७. संविधानसिक्खापदवण्णना

१८१. सत्तमसिक्खापदे – पच्छा गच्छन्तीनं चोरा अच्छिन्दिंसूति पच्छा गच्छन्तीनं पत्तचीवरं चोरा हरिंसु. दूसेसुन्ति ता भिक्खुनियो चोरा दूसयिंसु, सीलविनासं पापयिंसूति अत्थो.

१८२-३. संविधायाति संविदहित्वा, गमनकाले सङ्केतं कत्वाति अत्थो. कुक्कुटसम्पादेति एत्थ यस्मा गामा निक्खमित्वा कुक्कुटो पदसाव अञ्ञं गामं गच्छति, अयं कुक्कुटसम्पादोति वुच्चति. तत्रायं वचनत्थो – सम्पदन्ति एत्थाति सम्पादो. के सम्पदन्ति? कुक्कुटा. कुक्कुटानं सम्पादो कुक्कुटसम्पादो. अथ वा सम्पादोति गमनं, कुक्कुटानं सम्पादो एत्थ अत्थीतिपि कुक्कुटसम्पादो. कुक्कुटसम्पाते इतिपि पाठो, तत्थ यस्स गामस्स गेहच्छदनपिट्ठितो कुक्कुटो उप्पतित्वा अञ्ञस्स गेहच्छदनपिट्ठियं पतति, अयं कुक्कुटसम्पातोति वुच्चति. वचनत्थो पनेत्थ वुत्तनयेनेव वेदितब्बो. द्विधा वुत्तप्पकारोपि चेस गामो अच्चासन्नो होति, उपचारो न लब्भति. यस्मिं पन गामे पच्चूसे वस्सन्तस्स कुक्कुटस्स सद्दो अनन्तरे गामे सुय्यति, तादिसेहि गामेहि सम्पुण्णरट्ठे गामन्तरे गामन्तरे पाचित्तियन्ति अट्ठकथायं वुत्तं. किञ्चापि वुत्तं, ‘‘गामन्तरे गामन्तरे आपत्ति पाचित्तियस्सा’’ति वचनतो पन सचेपि रतनमत्तन्तरो गामो होति, यो तस्स मनुस्सेहि ठपितउपचारो, तं ओक्कमन्तस्स आपत्तियेव.

तत्रायं आपत्तिविनिच्छयो – संविधानकाले हि सचे उभोपि भिक्खुनुपस्सये वा अन्तरारामे वा आसनसालाय वा तित्थियसेय्याय वा ठत्वा संविदहन्ति, अनापत्ति कप्पियभूमि किरायं. तस्मा एत्थ संविदहनपच्चया दुक्कटापत्तिं न वदन्ति, गच्छन्तस्स यथावत्थुकमेव. सचे पन अन्तोगामे भिक्खुनुपस्सयद्वारे रथिकाय अञ्ञेसु वा चतुक्कसिङ्घाटकहत्थिसालादीसु संविदहन्ति, भिक्खुनो आपत्ति दुक्कटस्स. एवं संविदहित्वा गामतो निक्खमन्ति, निक्खमने अनापत्ति, अनन्तरगामस्स उपचारोक्कमने पन भिक्खुनो पाचित्तियं. तत्रापि ‘‘पठमपादे दुक्कटं, दुतियपादे पाचित्तिय’’न्ति महापच्चरियं वुत्तं. गामतो निक्खमित्वा पन याव अनन्तरगामस्स उपचारं न ओक्कमन्ति, एत्थन्तरे संविदहितेपि भिक्खुनो दुक्कटं, अनन्तरगामस्स उपचारोक्कमने पुरिमनयेनेव आपत्ति. सचे दूरं गन्तुकामा होन्ति, गामूपचारगणनाय ओक्कमने ओक्कमने आपत्ति, तस्स तस्स पन गामस्स अतिक्कमने अनापत्ति. सचे पन भिक्खुनी ‘‘असुकं नाम गामं गमिस्सामी’’ति उपस्सयतो निक्खमति, भिक्खुपि तमेव गामं सन्धाय ‘‘असुकं नाम गामं गमिस्सामी’’ति विहारतो निक्खमति. अथ द्वेपि गामद्वारे समागन्त्वा ‘‘तुम्हे कुहिं गच्छथ, असुकं नाम गामं तुम्हे कुहिन्ति, मयम्पि तत्थेवा’’ति वत्वा ‘‘एहि दानि, गच्छामा’’ति संविधाय गच्छन्ति, अनापत्ति. कस्मा? पुब्बमेव गमिस्सामाति निक्खन्तत्ताति महापच्चरियं वुत्तं. तं नेव पाळिया न सेसअट्ठकथाय समेति.

अद्धयोजने अद्धयोजनेति एकमेकं अद्धयोजनं अतिक्कमन्तस्स इदानि अतिक्कमिस्सतीति पठमपादे दुक्कटं, दुतियपादे पाचित्तियं. इमस्मिञ्हि नये अतिक्कमने आपत्ति, ओक्कमने अनापत्ति.

१८४. भिक्खु संविदहतीति नगरद्वारे वा रथिकाय वा भिक्खुनिं दिस्वा ‘‘असुकं गामं नाम गतपुब्बत्था’’ति वदति, ‘‘नाम्हि अय्य गतपुब्बा’’ति ‘‘एहि गच्छामा’’ति वा ‘‘स्वे अहं गमिस्सामि, त्वम्पि आगच्छेय्यासी’’ति वा वदति. भिक्खुनी संविदहतीति गामन्तरे चेतियवन्दनत्थं गामतो निक्खमन्तं भिक्खुं दिस्वा ‘‘अय्य कुहिं गच्छथा’’ति वदति. ‘‘असुकं नाम गामं चेतियवन्दनत्थ’’न्ति. ‘‘अहम्पि अय्य आगच्छामी’’ति एवं भिक्खुनीयेव संविदहति, न भिक्खु.

१८५. विसङ्केतेनाति एत्थ ‘‘पुरेभत्तं गच्छिस्सामा’’ति वत्वा पच्छाभत्तं गच्छन्ति, ‘‘अज्ज वा गमिस्सामा’’ति वत्वा स्वे गच्छन्ति. एवं कालविसङ्केतेयेव अनापत्ति, द्वारविसङ्केते पन मग्गविसङ्केते वा सतिपि आपत्तियेव. आपदासूति रट्ठभेदे चक्कसमारुळ्हा जनपदा परियायन्ति एवरूपासु आपदासु अनापत्ति. सेसं उत्तानमेवाति.

चतुसमुट्ठानं – कायतो कायवाचतो कायचित्ततो कायवाचाचित्ततो च समुट्ठाति, किरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मं, वचीकम्मं, तिचित्तं, तिवेदनन्ति.

संविधानसिक्खापदं सत्तमं.