. निक्केसीति अप्पकेसी यथा ‘‘अनुदरा कञ्ञा’’ति.
पणियन्ति विक्केतब्बभण्डं. आवज्जेत्वाति उपनिस्सयं केसानं पकतिभावापत्तिञ्च आवज्जेत्वा. गारवेनाति मुण्डसीसापि थेरे गारवेन एकवचनेनेव आगन्त्वा. निमन्तेत्वाति स्वातनाय निमन्तेत्वा. इमिस्सा इत्थियाति यथावुत्तसेट्ठिधीतरमाह. दिट्ठधम्मिकोवाति अवधारणं अट्ठानपयुत्तं, दिट्ठधम्मिको यसपटिलाभोव अहोसीति अत्थो. यसपटिलाभोति च भवसम्पत्तिपटिलाभो. सत्तसु हि जवनचेतनासु पठमा दिट्ठधम्मवेदनीयफला, पच्छिमा उपपज्जवेदनीयफला, मज्झे पञ्च अपरापरियवेदनीयफला, तस्मा पठमं एकं चेतनं ठपेत्वा सेसा यथासकं परिपुण्णफलदायिनो होन्ति, पठमचेतनाय पन दिट्ठधम्मिको यसपटिलाभोव अहोसि.
पठमएतदग्गवग्गवण्णना निट्ठिता.