९. सधायमानसुत्तं

४९. एवं मे सुतं – एकं समयं भगवा कोसलेसु चारिकं चरति महता भिक्खुसङ्घेन सद्धिं. तेन खो पन समयेन सम्बहुला माणवका भगवतो अविदूरे सधायमानरूपा [सद्दायमानरूपा (स्या. पी. अट्ठकथायं पाठन्तरं), पथायमानरूपा (क.), वधायमानरूपा (क. सी., क. अट्ठ.), सद्धायमानरूपा (?), सद्धुधातुया सधुधातुया वा सिद्धमिदन्ति वेदितब्बं] अतिक्कमन्ति. अद्दसा खो भगवा सम्बहुले माणवके अविदूरे सधायमानरूपे अतिक्कन्ते.

अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –

‘‘परिमुट्ठा पण्डिताभासा, वाचागोचरभाणिनो;

याविच्छन्ति मुखायामं, येन नीता न तं विदू’’ति. नवमं;