१०. चेतियसुत्तवण्णना
८२२. दसमे निसीदनन्ति चम्मखण्डं अधिप्पेतं. उदेनं चेतियन्ति उदेनयक्खस्स चेतियट्ठाने कतविहारो वुच्चति. गोतमकादीसुपि एसेव नयो. भाविताति वड्ढिता. बहुलीकताति पुनप्पुनं कता. यानीकताति युत्तयानं विय कता. वत्थुकताति पतिट्ठानट्ठेन वत्थु विय कता. अनुट्ठिताति अधिट्ठिता. परिचिताति समन्ततो चिता सुवड्ढिता. सुसमारद्धाति सुट्ठु समारद्धा.
इति अनियमेन कथेत्वा पुन नियमेत्वा दस्सेन्तो तथागतस्स खोतिआदिमाह. एत्थ च कप्पन्ति आयुकप्पं, तस्मिं तस्मिं काले यं मनुस्सानं आयुप्पमाणं, तं परिपुण्णं करोन्तो तिट्ठेय्य. कप्पावसेसं वाति ‘‘अप्पं वा भिय्यो’’ति वुत्तवस्ससततो अतिरेकं वा. महासीवत्थेरो पनाह ‘‘बुद्धानं अट्ठाने गज्जितं नाम नत्थि. यथेव हि वेळुवगामके उप्पन्नं मारणन्तिकवेदनं दस मासे विक्खम्भेसि, एवं पुनप्पुनं तं समापत्तिं समापज्जित्वा दस दस मासेपि विक्खम्भेन्तो इमं भद्दकप्पमेव तिट्ठेय्या’’ति.
कस्मा पन न ठितोति? उपादिण्णकसरीरं नाम खण्डिच्चादीहि अभिभुय्यति, बुद्धा नाम खण्डिच्चादिभावं अपत्वाव पञ्चमे आयुकोट्ठासे बहुजनस्स पियमनापकालेयेव परिनिब्बायन्ति. बुद्धानुबुद्धेसु च महासावकेसु परिनिब्बुतेसु एककेन खाणुकेन विय ठातब्बं होति, दहरसामणेरपरिवारितेन वा, ततो – ‘‘अहो बुद्धानं परिसा’’ति हीळेतब्बतं आपज्जेय्य, तस्मा न ठितोति. एवं वुत्तेपि सो पन न रुच्चति, ‘‘आयुकप्पो’’ति इदमेव अट्ठकथायं नियमितं.
यथा तं मारेन परियुट्ठितचित्तोति एत्थ तन्ति निपातमत्तं. यथा मारेन परियुट्ठितचित्तो अज्झोत्थटचित्तो अञ्ञोपि कोचि पुथुज्जनो पटिविज्झितुं न सक्कुणेय्य, एवमेव नासक्खि पटिविज्झितुन्ति अत्थो. मारो हि यस्स सब्बेन सब्बं द्वादस विपल्लासा अप्पहीना, तस्स चित्तं परियुट्ठाति. थेरस्स च चत्तारो विपल्लासा अप्पहीना, तेनस्स मारो चित्तं परियुट्ठासि. सो पन चित्तपरियुट्ठानं करोन्तो किं करोतीति? भेरवं रूपारम्मणं वा दस्सेति, सद्दारम्मणं वा सावेति, ततो सत्ता तं दिस्वा वा सुत्वा वा सतिं विस्सज्जेत्वा विवटमुखा होन्ति, तेसं मुखेन हत्थं पवेसेत्वा हदयं मद्दति, ते विसञ्ञी हुत्वा तिट्ठन्ति. थेरस्स पनेस मुखे हत्थं पवेसेतुं किं सक्खिस्सति? भेरवारम्मणं पन दस्सेति, तं दिस्वा थेरो निमित्तोभासं न पटिविज्झि. जानन्तोयेव भगवा किमत्थं यावततियकं आमन्तेसीति. परतो ‘‘तिट्ठतु, भन्ते, भगवा’’ति याचिते ‘‘तुय्हेवेतं दुक्कटं, तुय्हेवेतं अपरद्ध’’न्ति दोसारोपनेन सोकतनुकरणत्थं.
मारो पापिमाति एत्थ सत्ते अनत्थे नियोजेन्तो मारेतीति मारो. पापिमाति तस्सेव वेवचनं. सो हि पापधम्मसमन्नागतत्ता ‘‘पापिमा’’ति वुच्चति. कण्हो, अन्तको, नमुचि, पमत्तबन्धूतिपि तस्सेव नामानि. भासिता खो पनेसाति अयञ्हि भगवतो सम्बोधिपत्तिया अट्ठमे सत्ताहे बोधिमण्डंयेव आगन्त्वा – ‘‘भगवा यदत्थं तुम्हेहि पारमियो पूरिता, सो वो अत्थो अनुप्पत्तो, पटिविद्धं सब्बञ्ञुतञ्ञाणं, किं वो लोकविचरणेना’’ति वत्वा यथा अज्ज, एवमेव – ‘‘परिनिब्बातु दानि, भन्ते, भगवा, परिनिब्बातु, सुगतो,’’ति याचि. भगवा चस्स ‘‘न तावाह’’न्तिआदीनि वत्वा पटिक्खिपि. तं सन्धाय ‘‘भासिता खो पनेसा, भन्ते,’’तिआदिमाह.
तत्थ वियत्ताति मग्गवसेन ब्यत्ता. तथेव विनीता. तथा विसारदा. बहुस्सुताति तेपिटकवसेन बहु सुतमेतेसन्ति बहुस्सुता. तदेव धम्मं धारेन्तीति धम्मधरा. अथ वा परियत्तिबहुस्सुता चेव पटिवेधबहुस्सुता च, परियत्तिपटिवेधधम्मानंयेव धारणतो धम्मधराति एवमेत्थ अत्थो दट्ठब्बो. धम्मानुधम्मप्पटिपन्नाति अरियधम्मस्स अनुधम्मभूतं विपस्सनाधम्मं पटिपन्ना. सामीचिप्पटिपन्नाति अनुच्छविकपटिपदं पटिपन्ना. अनुधम्मचारिनोति अनुधम्मचरणसीला. सकं आचरियकन्ति अत्तनो आचरियवादं. आचिक्खिस्सन्तीतिआदीनि सब्बानि अञ्ञमञ्ञस्सेव वेवचनानि. सहधम्मेनाति सहेतुकेन सकारणेन वचनेन. सप्पाटिहारियन्ति याव निय्यानिकं कत्वा धम्मं देसेस्सन्ति.
ब्रह्मचरियन्ति सिक्खत्तयसङ्गहितं सकलं सासनब्रह्मचरियं. इद्धन्ति समिद्धं झानस्सादवसेन. फीतन्ति वुड्ढिपत्तं सब्बपालिफुल्लं विय अभिञ्ञासम्पत्तिवसेन. वित्थारिकन्ति वित्थतं तस्मिं तस्मिं दिसाभागे पतिट्ठितवसेन. बाहुजञ्ञन्ति बहूहि ञातं पटिविद्धं महाजनाभिसमयवसेन. पुथुभूतन्ति सब्बाकारेन पुथुलभावपत्तं. कथं? याव देवमनुस्सेहि सुप्पकासितं, यत्तका विञ्ञुजातिका देवा चेव मनुस्सा च अत्थि, सब्बेहि सुट्ठु पकासितन्ति अत्थो.
अप्पोस्सुक्कोति निरालयो. त्वञ्हि पापिम अट्ठमसत्ताहतो पट्ठाय ‘‘परिनिब्बातु दानि, भन्ते, भगवा, परिनिब्बातु सुगतो’’ति विरवन्तो आहिण्डित्थ, अज्ज दानि पट्ठाय विगतुस्साहो होहि, मा मय्हं परिनिब्बानत्थं वायामं करोहीति वदति.
सतो सम्पजानो आयुसङ्खारं ओस्सजीति सतिं सूपट्ठितं कत्वा ञाणेन परिच्छिन्दित्वा आयुसङ्खारं विस्सजि पजहि. तत्थ न भगवा हत्थेन लेड्डुं विय आयुसङ्खारं ओस्सजि, तेमासमत्तमेव पन फलसमापत्तिं समापज्जित्वा ततो परं न समापज्जिस्सामीति चित्तं उप्पादेसि. तं सन्धाय वुत्तं ‘‘ओस्सजी’’ति. उस्सजीतिपि पाठो. महाभूमिचालोति महन्तो पथविकम्पो. तदा किर दससहस्सिलोकधातु अकम्पित्थ. भिंसनकोति भयजनको. देवदुन्दुभियो च फलिंसूति देवभेरियो फलिंसु, देवो सुक्खगज्जितं गज्जि, अकालविज्जुलता निच्छरिंसु, खणिकवस्सं वस्सीति वुत्तं होति.
उदानं उदानेसीति कस्मा उदानेसि? कोचि नाम वदेय्य ‘‘भगवा पच्छतो पच्छतो अनुबन्धित्वा – ‘परिनिब्बायथ, भन्ते, परिनिब्बायथ, भन्ते’ति उपद्दुतो भयेन आयुसङ्खारं विस्सज्जेसी’’ति. तस्सोकासो मा होतूति. भीतस्स हि उदानं नाम नत्थीति पीतिवेगविस्सट्ठं उदानेसि.
तत्थ सब्बेसं सोणसिङ्गालादीनम्पि पच्चक्खभावतो तुलितं परिच्छिन्नन्ति तुलं. किं तं? कामावचरकम्मं. न तुलं, न वा तुलं सदिसमस्स अञ्ञं लोकियकम्मं अत्थीति अतुलं. किं तं? महग्गतकम्मं. अथ वा कामावचरं रूपावचरञ्च तुलं, अरूपावचरं अतुलं. अप्पविपाकं तुलं, बहुविपाकं अतुलं. सम्भवन्ति सम्भवहेतुभूतं, पिण्डकारकं रासिकारकन्ति अत्थो. भवसङ्खारन्ति पुनब्भवस्स सङ्खारं. अवस्सजीति विस्सज्जेसि. मुनीति बुद्धमुनि. अज्झत्तरतोति नियकज्झत्तरतो. समाहितोति उपचारप्पनासमाधिवसेन समाहितो. अभिन्दि कवचमिवाति कवचं विय अभिन्दि. अत्तसम्भवन्ति अत्तनि जातकिलेसं. इदं वुत्तं होति – सविपाकट्ठेन सम्भवं भवाभिसङ्खणट्ठेन भवसङ्खारन्ति च लद्धनामं तुलातुलसङ्खातं लोकियकम्मञ्च ओस्सजि, सङ्गामसीसे महायोधो कवचं विय अत्तसम्भवं किलेसञ्च अज्झत्तरतो समाहितो हुत्वा अभिन्दीति.
अथ वा तुलन्ति तुलेन्तो तीरेन्तो. अतुलञ्च सम्भवन्ति निब्बानञ्चेव भवञ्च. भवसङ्खारन्ति भवगामिकम्मं. अवस्सजि मुनीति ‘‘पञ्चक्खन्धा अनिच्चा, पञ्चन्नं खन्धानं निरोधो निब्बानं निच्च’’न्तिआदिना नयेन तुलयन्तो बुद्धमुनि भवे आदीनवं निब्बाने चानिसंसं दिस्वा तं खन्धानं मूलभूतं भवसङ्खारं ‘‘कम्मक्खयाय संवत्तती’’ति एवं वुत्तेन कम्मक्खयकरेन अरियमग्गेन अवस्सजि. कथं? अज्झत्तरतो समाहितो अभिन्दि कवचमिवत्तसम्भवं. सो हि विपस्सनावसेन अज्झत्तरतो, समथवसेन समाहितोति एवं पुब्बभागतो पट्ठाय समथविपस्सनाबलेन कवचमिव अत्तभावं परियोनन्धित्वा ठितं, अत्तनि सम्भवत्ता अत्तसम्भवन्ति लद्धनामं सब्बं किलेसजातं अभिन्दि. किलेसाभावेन च कम्मं अप्पटिसन्धिकत्ता अवस्सट्ठं नाम होतीति एवं किलेसप्पहानेन कम्मं जहि. पहीनकिलेसस्स भयं नाम नत्थि. तस्मा अभीतोव आयुसङ्खारं ओस्सजि. अभीतभावञापनत्थञ्च उदानं उदानेसीति वेदितब्बो.
चापालवग्गो पठमो.