१०. सुखविहारिजातकं
१०. यञ्च अञ्ञे न रक्खन्ति, यो च अञ्ञे न रक्खति;
स वे राज सुखं सेति, कामेसु अनपेक्खवाति.
सुखविहारिजातकं दसमं.
अपण्णकवग्गो पठमो.
तस्सुद्दानं –
वरापण्णक वण्णुपथ सेरिवरो, सुविचक्खण तण्डुलनाळिकस्सा;
हिरि पुत्तवरुत्तगामणिना, यो च न रक्खति तेन दसाति.