५. वालसुत्तवण्णना

१११५. पञ्चमे सन्थागारेति सिप्पुग्गण्हनसालायं. उपासनं करोन्तेति कण्डखिपनसिप्पं करोन्ते. असनं अतिपातेन्तेति कण्डं अतिक्कमेन्ते. पोङ्खानुपोङ्खन्ति एकं कण्डं खिपित्वा यथा अस्स सरस्स पोङ्खं विज्झति, अपरं अनुपोङ्खं नाम दुतियस्स पोङ्खं, पुन अपरं तस्स पोङ्खन्ति एवं अतिपातेन्ते अद्दस. यत्र हि नामाति ये नाम. दुरभिसम्भवतरन्ति दुक्करतरं. सत्तधा भिन्नस्स वालस्स कोटिया कोटिं पटिविज्झेय्याति एकं वालं सत्तधा भिन्दित्वा, तस्स एकं भेदं गहेत्वा, वातिङ्गणमज्झे बन्धित्वा, अपरं भेदं कण्डस्स अग्गकोटियं बन्धित्वा, उसभमत्ते ठितो कण्डबद्धाय कोटिया तं वातिङ्गणबद्धकोटिं पटिविज्झेय्याति अत्थो. तस्माति यस्मा एवं दुप्पटिविज्झानि चत्तारि सच्चानि, तस्मा.