३. उदायिवग्गो

१-२. बोधायसुत्तादिवण्णना

२०२-२०३. ततियवग्गस्स पठमे कित्तावता नु खो, भन्ते, बोज्झङ्गाति वुच्चन्तीति भन्ते, कित्तकेन नु खो बुज्झनकअङ्गा नाम वुच्चन्तीति पुच्छति. बोधाय संवत्तन्तीति बुज्झनत्थाय संवत्तन्ति. इमस्मिं सुत्ते मिस्सकबोज्झङ्गा कथिता. दुतिये धम्मपरिच्छेदो कथितो.

३-५. ठानियसुत्तादिवण्णना

२०४-२०६. ततिये कामरागट्ठानियानन्ति कामरागस्स कारणभूतानं आरम्मणधम्मानं. ब्यापादट्ठानियादीसुपि एसेव नयो. सकलञ्हि इदं सुत्तं आरम्मणेनेव कथितं. पठमवग्गस्स दुतियसुत्ते वुत्तपरिच्छेदोपेत्थ लब्भतेव. चतुत्थे मिस्सकबोज्झङ्गा कथिता. पञ्चमे अपरिहानिये धम्मेति अपरिहानिकरे सभावधम्मे.

६-७. तण्हक्खयसुत्तादिवण्णना

२०७-२०८. छट्ठे एतदवोचाति ‘‘इमिस्सं परिसति निसिन्नो उदायित्थेरो नाम अनुसन्धिकुसलो भिक्खु अत्थि, सो मं पुच्छिस्सतीति भगवता ओसापितदेसनं ञत्वा देसनानुसन्धिं घटेस्सामी’’ति पुच्छन्तो एतं अवोच. विपुलन्तिआदि सब्बं सुभावितत्तं सन्धाय वुत्तं. सुभावितो हि सतिसम्बोज्झङ्गो विपुलो च महग्गतो च अप्पमाणो च अब्यापज्जो च नाम होति. सो हि पत्थटत्ता विपुलो, महन्तभावं गतत्ता महग्गतो, वड्ढिपमाणत्ता अप्पमाणो, नीवरणानं दूरीभावेन ब्यापादरहितत्ता अब्यापज्झो नाम होति. तण्हाय पहाना कम्मं पहीयतीति यं तण्हामूलकं कम्मं उप्पज्जेय्य, तं तण्हापहानेन पहीयति. कम्मस्स पहाना दुक्खन्ति यम्पि कम्ममूलकं वट्टदुक्खं उप्पज्जेय्य, तं कम्मपहानेन पहीयति. तण्हक्खयादयो तण्हादीनंयेव खया, अत्थतो पनेतेहि निब्बानं कथितन्ति वेदितब्बं. सत्तमं उत्तानमेव.

८. निब्बेधभागियसुत्तवण्णना

२०९. अट्ठमे निब्बेधभागियन्ति निब्बिज्झनकोट्ठासियं. सतिसम्बोज्झङ्गं भावितेनाति सतिसम्बोज्झङ्गेन भावितेन, सतिसम्बोज्झङ्गं वा भावेत्वा ठितेन, एवमेत्थ मग्गबोज्झङ्गा मिस्सका. तेहि भावितं, ते वा भावेत्वा ठितं चित्तं निब्बत्तितलोकुत्तरमेव. तम्पि पन मग्गनिस्सितं कत्वा मिस्सकमेव कथेतुं वट्टति.

९. एकधम्मसुत्तवण्णना

२१०. नवमे संयोजनविनिबन्धाति संयोजनसङ्खाता विनिबन्धा. अज्झोसानाति परिनिट्ठपेत्वा गहणा.

१०. उदायिसुत्तवण्णना

२११. दसमे अबहुकतोति अकतबहुमानो. उक्कुज्जावकुज्जन्ति एत्थ उक्कुज्जं वुच्चति उदयो, अवकुज्जं वयोति उदयब्बयवसेन परिवत्तेन्तो सम्मसन्तोति दीपेति. धम्मो च मे, भन्ते, अभिसमितोति विपस्सनाधम्मो अभिसमागतो. मग्गोति विपस्सनामग्गोव. सचे हि थेरो तस्मिं समये सोतापन्नो, उपरि तिण्णं मग्गानं अत्थाय, सचे अनागामी, अरहत्तमग्गस्स अत्थाय अयं विपस्सना वेदितब्बा. तथा तथा विहरन्तन्ति तेन तेनाकारेन विहरन्तं. तथत्तायाति तथाभावाय. खीणा जातीतिआदीहि तथत्तायाति अधिप्पेतं तथाभावं दस्सेति. पच्चवेक्खणत्थाय उपनीयतीति हि एत्थ अधिप्पायो, तं दस्सेन्तो एवमाह. सेसं सब्बत्थ उत्तानमेवाति.

उदायिवग्गो.