४. सुखिन्द्रियवग्गो
१-५. सुद्धिकसुत्तादिवण्णना
५०१-५०५. चतुत्थवग्गस्स पठमे सुखञ्च तं सहजातानं आधिपतेय्यसङ्खातेन इन्दट्ठेन इन्द्रियञ्चाति सुखिन्द्रियं. दुक्खिन्द्रियादीसुपि एसेव नयो. एत्थ च सुखिन्द्रियदुक्खिन्द्रियदोमनस्सिन्द्रियानि कामावचरानेव, सोमनस्सिन्द्रियं ठपेत्वा अरूपावचरं सेसं तेभूमकं, उपेक्खिन्द्रियं चतुभूमकं. दुतियादीनि चत्तारि चतुसच्चवसेनेव कथितानि.
६. पठमविभङ्गसुत्तवण्णना
५०६. छट्ठे कायिकन्ति कायपसादवत्थुकं. सुखन्ति अयमस्स सरूपनिद्देसो. सातन्ति तस्सेव वेवचनं, मधुरन्ति वुत्तं होति. कायसम्फस्सजन्ति कायसम्फस्सतो जातं. सुखं सातन्ति वुत्तनयमेव. वेदयितन्ति अयमस्स सब्बवेदनासाधारणो अञ्ञधम्मविसिट्ठो सभावनिद्देसो. इमिना नयेन सेसेसुपि अत्थो वेदितब्बो. कायिकं वा चेतसिकं वाति एत्थ पन चक्खादयो चत्तारो पसादकाये वत्थुं कत्वा उप्पत्तिवसेन कायिकन्ति वुत्तं. कायपसादवत्थुकं पन अदुक्खमसुखं नाम नत्थि.
९. कट्ठोपमसुत्तवण्णना
५०९. नवमे द्विन्नं कट्ठानन्ति द्विन्नं अरणीनं. सङ्घट्टनसमोधानाति सङ्घट्टनेन चेव समोधानेन च. उस्माति उसुमाकारो. तेजोति अग्गिधूमो. एत्थ च अधरारणी विय वत्थारम्मणं, उत्तरारणी विय फस्सो, सङ्घट्टो विय फस्ससङ्घट्टनं, अग्गि विय वेदना दट्ठब्बा. वत्थारम्मणं वा उत्तरारणी विय, फस्सो अधरारणी विय दट्ठब्बो.
१०. उप्पटिपाटिकसुत्तवण्णना
५१०. दसमं यथाधम्मरसेन पटिपाटिया वुत्तम्पि इमस्मिं इन्द्रियविभङ्गे सेससुत्तानि विय अदेसितत्ता उप्पटिपाटिकसुत्तं नामाति वेदितब्बं. तत्थ निमित्तन्तिआदीनि सब्बानि पच्चयवेवचनानेव. दुक्खिन्द्रियञ्च पजानातीति दुक्खसच्चवसेनेव पजानाति. दुक्खिन्द्रियसमुदयन्ति कण्टकेन वा विद्धस्स मङ्कुलेन वा दट्ठस्स पच्चत्थरणे वा वलिया फुट्ठस्स दुक्खसहगतं कायविञ्ञाणं उप्पज्जति, तं एतस्स समुदयोति पजानाति.
परतो दोमनस्सिन्द्रियसमुदयन्तिआदीसुपि तेसं तेसं कारणवसेनेव समुदयो वेदितब्बो. पत्तचीवरादीनं वा हि सङ्खारानं सद्धिविहारिकादीनं वा सत्तानं विनासेन दोमनस्सिन्द्रियं उप्पज्जतीति तेसं विनासं तस्स समुदयोति पजानाति. सुभोजनं भुञ्जित्वा वरसयने निपन्नस्स हत्थपादसम्बाहनतालवण्टवातादिसम्फस्सेन सुखिन्द्रियं उप्पज्जति, तं फस्सं तस्स समुदयोति पजानाति. वुत्तप्पकारानं पन सत्तसङ्खारानं मनापानं पटिलाभवसेन सोमनस्सिन्द्रियं उप्पज्जति, तं पटिलाभं तस्स समुदयोति पजानाति. मज्झत्ताकारेन पन उपेक्खिन्द्रियं उप्पज्जति, तं सत्तसङ्खारेसु मज्झत्ताकारं तस्स समुदयोति पजानाति.
कत्थ चुप्पन्नं दुक्खिन्द्रियं अपरिसेसं निरुज्झति, इध, भिक्खवे, भिक्खु विविच्चेव कामेहीतिआदीसु पन अयं एकतोव विनिच्छयकथा – दुक्खिन्द्रियञ्हि पठमज्झानस्स उपचारक्खणेयेव निरुज्झति पहीनं होति, दोमनस्सादीनि दुतियज्झानादीनं. एवं सन्तेपि तेसं अतिसयनिरोधत्ता अयं झानेसुयेव निरोधो वुत्तो. अतिसयनिरोधो हि तेसं पठमज्झानादीसु, न निरोधोयेव, निरोधोयेव पन उपचारक्खणे, नातिसयनिरोधो. तथा हि नानावज्जने पठमज्झानुपचारे निरुद्धस्सापि दुक्खिन्द्रियस्स डंसमकसादिसम्फस्सेन वा विसमासनुपतापेन वा सिया उप्पत्ति, न त्वेव अन्तोअप्पनायं. उपचारे वा निरुद्धम्पेतं न सुट्ठु निरुद्धं होति पटिपक्खेन अविहतत्ता. अन्तोअप्पनायं पन पीतिफरणेन सब्बो कायो सुखोक्कन्तो होति, सुखोक्कन्तकायस्स च सुट्ठु निरुद्धं होति दुक्खिन्द्रियं पटिपक्खेन विहतत्ता. नानावज्जनेयेव च दुतियज्झानुपचारे पहीनस्स दोमनस्सिन्द्रियस्स यस्मा एतं वितक्कविचारपच्चयेपि कायकिलमथे चित्तुपघाते च सति उप्पज्जति, वितक्कविचाराभावे नेव उप्पज्जति. यत्थ पन उप्पज्जति, तत्थ वितक्कविचारभावे, अप्पहीना एव च दुतियज्झानुपचारे वितक्कविचाराति तत्थस्स सिया उप्पत्ति. न त्वेव दुतियज्झाने पहीनपच्चयत्ता. तथा ततियज्झानुपचारे पहीनस्सापि सुखिन्द्रियस्स पीतिसमुट्ठानपणीतरूपफुट्ठकायस्स सिया उप्पत्ति, न त्वेव ततियज्झाने. ततियज्झाने हि सुखस्स पच्चयभूता पीति सब्बसो निरुद्धा. तथा चतुत्थज्झानुपचारे पहीनस्सापि सोमनस्सिन्द्रियस्स आसन्नत्ता अप्पनाप्पत्ताय उपेक्खाय अभावेन सम्मा अनतिक्कन्तत्ता च सिया उप्पत्ति, न त्वेव चतुत्थज्झाने. तस्मा ‘‘एत्थ चुप्पन्नं दुक्खिन्द्रियं अपरिसेसं निरुज्झती’’ति तत्थ तत्थ अपरिसेसग्गहणं कतं.
यं पनेत्थ तदत्थाय चित्तं उपसंहरतीति वुत्तं, तत्थ अलाभी समानो उप्पादनत्थाय चित्तं उपसंहरति, लाभी समानो समापज्जनत्थायाति एवमत्थो वेदितब्बो. इमेसु द्वीसुपि सुत्तेसु सम्मसनवारोव कथितोति.
सुखिन्द्रियवग्गो चतुत्थो.