३-५. योधाजीवसुत्तादिवण्णना
३५५-३५७. ततिये योधाजीवोति युद्धेन जीविकं कप्पनको धम्मसङ्गाहकत्थेरेहि एवं गहितनामो. उस्सहति वायमतीति उस्साहं वायामं करोति. परियापादेन्तीति मरणं पटिपज्जापेन्ति. दुक्कटन्ति दुट्ठु कतं. दुप्पणिहितन्ति दुट्ठु ठपितं. परजितो नाम निरयोति अयम्पि न विसुं एको निरयो, अवीचिस्सेव पन एकस्मिं कोट्ठासे पञ्चावुधसन्नद्धा फलकहत्था हत्थिअस्सरथे आरुय्ह सङ्गामे युज्झन्ता विय पच्चन्ति, तं सन्धायेतं वुत्तं. चतुत्थपञ्चमेसुपि एसेव नयो.