१. आरक्खदायकत्थेरअपदानं
१. ‘‘धम्मदस्सिस्स मुनिनो, वति कारापिता मया;
आरक्खो च मया दिन्नो, द्विपदिन्दस्स तादिनो.
२. ‘‘अट्ठारसे कप्पसते, यं कम्ममकरिं तदा;
तेन कम्मविसेसेन, पत्तो मे आसवक्खयो.
३. ‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा आरक्खदायको थेरो इमा गाथायो अभासित्थाति.
आरक्खदायकत्थेरस्सापदानं पठमं.