१२. दुतियपतिब्बताविमानवत्थु
१०१. ‘‘वेळुरियथम्भं रुचिरं पभस्सरं, विमानमारुय्ह अनेकचित्तं;
तत्थच्छसि देवि महानुभावे, उच्चावचा इद्धि विकुब्बमाना;
इमा च ते अच्छरायो समन्ततो, नच्चन्ति गायन्ति पमोदयन्ति च.
१०२. ‘‘देविद्धिपत्तासि महानुभावे, मनुस्सभूता किमकासि पुञ्ञं;
केनासि एवं जलितानुभावा, वण्णो च ते सब्बदिसा पभासती’’ति.
१०३. सा देवता अत्तमना, मोग्गल्लानेन पुच्छिता;
पञ्हं पुट्ठा वियाकासि, यस्स कम्मस्सिदं फलं.
१०४. ‘‘अहं मनुस्सेसु मनुस्सभूता, उपासिका चक्खुमतो अहोसिं;
पाणातिपाता विरता अहोसिं, लोके अदिन्नं परिवज्जयिस्सं.
१०५. ‘‘अमज्जपा नो च [नापि (स्या.)] मुसा अभाणिं [अभासिं (क.)], सकेन सामिना [सामिनाव (सी.)] अहोसिं तुट्ठा;
अन्नञ्च पानञ्च पसन्नचित्ता, सक्कच्च दानं विपुलं अदासिं.
१०६. ‘‘तेन मेतादिसो वण्णो, तेन मे इध मिज्झति;
उप्पज्जन्ति च मे भोगा, ये केचि मनसो पिया.
१०७. ‘‘अक्खामि ते भिक्खु महानुभाव, मनुस्सभूता यमकासि पुञ्ञं;
तेनम्हि एवं जलितानुभावा, वण्णो च मे सब्बदिसा पभासती’’ति.
दुतियपतिब्बताविमानं द्वादसमं.