९. ततियआमकधञ्ञपेय्यालवग्गो
१. नच्चगीतसुत्तवण्णना
११५१. सासनस्स अननुलोमत्ता विसूकं पटाणीभूतं दस्सनन्ति विसूकदस्सनं. अत्तना नच्चननच्चापनादिवसेन नच्चा च गीता च वादिता च अन्तमसो मयूरनच्चादिवसेनापि पवत्तानं नच्चादीनं विसूकभूता दस्सना चाति नच्चगीतवादितविसूकदस्सना. नच्चादीनि हि अत्तना पयोजेतुं वा परेहि पयोजापेतुं वा पयुत्तानि पस्सितुं वा नेव भिक्खूनं, न भिक्खुनीनं वट्टन्ति.
२. उच्चासयनसुत्तवण्णना
११५२. उच्चासयनं वुच्चति पमाणातिक्कन्तं. महासयनं अकप्पियत्थरणं, ततो पटिविरताति अत्थो.
३. जातरूपसुत्तवण्णना
११५३. जातरूपन्ति सुवण्णं. रजतन्ति कहापणो – लोहमासको, जतुमासको, दारुमासकोति ये वोहारं गच्छन्ति, तस्स उभयस्सापि पटिग्गहणा पटिविरता. नेव नं उग्गण्हन्ति न उग्गण्हापेन्ति, न उपनिक्खित्तं सादियन्तीति अत्थो.
४. आमकधञ्ञसुत्तवण्णना
११५४. आमकधञ्ञपटिग्गहणाति सालि-वीहि-यव-गोधुम-कङ्गु-वरक-कुद्रूसकसङ्खातस्स सत्तविधस्सापि आमकधञ्ञस्स पटिग्गहणा. न केवलञ्च एतेसं पटिग्गहणमेव, आमसनम्पि भिक्खूनं न वट्टतियेव.
५. आमकमंससुत्तवण्णना
११५५. आमकमंसपटिग्गहणाति एत्थ अञ्ञत्र उद्दिस्स अनुञ्ञाता आमकमंसमच्छानं पटिग्गहणमेव भिक्खूनं न वट्टति, नो आमसनं.
६. कुमारिकसुत्तवण्णना
११५६. इत्थिकुमारिकपटिग्गहणाति एत्थ इत्थीति पुरिसन्तरगता, इतरा कुमारिका नाम. तासं पटिग्गहणम्पि आमसनम्पि अकप्पियमेव.
७. दासिदाससुत्तवण्णना
११५७. दासिदासपटिग्गहणाति एत्थ दासिदासवसेनेव तेसं पटिग्गहणं न वट्टति, ‘‘कप्पियकारकं दम्मि, आरामिकं दम्मी’’ति एवं वुत्ते पन वट्टति.