८. सङ्गामजिसुत्तं

८. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन आयस्मा सङ्गामजि सावत्थिं अनुप्पत्तो होति भगवन्तं दस्सनाय. अस्सोसि खो आयस्मतो सङ्गामजिस्स पुराणदुतियिका – ‘‘अय्यो किर सङ्गामजि सावत्थिं अनुप्पत्तो’’ति. सा दारकं आदाय जेतवनं अगमासि.

तेन खो पन समयेन आयस्मा सङ्गामजि अञ्ञतरस्मिं रुक्खमूले दिवाविहारं निसिन्नो होति. अथ खो आयस्मतो सङ्गामजिस्स पुराणदुतियिका येनायस्मा सङ्गामजि तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं सङ्गामजिं एतदवोच – ‘‘खुद्दपुत्तञ्हि [खुद्दपुत्ताम्हि (सी.)], समण, पोस म’’न्ति. एवं वुत्ते, आयस्मा सङ्गामजि तुण्ही अहोसि.

दुतियम्पि खो आयस्मतो सङ्गामजिस्स पुराणदुतियिका आयस्मन्तं सङ्गामजिं एतदवोच – ‘‘खुद्दपुत्तञ्हि, समण, पोस म’’न्ति. दुतियम्पि खो आयस्मा सङ्गामजि तुण्ही अहोसि.

ततियम्पि खो आयस्मतो सङ्गामजिस्स पुराणदुतियिका आयस्मन्तं सङ्गामजिं एतदवोच – ‘‘खुद्दपुत्तञ्हि, समण, पोस म’’न्ति. ततियम्पि खो आयस्मा सङ्गामजि तुण्ही अहोसि.

अथ खो आयस्मतो सङ्गामजिस्स पुराणदुतियिका तं दारकं आयस्मतो सङ्गामजिस्स पुरतो निक्खिपित्वा पक्कामि [पक्कमि (क.) एवमुपरिपि] – ‘‘एसो [एस (सी. क.)] ते, समण, पुत्तो; पोस न’’न्ति.

अथ खो आयस्मा सङ्गामजि तं दारकं नेव ओलोकेसि नापि आलपि. अथ खो आयस्मतो सङ्गामजिस्स पुराणदुतियिका अविदूरं [अविदूरे (स्या. पी.)] गन्त्वा अपलोकेन्ती अद्दस आयस्मन्तं सङ्गामजिं तं दारकं नेव ओलोकेन्तं नापि आलपन्तं, दिस्वानस्सा एतदहोसि – ‘‘न चायं समणो पुत्तेनपि अत्थिको’’ति. ततो पटिनिवत्तित्वा दारकं आदाय पक्कामि. अद्दसा खो भगवा दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन आयस्मतो सङ्गामजिस्स पुराणदुतियिकाय एवरूपं विप्पकारं.

अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –

‘‘आयन्तिं नाभिनन्दति, पक्कमन्तिं न सोचति;

सङ्गा सङ्गामजिं मुत्तं, तमहं ब्रूमि ब्राह्मण’’न्ति. अट्ठमं;