१०. पुप्फचङ्कोटियत्थेरअपदानं

६८. ‘‘अभीतरूपं सीहंव, गरुळग्गंव पक्खिनं;

ब्यग्घूसभंव पवरं, अभिजातंव केसरिं.

६९. ‘‘सिखिं तिलोकसरणं, अनेजं अपराजितं;

निसिन्नं समणानग्गं, भिक्खुसङ्घपुरक्खतं.

७०. ‘‘चङ्कोटके [चङ्गोटके (सी.)] ठपेत्वान, अनोजं पुप्फमुत्तमं;

सह चङ्कोटकेनेव, बुद्धसेट्ठं समोकिरिं.

७१. ‘‘तेन चित्तप्पसादेन, द्विपदिन्द नरासभ;

पत्तोम्हि अचलं ठानं, हित्वा जयपराजयं.

७२. ‘‘एकत्तिंसे इतो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

७३. ‘‘सम्पुण्णे तिंसकप्पम्हि, देवभूतिसनामका;

सत्तरतनसम्पन्ना, पञ्चासुं चक्कवत्तिनो.

७४. ‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा पुप्फचङ्कोटियो थेरो इमा गाथायो अभासित्थाति.

पुप्फचङ्कोटियत्थेरस्सापदानं दसमं.

सकचिन्तनियवग्गो सत्तमो.