२. तालपुटसुत्तवण्णना

३५४. दुतिये तालपुटोति एवंनामको. तस्स किर बन्धना पमुत्ततालपक्कवण्णो विय मुखवण्णो विप्पसन्नो अहोसि, तेनस्स तालपुटोति नामं अकंसु. स्वायं अभिनीहारसम्पन्नो पच्छिमभविकपुग्गलो. यस्मा पन पटिसन्धि नाम अनियता आकासे खित्तदण्डसदिसा, तस्मा एस नटकुले निब्बत्ति. वुड्ढिप्पत्तो पन नटसिप्पे अग्गो हुत्वा सकलजम्बुदीपे पाकटो जातो. तस्स पञ्च सकटसतानि पञ्च मातुगामसतानि परिवारो, भरियायपिस्स तावतकावाति मातुगामसहस्सेन चेव सकटसहस्सेन च सद्धिं यं यं नगरं वा निगमं वा पविसति, तत्थस्स पुरेतरमेव सतसहस्सं देन्ति. समज्जवेसं गण्हित्वा पन मातुगामसहस्सेन सद्धिं कीळं करोन्तस्स यं हत्थूपगपादूपगादिआभरणजातं खिपन्ति, तस्स परियन्तो नत्थि. सो तंदिवसं मातुगामसहस्सपरिवारितो राजगहे कीळं कत्वा परिपक्कञाणत्ता सपरिवारोव येन भगवा तेनुपसङ्कमि.

सच्चालिकेनाति सच्चेन च अलिकेन च. तिट्ठतेतन्ति तिट्ठतु एतं. रजनीयाति रागप्पच्चया मुखतो पञ्चवण्णसुत्तनीहरणवातवुट्ठिदस्सनादयो अञ्ञे च कामस्सादसंयुत्ताकारदस्सनका अभिनया. भिय्योसोमत्तायाति अधिकप्पमाणत्ताय. दोसनीयाति दोसप्पच्चया हत्थपादच्छेदादिदस्सनाकारा. मोहनीयाति मोहप्पच्चया उदकं गहेत्वा तेलकरणं, तेलं गहेत्वा उदककरणन्ति एवमादयो मायापभेदा.

पहासो नाम निरयोति विसुं पहासनामको निरयो नाम नत्थि, अवीचिस्सेव पन एकस्मिं कोट्ठासे नच्चन्ता विय गायन्ता विय च नटवेसं गहेत्वाव पच्चन्ति, तं सन्धायेतं वुत्तं. नाहं, भन्ते, एतं रोदामीति अहं, भन्ते, एतं भगवतो ब्याकरणं न रोदामीति एवं सकम्मकवसेनेत्थ अत्थो वेदितब्बो, न अस्सुविमोचनमत्तेन. ‘‘मतं वा अम्मरोदन्ती’’तिआदयो चेत्थ अञ्ञेपि वोहारा वेदितब्बा.