९. गिलानसुत्तवण्णना
३७५. नवमे बेळुवगामकेति वेसालिया समीपे एवंनामको पादगामो अत्थि, तस्मिं. यथामित्तन्तिआदीसु मित्ताति मित्ताव. सन्दिट्ठाति तत्थ तत्थ सङ्गम्म दिट्ठमत्ता नातिदळ्हमित्ता. सम्भत्ताति सुट्ठु भत्ता सिनेहवन्तो दळ्हमित्ता. येसं यत्थ यत्थ एवरूपा भिक्खू अत्थि, ते तत्थ तत्थ वस्सं उपेथाति अत्थो. कस्मा एवमाह? तेसं फासुविहारत्थाय. तेसं किर बेळुवगामके सेनासनं नप्पहोति, भिक्खापि मन्दा. समन्ता वेसालिया पन बहूनि सेनासनानि, भिक्खापि सुलभा. तस्मा एवमाह.
अथ कस्मा ‘‘यथासुखं गच्छथा’’ति न विस्सज्जेसि? तेसं अनुकम्पाय. एवं किरस्स अहोसि – ‘‘अहं दसमासमत्तं ठत्वा परिनिब्बायिस्सामि. सचे इमे दूरं गच्छिस्सन्ति, मं परिनिब्बानकाले दट्ठुं न सक्खिस्सन्ति. अथ नेसं ‘सत्था परिनिब्बायन्तो अम्हाकं सतिमत्तम्पि न अदासि. सचे जानेय्याम, न एवं दूरे वसेय्यामा’ति विप्पटिसारो भवेय्य. वेसालिया समन्ता पन वस्सं वसन्ता मासस्स अट्ठ वारे आगन्त्वा धम्मं सुणिस्सन्ति, सुगतोवादं लभिस्सन्ती’’ति न विस्सज्जेसि.
खरोति फरुसो. आबाधोति विसभागरोगो. बाळ्हाति बलवतियो. मारणन्तिकाति मरणन्तं मरणसन्तिकं पापनसमत्था. सतो सम्पजानो अधिवासेसीति सतिं सूपट्ठितं कत्वा ञाणेन परिच्छिन्दित्वा अधिवासेसि. अविहञ्ञमानोति वेदनानुवत्तनवसेन अपरापरं परिवत्तनं अकरोन्तो अपीळियमानो अदुक्खियमानो च अधिवासेसि. अनामन्तेत्वाति अजानापेत्वा. अनपलोकेत्वाति अजानापेत्वाव ओवादानुसासनिं अदत्वाति वुत्तं होति. वीरियेनाति पुब्बभागवीरियेन चेव फलसमापत्तिवीरियेन च. पटिपणामेत्वाति विक्खम्भेत्वा. जीवितसङ्खारन्ति एत्थ जीवितम्पि जीवितसङ्खारो. येन जीवितं सङ्खरीयति छिज्जमानं घटेत्वा ठपीयति, सो फलसमापत्तिधम्मोपि जीवितसङ्खारो. सो इध अधिप्पेतो. अधिट्ठायाति अधिट्ठहित्वा पवत्तेत्वा जीवितठपनसमत्थं फलसमापत्तिं समापज्जेय्यन्ति अयमेत्थ सङ्खेपत्थो.
किं पन भगवा इतो पुब्बे फलसमापत्तिं न समापज्जतीति? समापज्जति. सा पन खणिकसमापत्ति. खणिकसमापत्ति च अन्तोसमापत्तियंयेव वेदनं विक्खम्भेति, समापत्तितो वुट्ठितमत्तस्स कट्ठपातेन वा कठलपातेन वा छिन्नसेवालो विय उदकं, पुन सरीरं वेदना अज्झोत्थरति. या पन रूपसत्तकं अरूपसत्तकञ्च निग्गुम्बं निज्जटं कत्वा महाविपस्सनावसेन समापन्ना समापत्ति, सा सुट्ठु विक्खम्भेति. यथा नाम पुरिसेन पोक्खरणिं ओगाहेत्वा हत्थेहि च पादेहि च सुट्ठु अपब्युळ्हसेवालो चिरेन उदकं ओत्थरति, एवमेव ततो वुट्ठितस्स चिरेन वेदना उप्पज्जति. इति भगवा तंदिवसं महाबोधिपल्लङ्के अभिनवं विपस्सनं पट्ठपेन्तो विय रूपसत्तकं अरूपसत्तकञ्च निग्गुम्बं निज्जटं कत्वा चुद्दसहाकारेहि सन्नेत्वा महाविपस्सनाय वेदनं विक्खम्भेत्वा ‘‘दसमासे मा उप्पज्जित्था’’ति समापत्तिं समापज्जि, समापत्तिविक्खम्भिता वेदना दस मासे न उप्पज्जियेव.
गिलाना वुट्ठितोति गिलानो हुत्वा पुन वुट्ठितो. मधुरकजातो वियाति सञ्जातगरुभावो सञ्जातथद्धभावो सूले उत्तासितपुरिसो विय. न पक्खायन्तीति न पकासन्ति, नानाकारतो न उपट्ठहन्ति. धम्मापि मं नप्पटिभन्तीति सतिपट्ठानधम्मा मय्हं पाकटा न होन्तीति दीपेति. तन्तिधम्मा पन थेरस्स सुप्पगुणा. न उदाहरतीति पच्छिमओवादं न देति, तं सन्धाय वदति.
अनन्तरं अबाहिरन्ति धम्मवसेन वा पुग्गलवसेन वा उभयं अकत्वा. ‘‘एत्तकं धम्मं परस्स न देसेस्सामी’’ति हि चिन्तेन्तो धम्मं अब्भन्तरं करोति नाम, ‘‘एत्तकं परस्स देसेस्सामी’’ति चिन्तेन्तो बाहिरं करोति नाम. ‘‘इमस्स पुग्गलस्स देसेस्सामी’’ति चिन्तेन्तो पन पुग्गलं अब्भन्तरं करोति नाम, ‘‘इमस्स न देसेस्सामी’’ति चिन्तेन्तो पुग्गलं बाहिरं करोति नाम. एवं अकत्वा देसितोति अत्थो. आचरियमुट्ठीति यथा बाहिरकानं आचरियमुट्ठि नाम होति, दहरकाले कस्सचि अकथेत्वा पच्छिमकाले मरणमञ्चे निपन्ना पियमनापस्स अन्तेवासिकस्स कथेन्ति, एवं तथागतस्स ‘‘इदं महल्लककाले पच्छिमठाने कथेस्सामी’’ति मुट्ठिं कत्वा परिहरित्वा ठपितं किञ्चि नत्थीति दस्सेति.
अहं भिक्खुसङ्घन्ति अहमेव भिक्खुसङ्घं परिहरिस्सामीति वा, ममुद्देसिकोति अहं उद्दिसितब्बट्ठेन उद्देसो अस्साति ममुद्देसिको, ममेव उद्दिस्सित्वा मं पच्चासीसमानो भिक्खुसङ्घो होतु मम अच्चयेन मा वा अहोसि, यं वा तं वा होतूति इति वा पन यस्स अस्साति अत्थो. न एवं होतीति बोधिपल्लङ्केयेव इस्सामच्छेरानं विगतत्ता एवं न होति. स किन्ति सो किं. आसीतिकोति असीतिसंवच्छरिको, इदं पच्छिमवयं अनुप्पत्तभावदीपनत्थं वुत्तं. वेठमिस्सकेनाति बाहबन्धचक्कबन्धादिना पटिसङ्खरणेन वेठमिस्सकेन. मञ्ञेति जरसकटं विय वेठमिस्सकेन मञ्ञे यापेति, अरहत्तफलवेठनेन चतुइरियापथकप्पनं तथागतस्स होतीति दस्सेति.
इदानि तमत्थं पकासेन्तो यस्मिं आनन्द समयेतिआदिमाह. तत्थ सब्बनिमित्तानन्ति रूपनिमित्तादीनं. एकच्चानं वेदनानन्ति लोकियानं वेदनानं. तस्मातिहानन्दाति यस्मा इमिना फलसमापत्तिविहारेन फासु होति, तस्मा तुम्हेपि तदत्थाय एवं विहरथाति दस्सेति. अत्तदीपाति महासमुद्दगता दीपं विय अत्तानं दीपं पतिट्ठं कत्वा विहरथ. अत्तसरणाति अत्तगतिकाव होथ, मा अञ्ञगतिका. धम्मदीपधम्मसरणपदेसुपि एसेव नयो. एत्थ च धम्मोति नवविधो लोकुत्तरधम्मो वेदितब्बो. तमतग्गेति तमअग्गे, मज्झे त-कारो पदसन्धिवसेन वुत्तो. इदं वुत्तं होति – इमे अग्गतमाति तमतग्गाति. एवं सब्बं तमसोतं छिन्दित्वा अतिविय अग्गे उत्तमभावे एते, आनन्द, मम भिक्खू भविस्सन्ति, तेसं अग्गे भविस्सन्ति. ये केचि सिक्खाकामा, सब्बेसं तेसं चतुसतिपट्ठानगोचराव भिक्खू अग्गे भविस्सन्तीति अरहत्तनिकूटेन देसनं गण्हीति.