११. भद्रकसुत्तवण्णना

३६३. एकादसमे मल्लेसूति एवंनामके जनपदे. वधेनाति मारणेन. जानियाति धनजानिया. अकालिकेन पत्तेनाति न कालन्तरेन पत्तेन, कालं अनतिक्कमित्वाव पत्तेनाति अत्थो. चिरवासी नाम कुमारोति एवंनामको तस्स पुत्तो. बहि आवसथे पटिवसतीति बहिनगरे किञ्चिदेव सिप्पं उग्गण्हन्तो वसति. इमस्मिं सुत्ते वट्टदुक्खं कथितं.