(२) देसनागामिनियादिवण्णना
४७५. पञ्च देसनागामिनियोति लहुका पञ्च. छ सप्पटिकम्माति पाराजिकं ठपेत्वा अवसेसा. एकेत्थ अप्पटिकम्माति एका पाराजिकापत्ति.
विनयगरुका द्वे वुत्ताति पाराजिकञ्चेव सङ्घादिसेसञ्च. कायवाचसिकानि चाति सब्बानेव सिक्खापदानि कायवाचसिकानि, मनोद्वारे पञ्ञत्तं एकसिक्खापदम्पि नत्थि. एको विकाले धञ्ञरसोति लोणसोवीरकं. अयमेव हि एको धञ्ञरसो विकाले वट्टति. एका ञत्तिचतुत्थेन सम्मुतीति भिक्खुनोवादकसम्मुति. अयमेव हि एका ञत्तिचतुत्थकम्मेन सम्मुति अनुञ्ञाता.
पाराजिका कायिका द्वेति भिक्खूनं मेथुनपाराजिकं भिक्खुनीनञ्च कायसंसग्गपाराजिकं. द्वे संवासभूमियोति अत्तना वा अत्तानं समानसंवासकं करोति, समग्गो वा सङ्घो उक्खित्तं ओसारेति. कुरुन्दियं पन ‘‘समानसंवासकभूमि च नानासंवासकभूमि चा’’ति एवं द्वे संवासभूमियो वुत्ता. द्विन्नं रत्तिच्छेदोति पारिवासिकस्स च मानत्तचारिकस्स च पञ्ञत्ता. द्वङ्गुला दुवेति द्वे द्वङ्गुलपञ्ञत्तियो, ‘‘द्वङ्गुलपब्बपरमं आदातब्ब’’न्ति अयमेका, ‘‘द्वङ्गुलं वा द्वेमासं वा’’ति अयमेका.
द्वे अत्तानं वधित्वानाति भिक्खुनी अत्तानं वधित्वा द्वे आपत्तियो आपज्जति; वधति रोदति, आपत्ति पाचित्तियस्स; वधति न रोदति, आपत्ति दुक्कटस्स. द्वीहि सङ्घो भिज्जतीति कम्मेन च सलाकग्गाहेन च. द्वेत्थ पठमापत्तिकाति एत्थ सकलेपि विनये द्वे पठमापत्तिका उभिन्नं पञ्ञत्तिवसेन. इतरथा पन नव भिक्खूनं नव भिक्खुनीनन्ति अट्ठारस होन्ति. ञत्तिया करणा दुवेति द्वे ञत्तिकिच्चानि – कम्मञ्च कम्मपादका च. नवसु ठानेसु कम्मं होति, द्वीसु कम्मपादभावेन तिट्ठति.
पाणातिपाते तिस्सोति ‘‘अनोदिस्स ओपातं खणति, सचे मनुस्सो मरति, पाराजिकं; यक्खपेतानं मरणे थुल्लच्चयं; तिरच्छानगतस्स मरणे पाचित्तिय’’न्ति इमा तिस्सो होन्ति. वाचा पाराजिका तयोति वज्जपटिच्छादिकाय उक्खित्तानुवत्तिकाय अट्ठवत्थुकायाति. कुरुन्दियं पन ‘‘आणत्तिया अदिन्नादाने, मनुस्समरणे, उत्तरिमनुस्सधम्मउल्लपने चा’’ति एवं तयो वुत्ता. ओभासना तयोति वच्चमग्गं पस्सावमग्गं आदिस्स वण्णावण्णभासने सङ्घादिसेसो, वच्चमग्गं पस्सावमग्गं ठपेत्वा अधक्खकं उब्भजाणुमण्डलं आदिस्स वण्णावण्णभणने थुल्लच्चयं, उब्भक्खकं अधोजाणुमण्डलं आदिस्स वण्णावण्णभणने दुक्कटं. सञ्चरित्तेन वा तयोति पटिग्गण्हाति वीमंसति पच्चाहरति, आपत्ति सङ्घादिसेसस्स; पटिग्गण्हाति वीमंसति न पच्चाहरति, आपत्ति थुल्लच्चयस्स; पटिग्गण्हाति न वीमंसति न पच्चाहरति, आपत्ति दुक्कटस्साति इमे सञ्चरित्तेन कारणभूतेन तयो आपत्तिक्खन्धा होन्ति.
तयो पुग्गला न उपसम्पादेतब्बाति अद्धानहीनो अङ्गहीनो वत्थुविपन्नो च तेसं नानाकरणं वुत्तमेव. अपिचेत्थ यो पत्तचीवरेन अपरिपूरो, परिपूरो च न याचति, इमेपि अङ्गहीनेनेव सङ्गहिता. मातुघातकादयो च करणदुक्कटका पण्डकउभतोब्यञ्जनकतिरच्छानगतसङ्खातेन वत्थुविपन्नेनेव सङ्गहिताति वेदितब्बा. एस नयो कुरुन्दियं वुत्तो. तयो कम्मानं सङ्गहाति ञत्तिकप्पना, विप्पकतपच्चत्तं, अतीतकरणन्ति. तत्थ ‘‘ददेय्य करेय्या’’तिआदिभेदा ञत्तिकप्पना; ‘‘देति करोती’’तिआदिभेदं विप्पकतपच्चत्तं; ‘‘दिन्नं कत’’न्तिआदिभेदं अतीतकरणं नामाति इमेहि तीहि कम्मानि सङ्गय्हन्ति. अपरेहिपि तीहि कम्मानि सङ्गय्हन्ति – वत्थुना, ञत्तिया, अनुस्सावनायाति. वत्थुसम्पन्नञ्हि ञत्तिसम्पन्नं अनुस्सावनसम्पन्नञ्च कम्मं नाम होति, तेन वुत्तं ‘‘तयो कम्मानं सङ्गहा’’ति. नासितका तयो नाम मेत्तियं भिक्खुनिं नासेथ, दूसको नासेतब्बो, दसहङ्गेहि समन्नागतो सामणेरो नासेतब्बो, कण्टकं समणुद्देसं नासेथाति एवं लिङ्गसंवासदण्डकम्मनासनावसेन तयो नासितका वेदितब्बा. तिण्णन्नं एकवाचिकाति ‘‘अनुजानामि भिक्खवे द्वे तयो एकानुस्सावने कातु’’न्ति वचनतो तिण्णं जनानं एकुपज्झायेन नानाचरियेन एकानुस्सावना वट्टति.
अदिन्नादाने तिस्सोति पादे वा अतिरेकपादे वा पाराजिकं, अतिरेकमासके थुल्लच्चयं, मासके वा ऊनमासके वा दुक्कटं. चतस्सो मेथुनपच्चयाति अक्खयिते पाराजिकं, येभुय्येन खयिते थुल्लच्चयं, विवटकते मुखे दुक्कटं, जतुमट्ठके पाचित्तियं. छिन्दन्तस्स तिस्सोति वनप्पतिं छिन्दन्तस्स पाराजिकं, भूतगामे पाचित्तियं, अङ्गजाते थुल्लच्चयं. पञ्च छड्डितपच्चयाति अनोदिस्स विसं छड्डेति, सचे तेन मनुस्सो मरति, पाराजिकं; यक्खपेतेसु थुल्लच्चयं; तिरच्छानगते पाचित्तियं; विस्सट्ठिछड्डने सङ्घादिसेसो; सेखियेसु हरिते उच्चारपस्सावछड्डने दुक्कटं – इमा छड्डितपच्चया पञ्चापत्तियो होन्ति.
पाचित्तियेन दुक्कटा कताति भिक्खुनोवादकवग्गस्मिं दससु सिक्खापदेसु पाचित्तियेन सद्धिं दुक्कटा कता एवाति अत्थो. चतुरेत्थ नवका वुत्ताति पठमसिक्खापदम्हियेव अधम्मकम्मे द्वे, धम्मकम्मे द्वेति एवं चत्तारो नवका वुत्ताति अत्थो. द्विन्नं चीवरेन चाति भिक्खूनं सन्तिके उपसम्पन्नाय चीवरं देन्तस्स पाचित्तियं, भिक्खुनीनं सन्तिके उपसम्पन्नाय देन्तस्स दुक्कटन्ति एवं द्विन्नं भिक्खुनीनं चीवरं देन्तस्स चीवरेन कारणभूतेन आपत्ति होतीति अत्थो.
अट्ठ पाटिदेसनीयाति पाळियं आगता एव. भुञ्जन्तामकधञ्ञेन पाचित्तियेन दुक्कटा कताति आमकधञ्ञं विञ्ञापेत्वा भुञ्जन्तिया पाचित्तियेन सद्धिं दुक्कटा कतायेव.
गच्छन्तस्स चतस्सोति भिक्खुनिया वा मातुगामेन वा सद्धिं संविधाय गच्छन्तस्स दुक्कटं, गामूपचारोक्कमने पाचित्तियं, या भिक्खुनी एका गामन्तरं गच्छति, तस्सा गामूपचारं ओक्कमन्तिया पठमपादे थुल्लच्चयं, दुतियपादे सङ्घादिसेसोति गच्छन्तस्स इमा चतस्सो आपत्तियो होन्ति. ठितस्स चापि तत्तकाति ठितस्सपि चतस्सो एवाति अत्थो. कथं? भिक्खुनी अन्धकारे वा पटिच्छन्ने वा ओकासे मित्तसन्थववसेन पुरिसस्स हत्थपासे तिट्ठति, पाचित्तियं; हत्थपासं विजहित्वा तिट्ठति, दुक्कटं; अरुणुग्गमनकाले दुतियिकाय हत्थपासं विजहन्ती तिट्ठति, थुल्लच्चयं; विजहित्वा तिट्ठति, सङ्घादिसेसोति निसिन्नस्स चतस्सो आपत्तियो. निपन्नस्सापि तत्तकाति सचेपि हि सा निसीदति वा निपज्जति वा, एतायेव चतस्सो आपत्तियो आपज्जति.