(३) पाचित्तियादिपञ्हावण्णना
४८१. अधिट्ठितन्ति गाथा निस्सग्गियचीवरं अनिस्सज्जित्वा परिभुञ्जन्तं सन्धाय वुत्ता.
अत्थङ्गते सूरियेति गाथा रोमन्थकं सन्धाय वुत्ता.
न रत्तचित्तोति गाथाय अयमत्थो – रत्तचित्तो मेथुनधम्मपाराजिकं आपज्जति. थेय्यचित्तो अदिन्नादानपाराजिकं, परं मरणाय चेतेन्तो मनुस्सविग्गहपाराजिकं, सङ्घभेदको पन न रत्तचित्तो न च पन थेय्यचित्तो न चापि सो परं मरणाय चेतयि, सलाकं पनस्स देन्तस्स होति छेज्जं, पाराजिकं होति, सलाकं पटिग्गण्हन्तस्स भेदकानुवत्तकस्स थुल्लच्चयं.
गच्छेय्य अड्ढयोजनन्ति अयं पञ्हा सुप्पतिट्ठितनिग्रोधसदिसं एककुलस्स रुक्खमूलं सन्धाय वुत्ता.
कायिकानीति अयं गाथा सम्बहुलानं इत्थीनं केसे वा अङ्गुलियो वा एकतो गण्हन्तं सन्धाय वुत्ता.
वाचसिकानीति अयं गाथा ‘‘सब्बा तुम्हे सिखरणियो’’तिआदिना नयेन दुट्ठुल्लभाणिं सन्धाय वुत्ता.
तिस्सित्थियो मेथुनं तं न सेवेति तिस्सो इत्थियो वुत्ता, तासुपि यं तं मेथुनं नाम, तं न सेवति. तयो पुरिसेति तयो पुरिसेपि उपगन्त्वा मेथुनं न सेवति. तयो अनरियपण्डकेति उभतोब्यञ्जनसङ्खाते तयो अनरिये तयो च पण्डकेति इमेपि छ जने उपगन्त्वा मेथुनं न सेवति. न चाचरे मेथुनं ब्यञ्जनस्मिन्ति अनुलोमपाराजिकवसेनपि मेथुनं नाचरति. छेज्जं सिया मेथुनधम्मपच्चयाति सिया मेथुनधम्मपच्चया पाराजिकन्ति. अयं पञ्हा अट्ठवत्थुकं सन्धाय वुत्ता, तस्सा हि मेथुनधम्मस्स पुब्बभागं कायसंसग्गं आपज्जितुं वायमन्तिया मेथुनधम्मपच्चया छेज्जं होति.
मातरं चीवरन्ति अयं गाथा पिट्ठिसमये वस्सिकसाटिकत्थं सतुप्पादकरणं सन्धाय वुत्ता. विनिच्छयो पनस्सा वस्सिकसाटिकसिक्खापदवण्णनायमेव वुत्तो.
कुद्धो आराधको होतीति गाथा तित्थियवत्तं सन्धाय वुत्ता. तित्थियो हि वत्तं पूरयमानो तित्थियानं वण्णे भञ्ञमाने कुद्धो आराधको होति, वत्थुत्तयस्स वण्णे भञ्ञमाने कुद्धो गारय्हो होतीति तत्थेवस्सा वित्थारो वुत्तो. दुतियगाथापि तमेव सन्धाय वुत्ता.
सङ्घादिसेसन्तिआदि गाथा या भिक्खुनी अवस्सुताव अवस्सुतस्स पुरिसस्स हत्थतो पिण्डपातं गहेत्वा मनुस्समंसलसुणपणीतभोजनसेसअकप्पियमंसेहि सद्धिं ओमद्दित्वा अज्झोहरति, तं सन्धाय वुत्ता.
एको उपसम्पन्नो एको अनुपसम्पन्नोति गाथा आकासगतं सन्धाय वुत्ता. सचे हि द्वीसु सामणेरेसु एको इद्धिया केसग्गमत्तम्पि पथविं मुञ्चित्वा निसिन्नो होति, सो अनुपसम्पन्नो नाम होति. सङ्घेनापि आकासे निसीदित्वा भूमिगतस्स कम्मं न कातब्बं. सचे करोति, कुप्पति.
अकप्पकतन्ति गाथा अच्छिन्नचीवरकं भिक्खुं सन्धाय वुत्ता. तस्मिंयेव चस्सा सिक्खापदे वित्थारेन विनिच्छयोपि वुत्तो.
न देति न पटिग्गण्हातीति नापि उय्योजिका देति, न उय्योजिता तस्सा हत्थतो गण्हाति. पटिग्गहो तेन न विज्जतीति तेनेव कारणेन उय्योजिकाय हत्थतो उय्योजिताय पटिग्गहो न विज्जति. आपज्जति गरुकन्ति एवं सन्तेपि अवस्सुतस्स हत्थतो पिण्डपातग्गहणे उय्योजेन्ती सङ्घादिसेसापत्तिं आपज्जति. तञ्च परिभोगपच्चयाति तञ्च पन आपत्तिं आपज्जमाना तस्सा उय्योजिताय परिभोगपच्चया आपज्जति. तस्सा हि भोजनपरियोसाने उय्योजिकाय सङ्घादिसेसो होतीति. दुतियगाथा तस्सायेव उदकदन्तपोनग्गहणे उय्योजनं सन्धाय वुत्ता.
न भिक्खुनी नो च फुसेय्य वज्जन्ति सत्तरसकेसु हि अञ्ञतरं आपत्तिं आपज्जित्वा अनादरियेन छादयमानापि भिक्खुनी छादनपच्चया वज्जं न फुसति, अञ्ञं नवं आपत्तिं नापज्जति, पटिच्छन्नाय वा अप्पटिच्छन्नाय वा आपत्तिया पक्खमानत्तमेव लभति. अयं पन भिक्खुनीपि न होति, सावसेसञ्च गरुकं आपज्जित्वा छादेत्वा वज्जं न फुसति. पञ्हा मेसा कुसलेहि चिन्तिताति अयं किर पञ्हा उक्खित्तकभिक्खुं सन्धाय वुत्ता. तेन हि सद्धिं विनयकम्मं नत्थि, तस्मा सो सङ्घादिसेसं आपज्जित्वा छादेन्तो वज्जं न फुसतीति.
सेदमोचनगाथावण्णना निट्ठिता.