९. वेसालीसुत्तवण्णना
९८५. नवमे वेसालियन्ति एवंनामके इत्थिलिङ्गवसेन पवत्तवोहारे नगरे. तञ्हि नगरं तिक्खत्तुं पाकारपरिक्खेपवड्ढनेन विसालीभूतत्ता वेसालीति वुच्चति. इदम्पि च नगरं सब्बञ्ञुतं पत्तेयेव सम्मासम्बुद्धे सब्बाकारवेपुल्लतं पत्तन्ति वेदितब्बं. एवं गोचरगामं दस्सेत्वा निवासट्ठानमाह महावने कूटागारसालायन्ति. तत्थ महावनं नाम सयंजातं अरोपिमं सपरिच्छेदं महन्तं वनं. कपिलवत्थुसामन्ता पन महावनं हिमवन्तेन सह एकाबद्धं अपरिच्छेदं हुत्वा महासमुद्दं आहच्च ठितं. इदं तादिसं न होति, सपरिच्छेदं महन्तं वनन्ति महावनं. कूटागारसाला पन महावनं निस्साय कते आरामे कूटागारं अन्तोकत्वा हंसवट्टकच्छन्नेन कता सब्बाकारसम्पन्ना बुद्धस्स भगवतो गन्धकुटीति वेदितब्बा.
अनेकपरियायेन असुभकथं कथेतीति अनेकेहि कारणेहि असुभाकारसन्दस्सनप्पवत्तं कायविच्छन्दनीयकथं कथेति. सेय्यथिदं – अत्थि इमस्मिं काये केसा लोमा नखा दन्ता…पे… मुत्तन्ति. किं वुत्तं होति? भिक्खवे, इमस्मिं ब्याममत्ते कळेवरे सब्बाकारेनपि विचिनन्तो न कोचि किञ्चि मुत्तं वा मणिं वा वेळुरियं वा अगरुं वा चन्दनं वा कुङ्कुमं वा कप्पुरं वा वासचुण्णादिं वा अणुमत्तम्पि सुचिभावं पस्सति, अथ खो परमदुग्गन्धं जेगुच्छअस्सिरिकदस्सनं केसलोमादिनानप्पकारं असुचिमेव पस्सति, तस्मा न एत्थ छन्दो वा रागो वा करणीयो. येपि उत्तमङ्गे सिरसि जाता केसा नाम, तेपि असुभा चेव असुचिनो च पटिकूला च. सो च नेसं असुभासुचिपटिकूलभावो वण्णतोपि सण्ठानतोपि गन्धतोपि आसयतोपि ओकासतोपीति पञ्चहाकारेहि वेदितब्बो. एवं लोमादीनम्पीति अयमेत्थ सङ्खेपो, वित्थारो पन विसुद्धिमग्गे (विसुद्धि. १.३०७) वुत्तनयेनेव वेदितब्बो. इति भगवा एकमेकस्मिं कोट्ठासे पञ्चपञ्चप्पभेदेन अनेकपरियायेन असुभकथं कथेति.
असुभाय वण्णं भासतीति उद्धुमातकादिवसेन असुभमातिकं निक्खिपित्वा पदभाजनीयेन तं विभजन्तो वण्णेन्तो असुभाय वण्णं भासति. असुभभावनाय वण्णं भासतीति या अयं केसादीसु वा उद्धुमातकादीसु वा अज्झत्तबहिद्धावत्थूसु असुभाकारं गहेत्वा पवत्तस्स चित्तस्स भावना वड्ढना फातिकम्मं, तस्सा असुभभावनाय आनिसंसं दस्सेन्तो वण्णं भासति, गुणं परिकित्तेति. सेय्यथिदं – ‘‘असुभभावनाभियुत्तो, भिक्खवे, भिक्खु केसादीसु वा वत्थूसु उद्धुमातकादीसु वा पञ्चङ्गविप्पहीनं पञ्चङ्गसमन्नागतं तिविधकल्याणं दसलक्खणसम्पन्नं पठमज्झानं पटिलभति. सो तं पठमज्झानसङ्खातं चित्तमञ्जूसं निस्साय विपस्सनं वड्ढेत्वा उत्तमत्थं अरहत्तं पापुणाती’’ति.
इच्छामहं, भिक्खवे, अड्ढमासं पटिसल्लीयितुन्ति अहं, भिक्खवे, एकं अड्ढमासं पटिसल्लीयितुं निलीयितुं एककोव हुत्वा विहरितुं इच्छामीति अत्थो. नाम्हि केनचि उपसङ्कमितब्बो अञ्ञत्र एकेन पिण्डपातनीहारकेनाति यो अत्तना पयुत्तवाचं अकत्वा ममत्थाय सद्धेसु कुलेसु पटियत्तपिण्डपातं नीहरित्वा मय्हं उपनामेति, तं पिण्डपातनीहारकं एकं भिक्खुं ठपेत्वा नाम्हि अञ्ञेन केनचि भिक्खुना वा गहट्ठेन वा उपसङ्कमितब्बोति.
कस्मा पन एवमाहाति? अतीते किर पञ्चसता मिगलुद्दका महतीहि दण्डवागुरादीहि अरञ्ञं परिक्खिपित्वा हट्ठतुट्ठा एकतोयेव यावजीवं मिगपक्खिघातकम्मेन जीविकं कप्पेत्वा निरये उप्पन्ना. ते तत्थ पच्चित्वा पुब्बे कतेन केनचिदेव कुसलकम्मेन मनुस्सेसु उप्पन्ना कल्याणूपनिस्सयवसेन सब्बेपि भगवतो सन्तिके पब्बज्जञ्च उपसम्पदञ्च लभिंसु. तेसं ततो मूलाकुसलकम्मतो अविपक्कविपाका अपरापरचेतना तस्मिं अड्ढमासब्भन्तरे अत्तूपक्कमेन च परूपक्कमेन च जीवितूपच्छेदाय ओकासमकासि. तं भगवा अद्दस. कम्मविपाको च नाम न सक्का केनचि पटिबाहितुं. तेसु च भिक्खूसु पुथुज्जनापि अत्थि, सोतापन्नसकदागामिअनागामिखीणासवापि. तत्थ खीणासवा अप्पटिसन्धिका, इतरे अरियसावका नियतगतिका सुगतिपरायणा, पुथुज्जनानं गति अनियता.
अथ भगवा चिन्तेसि – ‘‘इमे अत्तभावे छन्दरागेन मरणभयभीता न सक्खिस्सन्ति गतिं विसोधेतुं, हन्द नेसं छन्दरागप्पहानाय असुभकथं कथेमि. तं सुत्वा अत्तभावे विगतच्छन्दरागताय गतिविसोधनं कत्वा सग्गे पटिसन्धिं गण्हिस्सन्ति, एवं तेसं मम सन्तिके पब्बज्जा सात्थिका भविस्सती’’ति. ततो तेसं अनुग्गहाय असुभकथं कथेसि कम्मट्ठानसीसेन, नो मरणवण्णसंवण्णनाधिप्पायेन. कथेत्वा च पनस्स एतदहोसि – ‘‘सचे इमं अड्ढमासं मं भिक्खू पस्सिस्सन्ति, ‘अज्ज एको भिक्खु मतो, अज्ज द्वे…पे… अज्ज दसा’ति आगन्त्वा आरोचेस्सन्ति, अयञ्च कम्मविपाको न सक्का मया वा अञ्ञेन वा पटिबाहितुं, स्वाहं तं सुत्वापि किं करिस्सामि, किं मे अनत्थकेन अनयब्यसनेन सुतेन, हन्दाहं भिक्खूनं अदस्सनं उपगच्छामी’’ति. तस्मा एवमाह – ‘‘इच्छामहं, भिक्खवे, अड्ढमासं पटिसल्लीयितुं, नाम्हि केनचि उपसङ्कमितब्बो अञ्ञत्र एकेन पिण्डपातनीहारकेना’’ति.
अपरे पनाहु – ‘‘परूपवादविवज्जनत्थं एवं वत्वा पटिसल्लीनो’’ति. परे किर भगवन्तं उपवदिस्सन्ति – ‘‘अयं ‘सब्बञ्ञू अहं सद्धम्मवरचक्कवत्ती’ति पटिजानमानो अत्तनोपि सावके अञ्ञमञ्ञं घातेन्ते निवारेतुं न सक्कोति, किं अञ्ञं सक्खिस्सती’’ति? तत्र पण्डिता वक्खन्ति – ‘‘भगवा पटिसल्लानमनुयुत्तो न इमं पवत्तिं जानाति, कोचिस्स आरोचयितापि नत्थि, सचे जानेय्य अद्धा निवारेय्या’’ति. इदं पन इच्छामत्तं, पठममेवेत्थ कारणं. नास्सुधाति एत्थ अस्सुधाति पदपूरणमत्ते अवधारणत्थे वा निपातो, नेव कोचि भगवन्तं उपसङ्कमीति अत्थो.
अनेकेहि वण्णसण्ठानादीहि कारणेहि वोकारो अस्साति अनेकाकारवोकारो. अनेकाकारवोकिण्णो अनेकाकारेन सम्मिस्सोति वुत्तं होति. को सो? असुभभावनानुयोगो, तं अनेकाकारवोकारं. असुभभावनानुयोगमनुयुत्ता विहरन्तीति युत्तप्पयुत्ता विहरन्ति. अट्टीयमानाति तेन कायेन अट्टा दुक्खिता होन्ति. हरायमानाति लज्जमाना. जिगुच्छमानाति जिगुच्छं उप्पादयमाना. सत्थहारकं परियेसन्तीति जीवितहरणकसत्थं परियेसन्ति. न केवलञ्च ते सत्थं परियेसित्वा अत्तना वा अत्तानं जीविता वोरोपेन्ति, मिगलण्डिकम्पि पन समणकुत्तकं उपसङ्कमित्वा, ‘‘साधु नो, आवुसो, जीविता वोरोपेही’’ति वदन्ति. एत्थ च अरिया नेव पाणातिपातं करिंसु, न समादपेसुं, न समनुञ्ञा अहेसुं. पुथुज्जना पन सब्बमकंसु.
पटिसल्लाना वुट्ठितोति तेसं पञ्चन्नं भिक्खुसतानं जीवितक्खयप्पत्तभावं ञत्वा ततो एकीभावतो वुट्ठितो जानन्तोपि अजानन्तो विय कथासमुट्ठापनत्थं आयस्मन्तं आनन्दं आमन्तेसि. किं नु खो, आनन्द, तनुभूतो विय भिक्खुसङ्घोति इतो, आनन्द, पुब्बे बहू भिक्खू एकतो उपट्ठानं आगच्छन्ति, उद्देसं परिपुच्छं गण्हन्ति, सज्झायन्ति, एकपज्जोतो विय आरामो दिस्सति. इदानि पन अड्ढमासमत्तस्स अच्चयेन तनुभूतो विय तनुको मन्दो अप्पको विरळो विय जातो भिक्खुसङ्घो. किं नु खो कारणं? किं दिसासु पक्कन्ता भिक्खूति?
अथायस्मा आनन्दो कम्मविपाकेन तेसं जीवितक्खयप्पत्तिं असल्लक्खेन्तो असुभकम्मट्ठानानुयोगपच्चया पन सल्लक्खेन्तो तथा हि पन, भन्ते भगवातिआदिं वत्वा भिक्खूनं अरहत्तप्पत्तिया अञ्ञं कम्मट्ठानं याचन्तो, साधु, भन्ते, भगवातिआदिमाह. तस्सत्थो – साधु, भन्ते, भगवा अञ्ञं कारणं आचिक्खतु, येन भिक्खुसङ्घो अरहत्ते पतिट्ठहेय्य. महासमुद्दं ओरोहणतित्थानि विय अञ्ञानिपि दसानुस्सति, दसकसिण, चतुधातुववत्थान, ब्रह्मविहार, आनापानस्सतिपभेदानि बहूनि निब्बानोरोहणकम्मट्ठानानि सन्ति, तेसु भगवा भिक्खू समस्सासेत्वा अञ्ञतरं कम्मट्ठानं आचिक्खतूति अधिप्पायो.
अथ भगवा तथा कातुकामो थेरं उय्योजेन्तो तेनहानन्दातिआदिमाह. तत्थ वेसालिं उपनिस्सायाति वेसालियं उपनिस्साय समन्ता गावुतेपि अड्ढयोजनेपि यावतिका विहरन्ति, ते सब्बे सन्निपातेहीति अत्थो. सब्बे उपट्ठानसालायं सन्निपातेत्वाति अत्तना गन्तुं युत्तट्ठानं सयं गन्त्वा अञ्ञत्थ दहरभिक्खू पहिणित्वा मुहुत्तेनेव अनवसेसे भिक्खू उपट्ठानसालायं समूहं कत्वा. यस्सदानि, भन्ते, भगवा कालं मञ्ञतीति एत्थ अयमधिप्पायो – भगवा भिक्खुसङ्घो सन्निपतितो, एस कालो भिक्खूनं धम्मकथं कातुं, अनुसासनिं दातुं, इदानि यस्स तुम्हे कालं जानाथ, तं कातब्बन्ति.
अथ खो भगवा भिक्खू आमन्तेसि, अयम्पि खो, भिक्खवेति. आमन्तेत्वा च पन भिक्खूनं अरहत्तप्पत्तिया पुब्बे आचिक्खितअसुभकम्मट्ठानतो अञ्ञं परियायं आचिक्खन्तो आनापानस्सतिसमाधीतिआदिमाह. तत्थ आनापानस्सतिसमाधीति आनापानपरिग्गाहिकाय सतिया सद्धिं सम्पयुत्तो समाधि, आनापानस्सतियं वा समाधि, आनापानस्सतिसमाधि. भावितोति उप्पादितो वड्ढितो वा. बहुलीकतोति पुनप्पुनं कतो. सन्तो चेव पणीतो चाति सन्तो चेव पणीतो चेव. उभयत्थ एवसद्देन नियमो वेदितब्बो. किं वुत्तं होति? अयञ्हि यथा असुभकम्मट्ठानं केवलं पटिवेधवसेन सन्तञ्च पणीतञ्च, ओळारिकारम्मणत्ता पन पटिकूलारम्मणत्ता च आरम्मणवसेन नेव सन्तं न पणीतं, न एवं केनचि परियायेन असन्तो वा अप्पणीतो वा, अपिच खो आरम्मणसन्ततायपि सन्तो वूपसन्तो निब्बुतो, पटिवेधसङ्खाताय अङ्गसन्ततायपि, आरम्मणपणीतताय पणीतो अतित्तिकरो, अङ्गपणीततायपीति. तेन वुत्तं ‘‘सन्तो चेव पणीतो चा’’ति.
असेचनको च सुखो च विहारोति एत्थ पन नास्स सेचनन्ति असेचनको, अनासित्तको अब्बोकिण्णो पाटियेक्को आवेणिको, नत्थि एत्थ परिकम्मेन वा उपचारेन वा सन्तता, आदिसमन्नाहारतो पभुति अत्तनो सभावेनेव सन्तो च पणीतो चाति अत्थो. केचि ‘‘असेचनको’’ति अनासित्तको ओजवन्तो, सभावेनेव मधुरो’’ति वदन्ति. एवमयं असेचनको च अप्पितप्पितक्खणे कायिकचेतसिकसुखप्पटिलाभाय संवत्तनतो सुखो च विहारोति वेदितब्बो.
उप्पन्नुप्पन्नेति अविक्खम्भिते. पापकेति लामके. अकुसले धम्मेति अकोसल्लसम्भूते धम्मे. ठानसो अन्तरधापेतीति खणेनेव अन्तरधापेति विक्खम्भेति. वूपसमेतीति सुट्ठु उपसमेति, निब्बेधभागियत्ता अनुपुब्बेन अरियमग्गवुद्धिप्पत्तो समुच्छिन्दति, पटिप्पस्सम्भेतीति वुत्तं होति. गिम्हानं पच्छिमे मासेति आसाळ्हमासे. ऊहतं रजोजल्लन्ति अट्ठ मासे वातातपसुक्खाय गोमहिंसादिपादप्पहारसम्भिन्नाय पथविया उद्धं हतं ऊहतं आकासे समुट्ठितं रजञ्च रेणुञ्च. महा अकालमेघोति सब्बं नभं अज्झोत्थरित्वा उट्ठितो आसाळ्हजुण्हपक्खे सकलं अड्ढमासं वस्सनकमेघो. सो हि असम्पत्ते वस्सकाले उप्पन्नत्ता अकालमेघोति इध अधिप्पेतो. ठानसो अन्तराधापेति वूपसमेतीति खणेनेव अदस्सनं नेति पथवियं सन्निसीदापेति. एवमेव खोति ओपम्मनिदस्सनमेतं. ततो परं वुत्तनयमेव.