७. आकाससुत्तवण्णना
१५५. पुरत्थिमाति पुरत्थिमदिसतो आगतवाता. पच्छिमदिसादीसुपि एसेव नयो. चत्तारोपि सतिपट्ठानाति यथेव हि एतेसं पुरत्थिमादिभेदानं वातानं सन्निपातो आकासे इज्झति, एवं इधापि ‘‘चत्तारो सतिपट्ठाना’’तिआदिना नयेन वुत्ता बोधिपक्खियधम्मा सहविपस्सनस्स अरियमग्गस्स भावनाय इज्झन्ति, तेनेतं वुत्तं.