१२. रासियसुत्तवण्णना

३६४. द्वादसमे रासियोति रासिं कत्वा पञ्हस्स पुच्छितत्ता रासियोति एवं धम्मसङ्गाहकत्थेरेहि गहितनामो. तपस्सिन्ति तपनिस्सितकं. लूखजीविन्ति लूखजीविकं. अन्ताति कोट्ठासा. गामोति गाम्मो. गम्मोतिपि पाठो, गामवासीनं धम्मोति अत्थो. अत्तकिलमथानुयोगोति अत्तनो किलमथानुयोगो, सरीरदुक्खकरणन्ति अत्थो.

कस्मा पनेत्थ कामसुखल्लिकानुयोगो गहितो, कस्मा अत्तकिलमथानुयोगो, कस्मा मज्झिमा पटिपदाति? कामसुखल्लिकानुयोगो ताव कामभोगीनं दस्सनत्थं गहितो, अत्तकिलमथानुयोगो तपनिस्सितकानं, मज्झिमा पटिपदा तिण्णं निज्जरवत्थूनं दस्सनत्थं गहिता. किं एतेसं दस्सने पयोजनन्ति? इमे द्वे अन्ते पहाय तथागतो मज्झिमाय पटिपदाय सम्मासम्बोधिं पत्तो. सो कामभोगिनोपि न सब्बे गरहति न पसंसति, तपनिस्सितकेपि न सब्बे गरहति न पसंसति, गरहितब्बयुत्तकेयेव गरहति, पसंसितब्बयुत्तके पसंसतीति इमस्सत्थस्स पकासनं एतेसं दस्सने पयोजनन्ति वेदितब्बं.

इदानि तमत्थं पकासेन्तो तयो खोमे, गामणि, कामभोगिनोतिआदिमाह. तत्थ साहसेनाति साहसिककम्मेन. न संविभजतीति मित्तसहायसन्दिट्ठसम्भत्तानं संविभागं न करोति. न पुञ्ञानि करोतीति अनागतभवस्स पच्चयभूतानि पुञ्ञानि न करोति. धम्माधम्मेनाति धम्मेन च अधम्मेन च. ठानेहीति कारणेहि. सच्छिकरोतीति कथं अत्तानं आतापेन्तो परितापेन्तो सच्छिकरोति? चतुरङ्गवीरियवसेन च धुतङ्गवसेन च. तिस्सो सन्दिट्ठिका निज्जराति एत्थ एकोपि मग्गो तिण्णं किलेसानं निज्जरणताय तिस्सो निज्जराति वुत्तोति.