१. पिलिन्दवच्छत्थेरअपदानं

१. ‘‘नगरे हंसवतिया, आसिं दोवारिको अहं;

अक्खोभं अमितं भोगं, घरे सन्निचितं मम.

२. ‘‘रहोगतो निसीदित्वा, पहंसित्वान मानसं [सम्पहंसित्व मानसं (सी.)];

निसज्ज पासादवरे, एवं चिन्तेसहं तदा.

(चिन्तनाकारो)

३. ‘‘‘बहू मेधिगता भोगा, फीतं अन्तेपुरं मम;

राजापि [राजिसि (क.)] सन्निमन्तेसि, आनन्दो पथविस्सरो.

४. ‘‘‘अयञ्च बुद्धो उप्पन्नो, अधिच्चुप्पत्तिको मुनि;

संविज्जन्ति च मे भोगा, दानं दस्सामि सत्थुनो.

५. ‘‘‘पदुमेन राजपुत्तेन, दिन्नं दानवरं जिने;

हत्थिनागे च पल्लङ्के, अपस्सेनञ्चनप्पकं.

६. ‘‘‘अहम्पि दानं दस्सामि, सङ्घे गणवरुत्तमे;

अदिन्नपुब्बमञ्ञेसं, भविस्सं आदिकम्मिको.

७. ‘‘‘चिन्तेत्वाहं बहुविधं, यागे यस्स सुखंफलं;

परिक्खारदानमद्दक्खिं, मम सङ्कप्पपूरणं.

८. ‘‘‘परिक्खारानि दस्सामि, सङ्घे गणवरुत्तमे;

अदिन्नपुब्बमञ्ञेसं, भविस्सं आदिकम्मिको’.

(दानवत्थुसम्पादनं)

९. ‘‘नळकारे उपागम्म, छत्तं कारेसि तावदे;

छत्तसतसहस्सानि, एकतो सन्निपातयिं.

१०. ‘‘दुस्ससतसहस्सानि, एकतो सन्निपातयिं;

पत्तसतसहस्सानि, एकतो सन्निपातयिं.

११. ‘‘वासियो सत्थके चापि, सूचियो नखछेदने;

हेट्ठाछत्ते ठपापेसिं, कारेत्वा तदनुच्छवे.

१२. ‘‘विधूपने तालवण्टे, मोरहत्थे च चामरे;

परिस्सावने तेलधारे [तेलधरे (सी.)], कारयिं तदनुच्छवे.

१३. ‘‘सूचिघरे अंसबद्धे, अथोपि कायबन्धने;

आधारके च सुकते, कारयिं तदनुच्छवे.

१४. ‘‘परिभोगभाजने च, अथोपि लोहथालके;

भेसज्जे पूरयित्वान, हेट्ठाछत्ते ठपेसहं.

१५. ‘‘वचं उसीरं लट्ठिमधुं, पिप्फली मरिचानि च;

हरीतकिं सिङ्गीवेरं, सब्बं पूरेसि भाजने.

१६. ‘‘उपाहना पादुकायो, अथो उदकपुञ्छने;

कत्तरदण्डे सुकते, कारयिं तदनुच्छवे.

१७. ‘‘ओसधञ्जननाळी च [ओसधं अञ्जनापिच (स्या.)], सलाका धम्मकुत्तरा;

कुञ्चिका पञ्चवण्णेहि, सिब्बिते कुञ्चिकाघरे.

१८. ‘‘आयोगे धूमनेत्ते च, अथोपि दीपधारके;

तुम्बके च करण्डे च, कारयिं तदनुच्छवे.

१९. ‘‘सण्डासे पिप्फले चेव, अथोपि मलहारके;

भेसज्जथविके चेव, कारयिं तदनुच्छवे.

२०. ‘‘आसन्दियो पीठके च, पल्लङ्के चतुरोमये;

तदनुच्छवे कारयित्वा, हेट्ठाछत्ते ठपेसहं.

२१. ‘‘उण्णाभिसी तूलभिसी, अथोपि पीठिकाभिसी [पीठकाभिसी (स्या. क.)];

बिम्बोहने [बिब्बोहने (स्या. क.)] च सुकते, कारयिं तदनुच्छवे.

२२. ‘‘कुरुविन्दे मधुसित्थे, तेलं हत्थप्पतापकं;

सिपाटिफलके सुची, मञ्चं अत्थरणेन च.

२३. ‘‘सेनासने पादपुञ्छे, सयनासनदण्डके;

दन्तपोणे च आटली [कथलिं (स्या.)], सीसालेपनगन्धके.

२४. ‘‘अरणी फलपीठे [पलालपीठे (सी.)] च, पत्तपिधानथालके;

उदकस्स कटच्छू च, चुण्णकं रजनम्बणं [रजनम्मणं (सी.)].

२५. ‘‘सम्मज्जनं [सम्मुञ्जनं (स्या.), सम्मज्जनिं, सम्मुञ्जनिं (?)] उदपत्तं, तथा वस्सिकसाटिकं;

निसीदनं कण्डुच्छादि, अथ अन्तरवासकं.

२६. ‘‘उत्तरासङ्गसङ्घाटी, नत्थुकं मुखसोधनं;

बिळङ्गलोणं पहूतञ्च [लोणभूतञ्च (क.)], मधुञ्च दधिपानकं.

२७. ‘‘धूपं [धूमं (क.)] सित्थं पिलोतिञ्च, मुखपुञ्छनसुत्तकं;

दातब्बं नाम यं अत्थि, यञ्च कप्पति सत्थुनो.

२८. ‘‘सब्बमेतं समानेत्वा, आनन्दं उपसङ्कमिं;

उपसङ्कम्म राजानं, जनेतारं महेसिनो [महेसिनं (सी.), महायसं (स्या.), महिस्सरं (क.)];

सिरसा अभिवादेत्वा, इदं वचनमब्रविं.

(दानोकासयाचना)

२९. ‘‘‘एकतो जातसंवद्धा, उभिन्नं एकतो मनं [यसो (स्या.), मनो (?)];

साधारणा सुखदुक्खे, उभो च अनुवत्तका.

३०. ‘‘‘अत्थि चेतसिकं दुक्खं, तवाधेय्यं अरिन्दम;

यदि सक्कोसि तं दुक्खं, विनोदेय्यासि खत्तिय.

३१. ‘‘‘तव दुक्खं मम दुक्खं, उभिन्नं एकतो मनो [मनं (सी. स्या.)];

निट्ठितन्ति विजानाहि, ममाधेय्यं सचे तुवं.

३२. ‘‘‘जानाहि खो महाराज, दुक्खं मे दुब्बिनोदयं;

पहु समानो गज्जसु, एकं ते दुच्चजं वरं.

३३. ‘‘‘यावता विजिते अत्थि, यावता मम जीवितं;

एतेहि यदि ते अत्थो, दस्सामि अविकम्पितो.

३४. ‘‘‘गज्जितं खो तया देव, मिच्छा तं बहु गज्जितं;

जानिस्सामि तुवं अज्ज, सब्बधम्मे [सच्चधम्मे (?)] पतिट्ठितं.

३५. ‘‘‘अतिबाळ्हं निपीळेसि, ददमानस्स मे सतो;

किं ते मे पीळितेनत्थो, पत्थितं ते कथेहि मे.

३६. ‘‘‘इच्छामहं महाराज, बुद्धसेट्ठं अनुत्तरं;

भोजयिस्सामि सम्बुद्धं, वज्जं [वञ्चुं (?)] मे माहु जीवितं.

३७. ‘‘‘अञ्ञं तेहं वरं दम्मि, मा याचित्थो तथागतं [अयाचितो तथागतो (स्या. क.)];

अदेय्यो कस्सचि बुद्धो, मणि जोतिरसो यथा.

३८. ‘‘‘ननु ते गज्जितं देव, याव जीवितमत्तनो [विजितमत्थितं (क.), जीवितमत्थिकं (स्या.)];

जीवितं [विजितं (क.)] ददमानेन, युत्तं दातुं तथागतं.

३९. ‘‘‘ठपनीयो महावीरो, अदेय्यो कस्सचि जिनो;

न मे पटिस्सुतो बुद्धो, वरस्सु अमितं धनं.

४०. ‘‘‘विनिच्छयं पापुणाम, पुच्छिस्साम विनिच्छये;

यथासण्ठं [यथासन्तं (सी.)] कथेस्सन्ति, पटिपुच्छाम तं तथा.

४१. ‘‘‘रञ्ञो हत्थे गहेत्वान, अगमासिं विनिच्छयं;

पुरतो अक्खदस्सानं, इदं वचनमब्रविं.

४२. ‘‘‘सुणन्तु मे अक्खदस्सा, राजा वरमदासि मे;

न किञ्चि ठपयित्वान, जीवितम्पि [विजितंपि (क.)] पवारयि.

४३. ‘‘‘तस्स मे वरदिन्नस्स, बुद्धसेट्ठं वरिं अहं;

सुदिन्नो होति मे बुद्धो, छिन्दथ संसयं मम.

४४. ‘‘‘सोस्साम तव वचनं, भूमिपालस्स राजिनो;

उभिन्नं वचनं सुत्वा, छिन्दिस्सामेत्थ संसयं.

४५. ‘‘‘सब्बं देव तया दिन्नं, इमस्स सब्बगाहिकं [सब्बगाहितं (स्या. क.)];

न किञ्चि ठपयित्वान, जीवितम्पि पवारयि.

४६. ‘‘‘किच्छप्पत्तोव हुत्वान, याची वरमनुत्तरं [यावजीवमनुत्तरं (स्या. क.)];

इमं सुदुक्खितं ञत्वा, अदासिं सब्बगाहिकं.

४७. ‘‘‘पराजयो तुवं [तवं (सी.)] देव, अस्स देय्यो तथागतो;

उभिन्नं संसयो छिन्नो, यथासण्ठम्हि [यथासन्तम्हि (सी.)] तिट्ठथ.

४८. ‘‘‘राजा तत्थेव ठत्वान, अक्खदस्सेतदब्रवि;

सम्मा मय्हम्पि देय्याथ, पुन बुद्धं लभामहं.

४९. ‘‘‘पूरेत्वा तव सङ्कप्पं, भोजयित्वा तथागतं;

पुन देय्यासि [देय्याथ (क.)] सम्बुद्धं, आनन्दस्स यसस्सिनो’.

(निमन्तनकथा)

५०. ‘‘अक्खदस्सेभिवादेत्वा, आनन्दञ्चापि खत्तियं;

तुट्ठो पमुदितो हुत्वा, सम्बुद्धमुपसङ्कमिं.

५१. ‘‘उपसङ्कम्म सम्बुद्धं, ओघतिण्णमनासवं;

सिरसा अभिवादेत्वा, इदं वचनमब्रविं.

५२. ‘वसीसतसहस्सेहि, अधिवासेहि चक्खुम;

हासयन्तो मम चित्तं, निवेसनमुपेहि मे’.

५३. ‘‘पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो;

मम सङ्कप्पमञ्ञाय, अधिवासेसि चक्खुमा.

५४. ‘‘अधिवासनमञ्ञाय, अभिवादिय सत्थुनो;

हट्ठो उदग्गचित्तोहं, निवेसनमुपागमिं.

(दानपटियादनं)

५५. ‘‘मित्तामच्चे समानेत्वा, इदं वचनमब्रविं;

‘सुदुल्लभो मया लद्धो, मणि जोतिरसो यथा.

५६. ‘‘‘केन तं पूजयिस्साम, अप्पमेय्यो अनूपमो;

अतुलो असमो धीरो, जिनो अप्पटिपुग्गलो.

५७. ‘‘‘तथासमसमो चेव, अदुतियो नरासभो;

दुक्करं अधिकारञ्हि, बुद्धानुच्छविकं मया.

५८. ‘‘‘नानापुप्फे समानेत्वा, करोम पुप्फमण्डपं;

बुद्धानुच्छविकं एतं, सब्बपूजा भविस्सति’.

५९. ‘‘उप्पलं पदुमं वापि, वस्सिकं अधिमुत्तकं [अतिमुत्तकं (?)];

चम्पकं [चन्दनं (क.)] नागपुप्फञ्च, मण्डपं कारयिं अहं.

६०. ‘‘सतासनसहस्सानि, छत्तच्छायाय पञ्ञपिं;

पच्छिमं आसनं मय्हं, अधिकं सतमग्घति.

६१. ‘‘सतासनसहस्सानि, छत्तच्छायाय पञ्ञपिं;

पटियादेत्वा अन्नपानं, कालं आरोचयिं अहं.

६२. ‘‘आरोचितम्हि कालम्हि, पदुमुत्तरो महामुनि;

वसीसतसहस्सेहि, निवेसनमुपेसि मे.

६३. ‘‘धारेन्तं उपरिच्छत्तं [धारेन्तमुपरिच्छत्ते (सी.)], सुफुल्लपुप्फमण्डपे;

वसीसतसहस्सेहि, निसीदि पुरिसुत्तमो.

६४. ‘‘‘छत्तसतसहस्सानि, सतसहस्समासनं;

कप्पियं अनवज्जञ्च, पटिगण्हाहि चक्खुम’.

६५. ‘‘पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो;

ममं तारेतुकामो सो, सम्पटिच्छि महामुनि.

(दानकथा)

६६. ‘‘भिक्खुनो एकमेकस्स, पच्चेकं पत्तमदासहं;

जहिंसु सुम्भकं [पुब्बकं (सी.), सम्भतं (स्या.), मत्तिकं (?)] पत्तं, लोहपत्तं अधारयुं.

६७. ‘‘सत्तरत्तिन्दिवं बुद्धो, निसीदि पुप्फमण्डपे;

बोधयन्तो बहू सत्ते, धम्मचक्कं पवत्तयि.

६८. ‘‘धम्मचक्कं पवत्तेन्तो, हेट्ठतो पुप्फमण्डपे;

चुल्लासीतिसहस्सानं, धम्माभिसमयो अहु.

६९. ‘‘सत्तमे दिवसे पत्ते, पदुमुत्तरो महामुनि;

छत्तच्छायायमासीनो, इमा गाथा अभासथ.

(ब्याकरणं)

७०. ‘‘‘अनूनकं दानवरं, यो मे पादासि माणवो;

तमहं कित्तयिस्सामि, सुणाथ मम भासतो.

७१. ‘‘‘हत्थी अस्सा रथा पत्ती, सेना च चतुरङ्गिनी;