८. यसोधराथेरीअपदानं

३१४. एकस्मिं समये रम्मे, इद्धे राजगहे पुरे;

पब्भारम्हि वरेकम्हि, वसन्ते नरनायके.

३१५. वसन्तिया तम्हि नगरे, रम्मे भिक्खुनुपस्सये;

यसोधराभिक्खुनिया, एवं आसि वितक्कितं.

३१६. ‘‘सुद्धोदनो महाराजा, गोतमी च पजापती;

अभिञ्ञाता महाथेरा, थेरियो च महिद्धिका.

३१७. ‘‘सन्तिं गताव आसुं ते, दीपच्चीव निरासवा;

लोकनाथे धरन्तेव, अहम्पि च सिवं पदं.

३१८. ‘‘गमिस्सामीति चिन्तेत्वा, पस्सन्ती आयुमत्तनो;

पस्सित्वा आयुसङ्खारं, तदहेव खयं गतं.

३१९. ‘‘पत्तचीवरमादाय, निक्खमित्वा सकस्समा;

पुरक्खता भिक्खुनीभि, सतेहि सहस्सेहि सा [सह पञ्चहि (सी. पी.)].

३२०. ‘‘महिद्धिका महापञ्ञा, सम्बुद्धं उपसङ्कमि;

सम्बुद्धं अभिवादेत्वा, सत्थुनो चक्कलक्खणे;

निसिन्ना एकमन्तम्हि, इदं वचनमब्रवि.

३२१. ‘‘‘अट्ठसत्ततिवस्साहं, पच्छिमो वत्तते वयो [पच्छिमा वत्तयि वया (स्या.)];

पब्भारम्हि अनुप्पत्ता, आरोचेमि महामुनि.

३२२. ‘‘‘परिपक्को वयो मय्हं, परित्तं मम जीवितं;

पहाय वो गमिस्सामि, कतं मे सरणमत्तनो.

३२३. ‘‘‘वयम्हि पच्छिमे काले, मरणं उपरुद्धति;

अज्जरत्तिं महावीर, पापुणिस्सामि निब्बुतिं.

३२४. ‘‘‘नत्थि जाति जरा ब्याधि, मरणञ्च महामुने;

अजरामरणं पुरं, गमिस्सामि असङ्खतं.

३२५. ‘‘‘यावता परिसा नाम, समुपासन्ति सत्थुनो;

अपराधमजानन्ती [सचे मेत्थि (सी.), पजानन्ती (क.)], खमन्तं सम्मुखा मुने.

३२६. ‘‘‘संसरित्वा च संसारे, खलितञ्चे ममं तयि;

आरोचेमि महावीर, अपराधं खमस्सु मे’.

३२७. ‘‘सुत्वान वचनं तस्सा, मुनिन्दो इदमब्रवि;

‘किमुत्तरं ते वक्खामि, निब्बानाय वजन्तिया.

३२८. ‘‘‘इद्धिञ्चापि निदस्सेहि, मम सासनकारिके;

परिसानञ्च सब्बासं, कङ्खं छिन्दस्सु यावता’.

३२९. ‘‘सुत्वा तं मुनिनो वाचं, भिक्खुनी सा यसोधरा;

वन्दित्वा मुनिराजं तं, इदं वचनमब्रवि.

३३०. ‘‘‘यसोधरा अहं वीर, अगारे ते पजापति;

साकियम्हि कुले जाता, इत्थिअङ्गे पतिट्ठिता.

३३१. ‘‘‘थीनं सतसहस्सानं, नवुतीनं छदुत्तरि;

अगारे ते अहं वीर, पामोक्खा सब्बा इस्सरा.

३३२. ‘‘‘रूपाचारगुणूपेता, योब्बनट्ठा पियंवदा;

सब्बा मं अपचायन्ति, देवता विय मानुसा.

३३३. ‘‘‘कञ्ञासतसहस्सपमुखा, सक्यपुत्तनिवेसने;

समानसुखदुक्खता, देवता विय नन्दने.

३३४. ‘‘‘कामधातुमतिक्कम्म [कामधातुमतिक्कन्ता (सी. स्या. पी. क.)], सण्ठिता रूपधातुया;

रूपेन सदिसा नत्थि, ठपेत्वा लोकनायकं.

३३५. ‘‘‘सम्बुद्धं अभिवादेत्वा, इद्धिं दस्सेसि सत्थुनो;

नेका नानाविधाकारा, महाइद्धीपि दस्सयी [एवमादीनि वत्वान, उपतित्वान अम्बरं; इद्धी अनेका दस्सेसि, बुद्धानुञ्ञा यसोधरा; (सी.)].

३३६. ‘‘‘चक्कवाळसमं कायं, सीसं उत्तरतो कुरु;

उभो पक्खा दुवे दीपा, जम्बुदीपं सरीरतो.

३३७. ‘‘‘दक्खिणञ्च सरं पिञ्छं, नानासाखा तु पत्तका;

चन्दञ्च सूरियञ्चक्खि, मेरुपब्बततो सिखं.

३३८. ‘‘‘चक्कवालगिरिं तुण्डं, जम्बुरुक्खं समूलकं;

बीजमाना उपागन्त्वा, वन्दन्ती लोकनायकं.

३३९. ‘‘‘हत्थिवण्णं तथेवस्सं, पब्बतं जलधिं तथा;

चन्दिमं सूरियं मेरुं, सक्कवण्णञ्च दस्सयि.

३४०. ‘‘‘यसोधरा अहं वीर, पादे वन्दामि चक्खुम;

सहस्सलोकधातूनं, फुल्लपद्मेन छादयि.

३४१. ‘‘‘ब्रह्मवण्णञ्च मापेत्वा, धम्मं देसेसि सुञ्ञतं;

यसोधरा अहं वीर, पादे वन्दामि चक्खुम.

३४२. ‘‘‘इद्धीसु च वसी होमि, दिब्बाय सोतधातुया;

चेतोपरियञाणस्स, वसी होमि महामुनि.

३४३. ‘‘‘पुब्बेनिवासं जानामि, दिब्बचक्खु विसोधितं;

सब्बासवपरिक्खीणा, नत्थि दानि पुनब्भवो.

३४४. ‘‘‘अत्थधम्मनिरुत्तीसु, पटिभाने तथेव च;

ञाणं मय्हं महावीर, उप्पन्नं तव सन्तिके.

३४५. ‘‘‘पुब्बानं लोकनाथानं, सङ्गमं ते निदस्सितं [सुदस्सितं (स्या. पी. क.)];

अधिकारं बहुं मय्हं, तुय्हत्थाय महामुने.

३४६. ‘‘‘यं मय्हं पूरितं कम्मं, कुसलं सरसे मुने;

तुय्हत्थाय महावीर, पुञ्ञं उपचितं मया.

३४७. ‘‘‘अभब्बट्ठाने वज्जेत्वा, वारयित्वा अनाचरं;

तुय्हत्थाय महावीर, सञ्चत्तं जीवितं मया.

३४८. ‘‘‘नेककोटिसहस्सानि, भरियत्थायदासि मं;

न तत्थ विमना होमि, तुय्हत्थाय महामुनि.

३४९. ‘‘‘नेककोटिसहस्सानि, उपकारायदासि मं;

न तत्थ विमना होमि, तुय्हत्थाय महामुनि.

३५०. ‘‘‘नेककोटिसहस्सानि, भोजनत्थायदासि मं;

न तत्थ विमना होमि, तुय्हत्थाय महामुनि.

३५१. ‘‘‘नेककोटिसहस्सानि, जीवितानि परिच्चजिं;

भयमोक्खं करिस्सन्ति, ददामि मम जीवितं.

३५२. ‘‘‘अङ्गगते [अङ्गे एवं (क.)] अलङ्कारे, वत्थे नानाविधे बहू;

इत्थिमण्डे न गूहामि, तुय्हत्थाय महामुनि.

३५३. ‘‘‘धनधञ्ञपरिच्चागं, गामानि निगमानि च;

खेत्तं पुत्ता च धीता च, परिच्चत्ता महामुनि.

३५४. ‘‘‘हत्थी अस्सा गवा चापि, दासियो परिचारिका;

तुय्हत्थाय महावीर, परिच्चत्ता असङ्खिया.

३५५. ‘‘‘यं मय्हं पटिमन्तेसि [पतिमन्तेसि (सी.)], दानं दस्सामि याचके;

विमनं मे न पस्सामि, ददतो दानमुत्तमं.

३५६. ‘‘‘नानाविधं बहुं दुक्खं, संसारे च बहुब्बिधे;

तुय्हत्थाय महावीर, अनुभुत्तं असङ्खियं.

३५७. ‘‘‘सुखप्पत्तानुमोदामि, न च दुक्खेसु दुम्मना;

सब्बत्थ तुलिता होमि, तुय्हत्थाय महामुनि.

३५८. ‘‘‘अनुमग्गेन सम्बुद्धो, यं धम्मं अभिनीहरि;

अनुभोत्वा सुखं दुक्खं, पत्तो बोधिं महामुनि.

३५९. ‘‘‘ब्रह्मदेवञ्च सम्बुद्धं, गोतमं लोकनायकं;

अञ्ञेसं लोकनाथानं, सङ्गमं ते बहुं मया.

३६०. ‘‘‘अधिकारं बहुं मय्हं, तुय्हत्थाय महामुनि;

गवेसतो बुद्धधम्मे, अहं ते परिचारिका.

३६१. ‘‘‘कप्पे च सतसहस्से, चतुरो च असङ्खिये;

दीपङ्करो महावीरो, उप्पज्जि लोकनायको.

३६२. ‘‘‘पच्चन्तदेसविसये, निमन्तेत्वा तथागतं;

तस्स आगमनं मग्गं, सोधेन्ति तुट्ठमानसा.

३६३. ‘‘‘तेन कालेन सो आसि, सुमेधो नाम ब्राह्मणो;

मग्गञ्च पटियादेसि, आयतो [आयतं (सी.)] सब्बदस्सिनो.

३६४. ‘‘‘तेन कालेनहं आसिं, कञ्ञा ब्राह्मणसम्भवा;

सुमित्तानाम नामेन, उपगच्छिं समागमं.

३६५. ‘‘‘अट्ठ उप्पलहत्थानि, पूजनत्थाय सत्थुनो;

आदाय जनसंमज्झे, अद्दसं इसि मुग्गतं.

३६६. ‘‘‘चिरानुगतं दयितं [चिरानुपरि आसीनं (सी.)], अतिक्कन्तं मनोहरं;

दिस्वा तदा अमञ्ञिस्सं, सफलं जीवितं मम.

३६७. ‘‘‘परक्कमं तं सफलं, अद्दसं इसिनो तदा;

पुब्बकम्मेन सम्बुद्धे, चित्तञ्चापि पसीदि मे.

३६८. ‘‘‘भिय्यो चित्तं पसादेसिं, इसे उग्गतमानसे;

देय्यं अञ्ञं न पस्सामि, देमि पुप्फानि ते इसि.

३६९. ‘‘‘पञ्चहत्था तव होन्तु, तयो होन्तु ममं इसे;

तेन सद्धिं समा होन्तु, बोधत्थाय तवं इसे’.

चतुत्थं भाणवारं.

३७०. ‘‘इसि गहेत्वा पुप्फानि, आगच्छन्तं महायसं;

पूजेसि जनसंमज्झे, बोधत्थाय महाइसि.

३७१. ‘‘पस्सित्वा जनसंमज्झे, दीपङ्करो महामुनि;

वियाकासि महावीरो, इसि मुग्गतमानसं.

३७२. ‘‘अपरिमेय्ये इतो कप्पे, दीपङ्करो महामुनि;

मम कम्मं वियाकासि, उजुभावं महामुनि.

३७३. ‘‘‘समचित्ता समकम्मा, समकारी भविस्सति;

पिया हेस्सति कम्मेन, तुय्हत्थाय महाइसि [महाइसे (स्या.)].

३७४. ‘‘‘सुदस्सना सुपिया च, मनापा पियवादिनी;

तस्स धम्मेसु दायादा, विहरिस्सति इद्धिका.

३७५. ‘‘‘यथापि भण्डसामुग्गं, अनुरक्खति सामिनो;

एवं कुसलधम्मानं, अनुरक्खिस्सते अयं.

३७६. ‘‘‘तस्स ते [तस्स तं (स्या.)] अनुकम्पन्ती, पूरयिस्सति पारमी;

सीहोव पञ्जरं भेत्वा [हित्वा (स्या.), हेत्वा (पी.)], पापुणिस्सति बोधियं’.

३७७. ‘‘अपरिमेय्ये इतो कप्पे, यं मं बुद्धो वियाकरी;

तं वाचं अनुमोदेन्ती, एवंकारी भविं अहं.

३७८. ‘‘तस्स कम्मस्स सुकतस्स, तत्थ चित्तं पसादयिं;

देवमनुस्सकं योनिं, अनुभोत्वा असङ्खियं.

३७९. ‘‘सुखदुक्खेनुभोत्वाहं, देवेसु मानुसेसु च;

पच्छिमे भवे सम्पत्ते, अजायिं साकिये कुले.

३८०. ‘‘रूपवती भोगवती, यससीलवती ततो;

सब्बङ्गसम्पदा होमि, कुलेसु अभिसक्कता.

३८१. ‘‘लाभं सिलोकं सक्कारं, लोकधम्मसमागमं;

चित्तञ्च दुक्खितं नत्थि, वसामि अकुतोभया.

३८२. ‘‘वुत्तञ्हेतं भगवता, रञ्ञो अन्तेपुरे तदा;

खत्तियानं पुरे वीर, उपकारञ्च निद्दिसि.

३८३. ‘‘उपकारा च या नारी, या च नारी सुखे दुखे;

अत्थक्खायी च या नारी, या च नारीनुकम्पिका.

३८४. ‘‘पञ्चकोटिसता बुद्धा, नवकोटिसतानि च;

एतेसं देवदेवानं, महादानं पवत्तयिं.

३८५. ‘‘अधिकारं महा [सदा (पी.) एवमुपरिपि] मय्हं, धम्मराज सुणोहि मे;

एकादसकोटिसता, बुद्धा द्वादस कोटियो [होन्ति लोकग्गनायका (सी. स्या.), पण्णाकोटिसतानि च (पी.)].

३८६. ‘‘एतेसं देवदेवानं, महादानं पवत्तयिं;

अधिकारं महा मय्हं, धम्मराज सुणोहि मे.

३८७. ‘‘‘वीसकोटिसता बुद्धा, तिंसकोटिसतानि च;