९. कम्मपटिबाहनसिक्खापदवण्णना
४७४. नवमे – सचे च मयं जानेय्यामाति सचे मयं जानेय्याम; चकारो पन निपातमत्तमेव. धम्मिकानन्ति धम्मेन विनयेन सत्थुसासनेन कतत्ता धम्मा एतेसु अत्थीति धम्मिकानि; तेसं धम्मिकानं चतुन्नं सङ्घकम्मानं. खिय्यति आपत्ति पाचित्तियस्साति एत्थ वाचाय वाचाय पाचित्तियं. सेसं उत्तानमेव. तिसमुट्ठानं – किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, दुक्खवेदनन्ति.
कम्मपटिबाहनसिक्खापदं नवमं.