१. नच्चगीतसुत्तवण्णना

११५१. सासनस्स अननुलोमत्ता विसूकं पटाणीभूतं दस्सनन्ति विसूकदस्सनं. अत्तना नच्चननच्चापनादिवसेन नच्चा च गीता च वादिता च अन्तमसो मयूरनच्चादिवसेनापि पवत्तानं नच्चादीनं विसूकभूता दस्सना चाति नच्चगीतवादितविसूकदस्सना. नच्चादीनि हि अत्तना पयोजेतुं वा परेहि पयोजापेतुं वा पयुत्तानि पस्सितुं वा नेव भिक्खूनं, न भिक्खुनीनं वट्टन्ति.