१. जराधम्मसुत्तवण्णना
५११. पञ्चमवग्गस्स पठमे पच्छातपेति पासादच्छायाय पुरत्थिमदिसं पटिच्छन्नत्ता पासादस्स पच्छिमदिसाभागे आतपो होति, तस्मिं ठाने पञ्ञत्तवरबुद्धासने निसिन्नोति अत्थो. पिट्ठिं ओतापयमानोति यस्मा सम्मासम्बुद्धस्सपि उपादिन्नकसरीरे उण्हकाले उण्हं होति, सीतकाले सीतं, अयञ्च हिमपातसीतसमयो. तस्मा महाचीवरं ओतारेत्वा सूरियरस्मीहि पिट्ठिं ओतापयमानो निसीदि.
किं पन बुद्धरस्मियो मद्दित्वा सूरियरस्मि अन्तो पविसितुं सक्कोतीति? न सक्कोति. एवं सन्ते किं तापेतीति? रस्मितेजं. यथेव हि ठितमज्झन्हिके परिमण्डलाय छायाय रुक्खमूले निसिन्नस्स किञ्चापि सूरियरस्मियो सरीरं न फुसन्ति, सब्बदिसासु पन तेजो फरति, अग्गिजालाहि परिक्खित्तो विय होति, एवं सूरियरस्मीसु बुद्धरस्मियो मद्दित्वा अन्तो पविसितुं असक्कुणन्तीसुपि सत्था तेजं तापेन्तो निसिन्नोति वेदितब्बो.
अनोमज्जन्तोति पिट्ठिपरिकम्मकरणवसेन अनुमज्जन्तो. अच्छरियं भन्तेति थेरो भगवतो पिट्ठितो महाचीवरं ओतारेत्वा निसिन्नस्स द्विन्नं अंसकूटानं अन्तरे सुवण्णावट्टं विय केसग्गप्पमाणं वलियावट्टं दिस्वा – ‘‘एवरूपेपि नाम सरीरे जरा पञ्ञायती’’ति सञ्जातसंवेगो जरं गरहन्तो एवमाह. गरहनच्छरियं नाम किरेतं.
न चेवं दानि, भन्ते, भगवतो ताव परिसुद्धोति यथा पकतिया छविवण्णो परिसुद्धो, न एवमेतरहीति दीपेन्तो एवमाह. तथागतस्स हि दहरकाले सङ्कुसतसमब्भाहतं उसभचम्मं विय विहतवलिको कायो होति, तस्मिं ठपितो हत्थो भस्सतेव, न सन्तिट्ठति, तेलपुञ्छनाकारप्पत्तो विय होति. महल्लककाले पन सिराजाला मिलायन्ति, सन्धिपब्बानि सिथिलानि होन्ति, मंसं अट्ठितो मुच्चित्वा सिथिलभावं आपज्जित्वा तत्थ तत्थ ओलम्बति. बुद्धानं पन एवरूपं न होति. अञ्ञेसं अपाकटं, सन्तिकावचरत्ता आनन्दत्थेरस्सेव पाकटं होति, तस्मा एवमाह.
सिथिलानि च गत्तानीति अञ्ञेसं मुखे अंसकूटन्तरेहि तेसु तेसु ठानेसु वलियो सन्तिट्ठन्ति, सत्थु पनेतं नत्थि, थेरो च द्विन्नं अंसकूटानं अन्तरे वलियावट्टकं दिस्वा एवमाह. सब्बानि वलियजातानीति इदम्पि अत्तनो पाकटवसेन एवमाह – सत्थु पन अञ्ञेसं विय वलियो नाम नत्थि. पुरतो पब्भारो च कायोति सत्था ब्रह्मुजुगत्तो, देवनगरे समुस्सितसुवण्णतोरणं वियस्स कायो उजुकमेव उग्गतो. महल्लककाले पन कायो पुरतो वङ्को होति, स्वायं अञ्ञेसं अपाकटो, सन्तिकावचरत्ता पन थेरस्सेव पाकटो, तस्मा एवमाह. दिस्सति च इन्द्रियानं अञ्ञथत्तन्ति इन्द्रियानि नाम न चक्खुविञ्ञेय्यानि. यतो पन पकतिया परिसुद्धो छविवण्णो, इदानि न तथा परिसुद्धो, अंसकूटन्तरे वलि पञ्ञायति, ब्रह्मुजुकायो पुरतो वङ्को, इमिनाव कारणेन चक्खादीनञ्च इन्द्रियानं अञ्ञथत्तेन भवितब्बन्ति नयग्गाहतो एवमाह. धी तं जम्मि जरे अत्थूति लामके जरे धी तं तुय्हं होतु, धिक्कारो तं फुसतु. बिम्बन्ति अत्तभावो.