५. जरावग्गो

१. जराधम्मसुत्तवण्णना

५११. पञ्चमवग्गस्स पठमे पच्छातपेति पासादच्छायाय पुरत्थिमदिसं पटिच्छन्नत्ता पासादस्स पच्छिमदिसाभागे आतपो होति, तस्मिं ठाने पञ्ञत्तवरबुद्धासने निसिन्नोति अत्थो. पिट्ठिं ओतापयमानोति यस्मा सम्मासम्बुद्धस्सपि उपादिन्नकसरीरे उण्हकाले उण्हं होति, सीतकाले सीतं, अयञ्च हिमपातसीतसमयो. तस्मा महाचीवरं ओतारेत्वा सूरियरस्मीहि पिट्ठिं ओतापयमानो निसीदि.

किं पन बुद्धरस्मियो मद्दित्वा सूरियरस्मि अन्तो पविसितुं सक्कोतीति? न सक्कोति. एवं सन्ते किं तापेतीति? रस्मितेजं. यथेव हि ठितमज्झन्हिके परिमण्डलाय छायाय रुक्खमूले निसिन्नस्स किञ्चापि सूरियरस्मियो सरीरं न फुसन्ति, सब्बदिसासु पन तेजो फरति, अग्गिजालाहि परिक्खित्तो विय होति, एवं सूरियरस्मीसु बुद्धरस्मियो मद्दित्वा अन्तो पविसितुं असक्कुणन्तीसुपि सत्था तेजं तापेन्तो निसिन्नोति वेदितब्बो.

अनोमज्जन्तोति पिट्ठिपरिकम्मकरणवसेन अनुमज्जन्तो. अच्छरियं भन्तेति थेरो भगवतो पिट्ठितो महाचीवरं ओतारेत्वा निसिन्नस्स द्विन्नं अंसकूटानं अन्तरे सुवण्णावट्टं विय केसग्गप्पमाणं वलियावट्टं दिस्वा – ‘‘एवरूपेपि नाम सरीरे जरा पञ्ञायती’’ति सञ्जातसंवेगो जरं गरहन्तो एवमाह. गरहनच्छरियं नाम किरेतं.

न चेवं दानि, भन्ते, भगवतो ताव परिसुद्धोति यथा पकतिया छविवण्णो परिसुद्धो, न एवमेतरहीति दीपेन्तो एवमाह. तथागतस्स हि दहरकाले सङ्कुसतसमब्भाहतं उसभचम्मं विय विहतवलिको कायो होति, तस्मिं ठपितो हत्थो भस्सतेव, न सन्तिट्ठति, तेलपुञ्छनाकारप्पत्तो विय होति. महल्लककाले पन सिराजाला मिलायन्ति, सन्धिपब्बानि सिथिलानि होन्ति, मंसं अट्ठितो मुच्चित्वा सिथिलभावं आपज्जित्वा तत्थ तत्थ ओलम्बति. बुद्धानं पन एवरूपं न होति. अञ्ञेसं अपाकटं, सन्तिकावचरत्ता आनन्दत्थेरस्सेव पाकटं होति, तस्मा एवमाह.

सिथिलानि च गत्तानीति अञ्ञेसं मुखे अंसकूटन्तरेहि तेसु तेसु ठानेसु वलियो सन्तिट्ठन्ति, सत्थु पनेतं नत्थि, थेरो च द्विन्नं अंसकूटानं अन्तरे वलियावट्टकं दिस्वा एवमाह. सब्बानि वलियजातानीति इदम्पि अत्तनो पाकटवसेन एवमाह – सत्थु पन अञ्ञेसं विय वलियो नाम नत्थि. पुरतो पब्भारो च कायोति सत्था ब्रह्मुजुगत्तो, देवनगरे समुस्सितसुवण्णतोरणं वियस्स कायो उजुकमेव उग्गतो. महल्लककाले पन कायो पुरतो वङ्को होति, स्वायं अञ्ञेसं अपाकटो, सन्तिकावचरत्ता पन थेरस्सेव पाकटो, तस्मा एवमाह. दिस्सति च इन्द्रियानं अञ्ञथत्तन्ति इन्द्रियानि नाम न चक्खुविञ्ञेय्यानि. यतो पन पकतिया परिसुद्धो छविवण्णो, इदानि न तथा परिसुद्धो, अंसकूटन्तरे वलि पञ्ञायति, ब्रह्मुजुकायो पुरतो वङ्को, इमिनाव कारणेन चक्खादीनञ्च इन्द्रियानं अञ्ञथत्तेन भवितब्बन्ति नयग्गाहतो एवमाह. धी तं जम्मि जरे अत्थूति लामके जरे धी तं तुय्हं होतु, धिक्कारो तं फुसतु. बिम्बन्ति अत्तभावो.

२. उण्णाभब्राह्मणसुत्तवण्णना

५१२. दुतिये गोचरविसयन्ति गोचरभूतं विसयं. अञ्ञमञ्ञस्साति चक्खु सोतस्स, सोतं वा चक्खुस्साति एवं एकं एकस्स गोचरविसयं न पच्चनुभोति. सचे हि नीलादिभेदं रूपारम्मणं समोधानेत्वा सोतिन्द्रियस्स उपनेय्य – ‘‘इङ्घ त्वं ताव नं ववत्थपेहि विभावेहि ‘किन्नामेतं आरम्मण’’’न्ति. चक्खुविञ्ञाणं विनापि मुखेन अत्तनो धम्मताय एवं वदेय्य – ‘‘अरे, अन्धबाल, वस्ससतम्पि वस्ससहस्सम्पि वस्ससतसहस्सम्पि परिधावमानो अञ्ञत्र मया कुहिं एतस्स जाननकं लभिस्ससि, तं आहर, चक्खुपसादे उपनेहि, अहमेतं आरम्मणं जानिस्सामि – यदि वा नीलं, यदि वा पीतकं. न हि एसो अञ्ञस्स विसयो, मय्हमेवेसो विसयो’’ति. सेसद्वारेसुपि एसेव नयो. एवमेतानि अञ्ञमञ्ञस्स गोचरविसयं न पच्चनुभोन्ति नाम.

किं पटिसरणन्ति एतेसं किं पटिसरणं, किं एतानि पटिसरन्तीति पुच्छति. मनो पटिसरणन्ति जवनमनो पटिसरणं. मनोव नेसन्ति मनोद्वारिकजवनमनोव एतेसं गोचरविसयं रज्जनादिवसेन अनुभोति. चक्खुविञ्ञाणञ्हि रूपदस्सनमत्तमेव, एत्थ रज्जनं वा दुस्सनं वा मुय्हनं वा नत्थि. एकस्मिं पन द्वारे जवनं रज्जति वा दुस्सति वा मुय्हति वा. सोतविञ्ञाणादीसुपि एसेव नयो.

तत्रायं उपमा – पञ्च किर दुब्बलभोजका राजानं सेवित्वा किच्छेन कसिरेन एकस्मिं पञ्चकुलिके गामे परित्तकं आयं लभिंसु. तेसं तत्थ मच्छभागो मंसभागो, अद्दुकहापणो वा योत्तकहापणो वा मासकहापणो वा अट्ठकहापणो वा सोळसकहापणो वा चतुसट्ठिकहापणो वा दण्डोति एत्तकमत्तमेव पापुणाति, सतवत्थुकं पञ्चसतवत्थुकं सहस्सवत्थुकं महाबलिं राजाव गण्हाति.

तत्थ पञ्चकुलिकगामा विय पञ्चपसादा दट्ठब्बा, पञ्च दुब्बलभोजका विय पञ्चविञ्ञाणानि; राजा विय जवनं, दुब्बलभोजकानं परित्तकआयपापुणनं विय चक्खुविञ्ञाणादीनं रूपदस्सनादिमत्तं, रज्जनादि पन एतेसु नत्थि. रञ्ञो महाबलिग्गहणं विय तेसु द्वारेसु जवनस्स रज्जनादीनि वेदितब्बानि. एवमेत्थ मनोति कुसलाकुसलजवनं वुत्तं.

सति पटिसरणन्ति मग्गसति पटिसरणं. जवनमनो हि मग्गसतिं पटिसरति. विमुत्तीति फलविमुत्ति. पटिसरणन्ति फलविमुत्तिया निब्बानं पटिसरणं. तञ्हि सा पटिसरति. नासक्खि पञ्हस्स परियन्तं गहेतुन्ति पञ्हस्स परिच्छेदं पमाणं गहेतुं नासक्खि, अप्पटिसरणं धम्मं ‘‘सप्पटिसरण’’न्ति पुच्छि. निब्बानं नामेतं अप्पटिसरणं, न किञ्चि पटिसरति. निब्बानोगधन्ति निब्बानब्भन्तरं निब्बानं अनुपविट्ठं. ब्रह्मचरियन्ति मग्गब्रह्मचरियं. निब्बानपरायणन्ति निब्बानं परं अयनमस्स परा गति, न ततो परं गच्छतीति अत्थो. निब्बानं परियोसानं अवसानं अस्साति निब्बानपरियोसानं.

मूलजाता पतिट्ठिताति मग्गेन आगतसद्धा वुच्चति. इमम्हि चे, भिक्खवे, समयेति किं सन्धायाह? झानअनागामितं. तस्मिञ्हि समये ब्राह्मणस्स पठममग्गेन पञ्च अकुसलचित्तानि पहीनानि, पठमज्झानेन पञ्च नीवरणानीति झानअनागामिट्ठाने ठितो. सो अपरिहीनज्झानो कालं कत्वा तत्थेव परिनिब्बायेय्य. सचे पनस्स पुत्तदारं अनुसासन्तस्स कम्मन्ते विचारेन्तस्स झानं नस्सति, नट्ठे झाने गति अनिबद्धा होति, अनट्ठे पन निबद्धाति इमं झानअनागामितं सन्धाय एवमाह.

३. साकेतसुत्तवण्णना

५१३. ततिये अञ्जनवनेति अञ्जनवण्णपुप्फानं रुक्खानं रोपितवने. यं, भिक्खवे, सद्धिन्द्रियं, तं सद्धाबलन्ति तञ्हि अधिमोक्खलक्खणे इन्दट्ठेन सद्धिन्द्रियं, अस्सद्धिये अकम्पनेन सद्धाबलं. इतरेसं पग्गहउपट्ठानअविक्खेपपजाननलक्खणेसु इन्दट्ठेन इन्द्रियभावो, कोसज्जमुट्ठसच्चविक्खेपाविज्जासु अकम्पनेन बलभावो वेदितब्बो. एवमेव खोति तस्सा नदिया एकसोतं विय सद्धावीरियसतिसमाधिपञ्ञावसेन एतेसं निन्नानाकरणं वेदितब्बं, द्वे सोतानि विय इन्दट्ठअकम्पनट्ठेहि इन्द्रियबलवसेन नानाकरणं वेदितब्बं.

४. पुब्बकोट्ठकसुत्तवण्णना

५१४. चतुत्थे अमतोगधन्ति अमतब्भन्तरं. अमतपरायणन्ति अमतनिब्बत्तिकं. अमतपरियोसानन्ति अमतनिट्ठं. साधु साधूति थेरस्स ब्याकरणं पसंसन्तो साधुकारं देति.

५. पठमपुब्बारामसुत्तवण्णना

५१५. पञ्चमे तदन्वयाति तं अनुगच्छमाना, अनुवत्तमानाति अत्थो. पुब्बकोट्ठकं आदिं कत्वा पटिपाटिया छसु सुत्तेसु फलिन्द्रियानेव कथितानि.

१०. आपणसुत्तवण्णना

५२०. दसमे इमे खो ते धम्माति उपरि सह विपस्सनाय तयो मग्गा. ये मे पुब्बे सुताव अहेसुन्ति ये धम्मा मया पुब्बे ‘‘अरहत्तफलिन्द्रियं नाम अत्थी’’ति कथेन्तानंयेव सुता अहेसुं. कायेन च फुसित्वाति नामकायेन च फुसित्वा पटिलभित्वा. पञ्ञाय च अतिविज्झ पस्सामीति पच्चवेक्खणपञ्ञाय च अतिविज्झित्वा पस्सामि. या हिस्स, भन्ते, सद्धाति अयं कतरसद्धा? चतूहि इन्द्रियेहि सम्पयुत्ता सद्धा हेट्ठा कथिताव, अयं पन पच्चवेक्खणसद्धा. सम्पयुत्तसद्धा हि मिस्सका, पच्चवेक्खणसद्धा लोकियाव. सेसं सब्बत्थ उत्तानमेवाति.

जरावग्गो पञ्चमो.