७. मग्गदायकत्थेरअपदानं
३२. ‘‘उत्तरित्वान नदिकं, वनं गच्छति चक्खुमा;
तमद्दसासिं सम्बुद्धं, सिद्धत्थं वरलक्खणं.
३३. ‘‘कुदाल [कुद्दाल (सी. स्या.)] पिटकमादाय, समं कत्वान तं पथं;
सत्थारं अभिवादेत्वा, सकं चित्तं पसादयिं.
३४. ‘‘चतुन्नवुतितो कप्पे, यं कम्ममकरिं तदा;
दुग्गतिं नाभिजानामि, मग्गदानस्सिदं फलं.
३५. ‘‘सत्तपञ्ञासकप्पम्हि, एको आसिं जनाधिपो;
नामेन सुप्पबुद्धोति, नायको सो नरिस्सरो.
३६. ‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा मग्गदायको थेरो इमा गाथायो अभासित्थाति.
मग्गदायकत्थेरस्सापदानं सत्तमं.