४. वत्थसुत्तवण्णना

१८५. चतुत्थे सतिसम्बोज्झङ्गो इति चे मे होतीति सतिसम्बोज्झङ्गोति एवं चे मय्हं होति. अप्पमाणोति मे होतीति अप्पमाणोति एवं मे होति. सुसमारद्धोति सुपरिपुण्णो. तिट्ठतीति एत्थ अट्ठहाकारेहि सतिसम्बोज्झङ्गो तिट्ठति – उप्पादं अनावज्जितत्ता अनुप्पादं आवज्जितत्ता सतिसम्बोज्झङ्गो तिट्ठति, पवत्तं, अप्पवत्तं, निमित्तं, अनिमित्तं सङ्खारे अनावज्जितत्ता, विसङ्खारं आवज्जितत्ता सतिसम्बोज्झङ्गो तिट्ठतीति. इमेहि अट्ठहाकारेहि तिट्ठतीति थेरो जानाति, वुत्ताकारविपरीतेहेव अट्ठहाकारेहि चवन्तं चवतीति पजानाति. सेसबोज्झङ्गेसुपि एसेव नयो.

इति इमस्मिं सुत्ते थेरस्स फलबोज्झङ्गा कथिता. यदा हि थेरो सतिसम्बोज्झङ्गं सीसं कत्वा फलसमापत्तिं समापज्जति, तदा इतरे छ तदन्वया होन्ति. यदा धम्मविचयादीसु अञ्ञतरं, तदापि सेसा तदन्वया होन्तीति एवं फलसमापत्तियं अत्तनो चिण्णवसितं दस्सेन्तो थेरो इमं सुत्तं कथेसीति.