१. पठमवग्गो
१. ब्रह्मायाचनसुत्तं
१७२. एवं मे सुतं – एकं समयं भगवा उरुवेलायं विहरति नज्जा नेरञ्जराय तीरे अजपालनिग्रोधमूले पठमाभिसम्बुद्धो. अथ खो भगवतो रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘‘अधिगतो खो म्यायं धम्मो गम्भीरो दुद्दसो दुरनुबोधो सन्तो पणीतो अतक्कावचरो निपुणो पण्डितवेदनीयो. आलयरामा खो पनायं पजा आलयरता आलयसम्मुदिता. आलयरामाय खो पन पजाय आलयरताय आलयसम्मुदिताय दुद्दसं इदं ठानं यदिदं इदप्पच्चयतापटिच्चसमुप्पादो. इदम्पि खो ठानं दुद्दसं यदिदं सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हाक्खयो विरागो निरोधो निब्बानं. अहञ्चेव खो पन धम्मं देसेय्यं; परे च मे न आजानेय्युं; सो ममस्स किलमथो, सा ममस्स विहेसा’’ति. अपिस्सु भगवन्तं इमा अनच्छरिया गाथायो पटिभंसु पुब्बे अस्सुतपुब्बा –
‘‘किच्छेन मे अधिगतं, हलं दानि पकासितुं;
रागदोसपरेतेहि, नायं धम्मो सुसम्बुधो.
‘‘पटिसोतगामिं निपुणं, गम्भीरं दुद्दसं अणुं;
रागरत्ता न दक्खन्ति, तमोखन्धेन आवुटा’’ति [तमोक्खन्धेन आवुताति (सी. स्या. कं. पी.)].
इतिह भगवतो पटिसञ्चिक्खतो अप्पोस्सुक्कताय चित्तं नमति, नो धम्मदेसनाय.
अथ खो ब्रह्मुनो सहम्पतिस्स भगवतो चेतसा चेतोपरिवितक्कमञ्ञाय एतदहोसि – ‘‘नस्सति वत भो लोको, विनस्सति वत भो लोको, यत्र हि नाम तथागतस्स अरहतो सम्मासम्बुद्धस्स अप्पोस्सुक्कताय चित्तं नमति [नमिस्सति (?)], नो धम्मदेसनाया’’ति. अथ खो ब्रह्मा सहम्पति – सेय्यथापि नाम बलवा पुरिसो समिञ्जितं [सम्मिञ्जितं (सी. स्या. कं. पी.)] वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य एवमेव – ब्रह्मलोके अन्तरहितो भगवतो पुरतो पातुरहोसि. अथ खो ब्रह्मा सहम्पति एकंसं उत्तरासङ्गं करित्वा दक्खिणजाणुमण्डलं पथवियं निहन्त्वा येन भगवा तेनञ्जलिं पणामेत्वा भगवन्तं एतदवोच – ‘‘देसेतु, भन्ते, भगवा धम्मं, देसेतु सुगतो धम्मं. सन्ति सत्ता अप्परजक्खजातिका, अस्सवनता धम्मस्स परिहायन्ति. भविस्सन्ति धम्मस्स अञ्ञातारो’’ति. इदमवोच ब्रह्मा सहम्पति, इदं वत्वा अथापरं एतदवोच –
‘‘पातुरहोसि मगधेसु पुब्बे,
धम्मो असुद्धो समलेहि चिन्तितो;
अपापुरेतं [अवापुरेतं (सी.)] अमतस्स द्वारं,
सुणन्तु धम्मं विमलेनानुबुद्धं.
‘‘सेले यथा पब्बतमुद्धनिट्ठितो,
यथापि पस्से जनतं समन्ततो;
तथूपमं धम्ममयं सुमेध,
पासादमारुय्ह समन्तचक्खु;
सोकावतिण्णं [सोकावकिण्णं (सी.)] जनतमपेतसोको,
अवेक्खस्सु जातिजराभिभूतं.
‘‘उट्ठेहि वीर विजितसङ्गाम,
सत्थवाह अनण [अणण (रूपसिद्धिटीका)] विचर लोके;
देसस्सु [देसेतु (स्या. कं. पी. क.)] भगवा धम्मं,
अञ्ञातारो भविस्सन्ती’’ति.
अथ खो भगवा ब्रह्मुनो च अज्झेसनं विदित्वा सत्तेसु च कारुञ्ञतं पटिच्च बुद्धचक्खुना लोकं वोलोकेसि. अद्दसा खो भगवा बुद्धचक्खुना लोकं वोलोकेन्तो सत्ते अप्परजक्खे महारजक्खे तिक्खिन्द्रिये मुदिन्द्रिये स्वाकारे द्वाकारे सुविञ्ञापये दुविञ्ञापये, अप्पेकच्चे परलोकवज्जभयदस्साविने विहरन्ते, अप्पेकच्चे न परलोकवज्जभयदस्साविने [दस्साविनो (सी. स्या. कं. पी.)] विहरन्ते. सेय्यथापि नाम उप्पलिनियं वा पदुमिनियं वा पुण्डरीकिनियं वा अप्पेकच्चानि उप्पलानि वा पदुमानि वा पुण्डरीकानि वा उदके जातानि उदके संवड्ढानि उदकानुग्गतानि अन्तो निमुग्गपोसीनि, अप्पेकच्चानि उप्पलानि वा पदुमानि वा पुण्डरीकानि वा उदके जातानि उदके संवड्ढानि समोदकं ठितानि, अप्पेकच्चानि उप्पलानि वा पदुमानि वा पुण्डरीकानि वा उदके जातानि उदके संवड्ढानि उदका अच्चुग्गम्म ठितानि [तिट्ठन्ति (सी. स्या. कं. पी.)] अनुपलित्तानि उदकेन; एवमेव भगवा बुद्धचक्खुना लोकं वोलोकेन्तो अद्दस सत्ते अप्परजक्खे महारजक्खे तिक्खिन्द्रिये मुदिन्द्रिये स्वाकारे द्वाकारे सुविञ्ञापये दुविञ्ञापये, अप्पेकच्चे परलोकवज्जभयदस्साविने विहरन्ते, अप्पेकच्चे न परलोकवज्जभयदस्साविने विहरन्ते. दिस्वान ब्रह्मानं सहम्पतिं गाथाय पच्चभासि –
‘‘अपारुता तेसं अमतस्स द्वारा,
ये सोतवन्तो पमुञ्चन्तु सद्धं;
विहिंससञ्ञी पगुणं न भासिं,
धम्मं पणीतं मनुजेसु ब्रह्मे’’ति.
अथ खो ब्रह्मा सहम्पति ‘‘कतावकासो खोम्हि भगवता धम्मदेसनाया’’ति भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा तत्थेवन्तरधायीति.
२. गारवसुत्तं
१७३. एवं मे सुतं – एकं समयं भगवा उरुवेलायं विहरति नज्जा नेरञ्जराय तीरे अजपालनिग्रोधमूले पठमाभिसम्बुद्धो. अथ खो भगवतो रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘‘दुक्खं खो अगारवो विहरति अप्पतिस्सो, कं नु ख्वाहं समणं वा ब्राह्मणं वा सक्कत्वा गरुं कत्वा [गरुकत्वा (सी. स्या. कं. पी.)] उपनिस्साय विहरेय्य’’न्ति?
अथ खो भगवतो एतदहोसि – ‘‘अपरिपुण्णस्स खो सीलक्खन्धस्स पारिपूरिया अञ्ञं समणं वा ब्राह्मणं वा सक्कत्वा गरुं कत्वा उपनिस्साय विहरेय्यं. न खो पनाहं पस्सामि सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय अत्तना सीलसम्पन्नतरं अञ्ञं समणं वा ब्राह्मणं वा, यमहं सक्कत्वा गरुं कत्वा उपनिस्साय विहरेय्यं.
‘‘अपरिपुण्णस्स खो समाधिक्खन्धस्स पारिपूरिया अञ्ञं समणं वा ब्राह्मणं वा सक्कत्वा गरुं कत्वा उपनिस्साय विहरेय्यं. न खो पनाहं पस्सामि सदेवके लोके…पे… अत्तना समाधिसम्पन्नतरं अञ्ञं समणं वा ब्राह्मणं वा, यमहं सक्कत्वा गरुं कत्वा उपनिस्साय विहरेय्यं.
‘‘अपरिपुण्णस्स पञ्ञाक्खन्धस्स पारिपूरिया अञ्ञं समणं वा ब्राह्मणं वा सक्कत्वा गरुं कत्वा उपनिस्साय विहरेय्यं. न खो पनाहं पस्सामि सदेवके…पे… अत्तना पञ्ञासम्पन्नतरं अञ्ञं समणं वा ब्राह्मणं वा, यमहं सक्कत्वा गरुं कत्वा उपनिस्साय विहरेय्यं.
‘‘अपरिपुण्णस्स खो विमुत्तिक्खन्धस्स पारिपूरिया अञ्ञं समणं वा ब्राह्मणं वा सक्कत्वा गरुं कत्वा उपनिस्साय विहरेय्यं. न खो पनाहं पस्सामि सदेवके…पे… अत्तना विमुत्तिसम्पन्नतरं अञ्ञं समणं वा ब्राह्मणं वा, यमहं सक्कत्वा गरुं कत्वा उपनिस्साय विहरेय्यं.
‘‘अपरिपुण्णस्स खो विमुत्तिञाणदस्सनक्खन्धस्स पारिपूरिया अञ्ञं समणं वा ब्राह्मणं वा सक्कत्वा गरुं कत्वा उपनिस्साय विहरेय्यं. न खो पनाहं पस्सामि सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय अत्तना विमुत्तिञाणदस्सनसम्पन्नतरं अञ्ञं समणं वा ब्राह्मणं वा, यमहं सक्कत्वा गरुं कत्वा उपनिस्साय विहरेय्यं. यंनूनाहं य्वायं धम्मो मया अभिसम्बुद्धो तमेव धम्मं सक्कत्वा गरुं कत्वा उपनिस्साय विहरेय्य’’न्ति.
अथ खो ब्रह्मा सहम्पति भगवतो चेतसा चेतोपरिवितक्कमञ्ञाय – सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य पसारितं वा बाहं समिञ्जेय्य एवमेव – ब्रह्मलोके अन्तरहितो भगवतो पुरतो पातुरहोसि. अथ खो ब्रह्मा सहम्पति एकंसं उत्तरासङ्गं करित्वा येन भगवा तेनञ्जलिं पणामेत्वा भगवन्तं एतदवोच – ‘‘एवमेतं, भगवा, एवमेतं, सुगत! येपि ते, भन्ते, अहेसुं अतीतमद्धानं अरहन्तो सम्मासम्बुद्धा, तेपि भगवन्तो धम्मञ्ञेव सक्कत्वा गरुं कत्वा उपनिस्साय विहरिंसु; येपि ते, भन्ते, भविस्सन्ति अनागतमद्धानं अरहन्तो सम्मासम्बुद्धा तेपि भगवन्तो धम्मञ्ञेव सक्कत्वा गरुं कत्वा उपनिस्साय विहरिस्सन्ति. भगवापि, भन्ते, एतरहि अरहं सम्मासम्बुद्धो धम्मञ्ञेव सक्कत्वा गरुं कत्वा उपनिस्साय विहरतू’’ति. इदमवोच ब्रह्मा सहम्पति, इदं वत्वा अथापरं एतदवोच –
‘‘ये च अतीता सम्बुद्धा, ये च बुद्धा अनागता;
यो चेतरहि सम्बुद्धो, बहूनं [बहुन्नं (सी. स्या. कं. पी.)] सोकनासनो.
‘‘सब्बे सद्धम्मगरुनो, विहंसु [विहरिंसु (सी. स्या. कं. पी.)] विहरन्ति च;
तथापि विहरिस्सन्ति, एसा बुद्धान धम्मता.
‘‘तस्मा हि अत्तकामेन [अत्थकामेन (सी. पी. क.)], महत्तमभिकङ्खता;
सद्धम्मो गरुकातब्बो, सरं बुद्धान सासन’’न्ति.
३. ब्रह्मदेवसुत्तं
१७४. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन अञ्ञतरिस्सा ब्राह्मणिया ब्रह्मदेवो नाम पुत्तो भगवतो सन्तिके अगारस्मा अनगारियं पब्बजितो होति.
अथ खो आयस्मा ब्रह्मदेवो एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरन्तो नचिरस्सेव – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति, तदनुत्तरं ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहासि. ‘‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’’ति अब्भञ्ञासि. अञ्ञतरो च पनायस्मा ब्रह्मदेवो अरहतं अहोसि.
अथ खो आयस्मा ब्रह्मदेवो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थिं पिण्डाय पाविसि. सावत्थियं सपदानं पिण्डाय चरमानो येन सकमातु निवेसनं तेनुपसङ्कमि. तेन खो पन समयेन आयस्मतो ब्रह्मदेवस्स माता ब्राह्मणी ब्रह्मुनो आहुतिं निच्चं पग्गण्हाति. अथ खो ब्रह्मुनो सहम्पतिस्स एतदहोसि – ‘‘अयं खो आयस्मतो ब्रह्मदेवस्स माता ब्राह्मणी ब्रह्मुनो आहुतिं निच्चं पग्गण्हाति. यंनूनाहं तं उपसङ्कमित्वा संवेजेय्य’’न्ति. अथ खो ब्रह्मा सहम्पति – सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य एवमेव – ब्रह्मलोके अन्तरहितो आयस्मतो ब्रह्मदेवस्स मातु निवेसने पातुरहोसि. अथ खो ब्रह्मा सहम्पति वेहासं ठितो आयस्मतो ब्रह्मदेवस्स मातरं ब्राह्मणिं गाथाय अज्झभासि –
‘‘दूरे इतो ब्राह्मणि ब्रह्मलोको,
यस्साहुतिं पग्गण्हासि निच्चं;
नेतादिसो ब्राह्मणि ब्रह्मभक्खो,
किं जप्पसि ब्रह्मपथं अजानं [अजानन्ती (सी. पी. क.)].
‘‘एसो हि ते ब्राह्मणि ब्रह्मदेवो,
निरूपधिको अतिदेवपत्तो;
अकिञ्चनो भिक्खु अनञ्ञपोसी,
यो ते सो [ते सो (सी. पी.), यो ते स (?)] पिण्डाय घरं पविट्ठो.
‘‘आहुनेय्यो वेदगु भावितत्तो,
नरानं देवानञ्च दक्खिणेय्यो;
बाहित्वा पापानि अनूपलित्तो,
घासेसनं इरियति सीतिभूतो.
‘‘न तस्स पच्छा न पुरत्थमत्थि,
सन्तो विधूमो अनिघो निरासो;
निक्खित्तदण्डो तसथावरेसु,
सो त्याहुतिं भुञ्जतु अग्गपिण्डं.
‘‘विसेनिभूतो उपसन्तचित्तो,
नागोव दन्तो चरति अनेजो;
भिक्खु सुसीलो सुविमुत्तचित्तो,
सो त्याहुतिं भुञ्जतु अग्गपिण्डं.
‘‘तस्मिं पसन्ना अविकम्पमाना,
पतिट्ठपेहि दक्खिणं दक्खिणेय्ये;
करोहि पुञ्ञं सुखमायतिकं,
दिस्वा मुनिं ब्राह्मणि ओघतिण्ण’’न्ति.
‘‘तस्मिं पसन्ना अविकम्पमाना,
पतिट्ठपेसि दक्खिणं दक्खिणेय्ये;
अकासि पुञ्ञं सुखमायतिकं,
दिस्वा मुनिं ब्राह्मणी ओघतिण्ण’’न्ति.
४. बकब्रह्मसुत्तं
१७५. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन बकस्स ब्रह्मुनो एवरूपं पापकं दिट्ठिगतं उप्पन्नं होति – ‘‘इदं निच्चं, इदं धुवं, इदं सस्सतं, इदं केवलं, इदं अचवनधम्मं, इदञ्हि न जायति न जीयति न मीयति न चवति न उपपज्जति, इतो च पनञ्ञं उत्तरिं [उत्तरिं (सी. स्या. कं. पी.)] निस्सरणं नत्थी’’ति.
अथ खो भगवा बकस्स ब्रह्मुनो चेतसा चेतोपरिवितक्कमञ्ञाय – सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य एवमेव – जेतवने अन्तरहितो तस्मिं ब्रह्मलोके पातुरहोसि. अद्दसा खो बको ब्रह्मा भगवन्तं दूरतोव आगच्छन्तं. दिस्वान भगवन्तं एतदवोच – ‘‘एहि खो मारिस, स्वागतं ते, मारिस! चिरस्सं खो मारिस! इमं परियायमकासि यदिदं इधागमनाय. इदञ्हि, मारिस, निच्चं, इदं धुवं, इदं सस्सतं, इदं केवलं, इदं अचवनधम्मं, इदञ्हि न जायति न जीयति न मीयति न चवति न उपपज्जति. इतो च पनञ्ञं उत्तरि निस्सरणं नत्थी’’ति.
एवं वुत्ते, भगवा बकं ब्रह्मानं एतदवोच – ‘‘अविज्जागतो वत, भो, बको ब्रह्मा; अविज्जागतो वत, भो, बको ब्रह्मा. यत्र हि नाम अनिच्चंयेव समानं निच्चन्ति वक्खति, अधुवंयेव समानं धुवन्ति वक्खति, असस्सतंयेव समानं सस्सतन्ति वक्खति, अकेवलंयेव समानं केवलन्ति वक्खति, चवनधम्मंयेव समानं अचवनधम्मन्ति वक्खति. यत्थ च पन जायति च जीयति च मीयति च चवति च उपपज्जति च, तञ्च तथा वक्खति – ‘इदञ्हि न जायति न जीयति न मीयति न चवति न उपपज्जति’. सन्तञ्च पनञ्ञं उत्तरि निस्सरणं, ‘नत्थञ्ञं उत्तरि निस्सरण’न्ति वक्खती’’ति.
‘‘द्वासत्तति गोतम पुञ्ञकम्मा,
वसवत्तिनो जातिजरं अतीता;
अयमन्तिमा वेदगू ब्रह्मुपपत्ति,
अस्माभिजप्पन्ति जना अनेका’’ति.
‘‘अप्पञ्हि एतं न हि दीघमायु,
यं त्वं बक मञ्ञसि दीघमायुं;
सतं सहस्सानं [सहस्सान (स्या. कं.)] निरब्बुदानं,
आयुं पजानामि तवाहं ब्रह्मे’’ति.
‘‘अनन्तदस्सी भगवाहमस्मि,
जातिजरं सोकमुपातिवत्तो;
किं मे पुराणं वतसीलवत्तं,
आचिक्ख मे तं यमहं विजञ्ञा’’ति.
‘‘यं त्वं अपायेसि बहू मनुस्से,
पिपासिते घम्मनि सम्परेते;
तं ते पुराणं वतसीलवत्तं,
सुत्तप्पबुद्धोव अनुस्सरामि.
‘‘यं एणिकूलस्मिं जनं गहीतं,
अमोचयी गय्हकं नीयमानं;
तं ते पुराणं वतसीलवत्तं,
सुत्तप्पबुद्धोव अनुस्सरामि.
‘‘गङ्गाय सोतस्मिं गहीतनावं,
लुद्देन नागेन मनुस्सकम्या;
पमोचयित्थ बलसा पसय्ह,
तं ते पुराणं वतसीलवत्तं,
सुत्तप्पबुद्धोव अनुस्सरामि.
‘‘कप्पो च ते बद्धचरो अहोसिं,
सम्बुद्धिमन्तं [सम्बुद्धिवन्तं (बहूसु)] वतिनं अमञ्ञि;
तं ते पुराणं वतसीलवत्तं,
सुत्तप्पबुद्धोव अनुस्सरामी’’ति.
‘‘अद्धा पजानासि ममेतमायुं,
अञ्ञेपि [अञ्ञम्पि (सी. पी.)] जानासि तथा हि बुद्धो;
तथा हि त्यायं जलितानुभावो,
ओभासयं तिट्ठति ब्रह्मलोक’’न्ति.
५. अञ्ञतरब्रह्मसुत्तं
१७६. सावत्थिनिदानं. तेन खो पन समयेन अञ्ञतरस्स ब्रह्मुनो एवरूपं पापकं दिट्ठिगतं उप्पन्नं होति – ‘‘नत्थि सो समणो वा ब्राह्मणो वा यो इध आगच्छेय्या’’ति. अथ खो भगवा तस्स ब्रह्मुनो चेतसा चेतोपरिवितक्कमञ्ञाय – सेय्यथापि नाम बलवा पुरिसो…पे… तस्मिं ब्रह्मलोके पातुरहोसि. अथ खो भगवा तस्स ब्रह्मुनो उपरि वेहासं पल्लङ्केन निसीदि तेजोधातुं समापज्जित्वा.
अथ खो आयस्मतो महामोग्गल्लानस्स एतदहोसि – ‘‘कहं नु खो भगवा एतरहि विहरती’’ति? अद्दसा खो आयस्मा महामोग्गल्लानो [महामोग्गलानो (क.)] भगवन्तं दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन तस्स ब्रह्मुनो उपरि वेहासं पल्लङ्केन निसिन्नं तेजोधातुं समापन्नं. दिस्वान – सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य एवमेव – जेतवने अन्तरहितो तस्मिं ब्रह्मलोके पातुरहोसि. अथ खो आयस्मा महामोग्गल्लानो पुरत्थिमं दिसं निस्साय [उपनिस्साय (सी.)] तस्स ब्रह्मुनो उपरि वेहासं पल्लङ्केन निसीदि तेजोधातुं समापज्जित्वा नीचतरं भगवतो.
अथ खो आयस्मतो महाकस्सपस्स एतदहोसि – ‘‘कहं नु खो भगवा एतरहि विहरती’’ति? अद्दसा खो आयस्मा महाकस्सपो भगवन्तं दिब्बेन चक्खुना…पे… दिस्वान – सेय्यथापि नाम बलवा पुरिसो…पे… एवमेव – जेतवने अन्तरहितो तस्मिं ब्रह्मलोके पातुरहोसि. अथ खो आयस्मा महाकस्सपो दक्खिणं दिसं निस्साय तस्स ब्रह्मुनो उपरि वेहासं पल्लङ्केन निसीदि तेजोधातुं समापज्जित्वा नीचतरं भगवतो.
अथ खो आयस्मतो महाकप्पिनस्स एतदहोसि – ‘‘कहं नु खो भगवा एतरहि विहरती’’ति? अद्दसा खो आयस्मा महाकप्पिनो भगवन्तं दिब्बेन चक्खुना…पे… तेजोधातुं समापन्नं. दिस्वान – सेय्यथापि नाम बलवा पुरिसो…पे… एवमेव – जेतवने अन्तरहितो तस्मिं ब्रह्मलोके पातुरहोसि. अथ खो आयस्मा महाकप्पिनो पच्छिमं दिसं निस्साय तस्स ब्रह्मुनो उपरि वेहासं पल्लङ्केन निसीदि तेजोधातुं समापज्जित्वा नीचतरं भगवतो.
अथ खो आयस्मतो अनुरुद्धस्स एतदहोसि – ‘‘कहं नु खो भगवा एतरहि विहरती’’ति? अद्दसा खो आयस्मा अनुरुद्धो…पे… तेजोधातुं समापन्नं. दिस्वान – सेय्यथापि नाम बलवा पुरिसो…पे… तस्मिं ब्रह्मलोके पातुरहोसि. अथ खो आयस्मा अनुरुद्धो उत्तरं दिसं निस्साय तस्स ब्रह्मुनो उपरि वेहासं पल्लङ्केन निसीदि तेजोधातुं समापज्जित्वा नीचतरं भगवतो.
अथ खो आयस्मा महामोग्गल्लानो तं ब्रह्मानं गाथाय अज्झभासि –
‘‘अज्जापि ते आवुसो सा दिट्ठि, या ते दिट्ठि पुरे अहु;
पस्ससि वीतिवत्तन्तं, ब्रह्मलोके पभस्सर’’न्ति.
‘‘न मे मारिस सा दिट्ठि, या मे दिट्ठि पुरे अहु;
पस्सामि वीतिवत्तन्तं, ब्रह्मलोके पभस्सरं;
स्वाहं अज्ज कथं वज्जं, अहं निच्चोम्हि सस्सतो’’ति.
अथ खो भगवा तं ब्रह्मानं संवेजेत्वा – सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य एवमेव – तस्मिं ब्रह्मलोके अन्तरहितो जेतवने पातुरहोसि. अथ खो सो ब्रह्मा अञ्ञतरं ब्रह्मपारिसज्जं आमन्तेसि – ‘‘एहि त्वं, मारिस, येनायस्मा महामोग्गल्लानो तेनुपसङ्कम; उपसङ्कमित्वा आयस्मन्तं महामोग्गल्लानं एवं वदेहि – ‘अत्थि नु खो, मारिस मोग्गल्लान, अञ्ञेपि तस्स भगवतो सावका एवंमहिद्धिका एवंमहानुभावा; सेय्यथापि भवं मोग्गल्लानो कस्सपो कप्पिनो अनुरुद्धो’’’ति? ‘‘एवं, मारिसा’’ति खो सो ब्रह्मपारिसज्जो तस्स ब्रह्मुनो पटिस्सुत्वा येनायस्मा महामोग्गल्लानो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं महामोग्गल्लानं एतदवोच – ‘‘अत्थि नु खो, मारिस मोग्गल्लान, अञ्ञेपि तस्स भगवतो सावका एवंमहिद्धिका एवंमहानुभावा; सेय्यथापि भवं मोग्गल्लानो कस्सपो कप्पिनो अनुरुद्धो’’ति? अथ खो आयस्मा महामोग्गल्लानो तं ब्रह्मपारिसज्जं गाथाय अज्झभासि –
‘‘तेविज्जा इद्धिपत्ता च, चेतोपरियायकोविदा;
खीणासवा अरहन्तो, बहू बुद्धस्स सावका’’ति.
अथ खो सो ब्रह्मपारिसज्जो आयस्मतो महामोग्गल्लानस्स भासितं अभिनन्दित्वा अनुमोदित्वा येन सो ब्रह्मा तेनुपसङ्कमि; उपसङ्कमित्वा तं ब्रह्मानं एतदवोच – ‘‘आयस्मा मारिस, महामोग्गल्लानो एवमाह –
‘‘तेविज्जा इद्धिपत्ता च, चेतोपरियायकोविदा;
खीणासवा अरहन्तो, बहू बुद्धस्स सावका’’ति.
इदमवोच सो ब्रह्मपारिसज्जो. अत्तमनो च सो ब्रह्मा तस्स ब्रह्मपारिसज्जस्स भासितं अभिनन्दीति.
६. ब्रह्मलोकसुत्तं
१७७. सावत्थिनिदानं. तेन खो पन समयेन भगवा दिवाविहारगतो होति पटिसल्लीनो. अथ खो सुब्रह्मा च पच्चेकब्रह्मा सुद्धावासो च पच्चेकब्रह्मा येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा पच्चेकं द्वारबाहं [पच्चेकद्वारबाहं (पी. क.)] उपनिस्साय अट्ठंसु. अथ खो सुब्रह्मा पच्चेकब्रह्मा सुद्धावासं पच्चेकब्रह्मानं एतदवोच – ‘‘अकालो खो ताव, मारिस, भगवन्तं पयिरुपासितुं; दिवाविहारगतो भगवा पटिसल्लीनो च. असुको च ब्रह्मलोको इद्धो चेव फीतो च, ब्रह्मा च तत्र पमादविहारं विहरति. आयाम, मारिस, येन सो ब्रह्मलोको तेनुपसङ्कमिस्साम; उपसङ्कमित्वा तं ब्रह्मानं संवेजेय्यामा’’ति. ‘‘एवं, मारिसा’’ति खो सुद्धावासो पच्चेकब्रह्मा सुब्रह्मुनो पच्चेकब्रह्मुनो पच्चस्सोसि.
अथ खो सुब्रह्मा च पच्चेकब्रह्मा सुद्धावासो च पच्चेकब्रह्मा – सेय्यथापि नाम बलवा पुरिसो…पे… एवमेव – भगवतो पुरतो अन्तरहिता तस्मिं ब्रह्मलोके पातुरहेसुं. अद्दसा खो सो ब्रह्मा ते ब्रह्मानो दूरतोव आगच्छन्ते. दिस्वान ते ब्रह्मानो एतदवोच – ‘‘हन्द कुतो नु तुम्हे, मारिसा, आगच्छथा’’ति? ‘‘आगता खो मयं, मारिस, अम्ह तस्स भगवतो सन्तिका अरहतो सम्मासम्बुद्धस्स. गच्छेय्यासि पन त्वं, मारिस, तस्स भगवतो उपट्ठानं अरहतो सम्मासम्बुद्धस्सा’’ति?
एवं वुत्तो [एवं वुत्ते (सी. स्या. कं.)] खो सो ब्रह्मा तं वचनं अनधिवासेन्तो सहस्सक्खत्तुं अत्तानं अभिनिम्मिनित्वा सुब्रह्मानं पच्चेकब्रह्मानं एतदवोच – ‘‘पस्ससि मे नो त्वं, मारिस, एवरूपं इद्धानुभाव’’न्ति? ‘‘पस्सामि खो त्याहं, मारिस, एवरूपं इद्धानुभाव’’न्ति. ‘‘सो ख्वाहं, मारिस, एवंमहिद्धिको एवंमहानुभावो कस्स अञ्ञस्स समणस्स वा ब्राह्मणस्स वा उपट्ठानं गमिस्सामी’’ति?
अथ खो सुब्रह्मा पच्चेकब्रह्मा द्विसहस्सक्खत्तुं अत्तानं अभिनिम्मिनित्वा तं ब्रह्मानं एतदवोच – ‘‘पस्ससि मे नो त्वं, मारिस, एवरूपं इद्धानुभाव’’न्ति? ‘‘पस्सामि खो त्याहं, मारिस, एवरूपं इद्धानुभाव’’न्ति. ‘‘तया च खो, मारिस, मया च स्वेव भगवा महिद्धिकतरो चेव महानुभावतरो च. गच्छेय्यासि त्वं, मारिस, तस्स भगवतो उपट्ठानं अरहतो सम्मासम्बुद्धस्सा’’ति? अथ खो सो ब्रह्मा सुब्रह्मानं पच्चेकब्रह्मानं गाथाय अज्झभासि –
‘‘तयो सुपण्णा चतुरो च हंसा,
ब्यग्घीनिसा पञ्चसता च झायिनो;
तयिदं विमानं जलते च [जलतेव (पी. क.)] ब्रह्मे,
ओभासयं उत्तरस्सं दिसाय’’न्ति.
‘‘किञ्चापि ते तं जलते विमानं,
ओभासयं उत्तरस्सं दिसायं;
रूपे रणं दिस्वा सदा पवेधितं,
तस्मा न रूपे रमती सुमेधो’’ति.
अथ खो सुब्रह्मा च पच्चेकब्रह्मा सुद्धावासो च पच्चेकब्रह्मा तं ब्रह्मानं संवेजेत्वा तत्थेवन्तरधायिंसु. अगमासि च खो सो ब्रह्मा अपरेन समयेन भगवतो उपट्ठानं अरहतो सम्मासम्बुद्धस्साति.
७. कोकालिकसुत्तं
१७८. सावत्थिनिदानं. तेन खो पन समयेन भगवा दिवाविहारगतो होति पटिसल्लीनो. अथ खो सुब्रह्मा च पच्चेकब्रह्मा सुद्धावासो च पच्चेकब्रह्मा येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा पच्चेकं द्वारबाहं निस्साय अट्ठंसु. अथ खो सुब्रह्मा पच्चेकब्रह्मा कोकालिकं भिक्खुं आरब्भ भगवतो सन्तिके इमं गाथं अभासि –
‘‘अप्पमेय्यं पमिनन्तो, कोध विद्वा विकप्पये;
अप्पमेय्यं पमायिनं, निवुतं तं मञ्ञे पुथुज्जन’’न्ति.