६. अभयसुत्तवण्णना

२३७. छट्ठे अञ्ञाणाय अदस्सनायाति अञ्ञाणत्थाय अदस्सनत्थाय. तग्घ भगवा नीवरणाति एकंसेन भगवा नीवरणा. कायकिलमथोति कायदरथो. चित्तकिलमथोति चित्तदरथो. सोपि मे पटिप्पस्सद्धोति तस्स किर सत्थु सन्तिके सीतलं उतुसप्पायट्ठानं पविसित्वा निसिन्नस्स कायदरथो पटिपस्सम्भि, तस्मिं पटिपस्सद्धे तदन्वयेनेव चित्तदरथोपि. अपिच मग्गेनेवस्स एतं उभयम्पि पस्सद्धन्ति वेदितब्बं.