६. दुतियकामभूसुत्तवण्णना

३४८. छट्ठे कति नु खो भन्ते सङ्खाराति अयं किर, गहपति, निरोधं वलञ्जेति, तस्मा ‘‘निरोधपादके सङ्खारे पुच्छिस्सामी’’ति चिन्तेत्वा एवमाह. थेरोपिस्स अधिप्पायं ञत्वा पुञ्ञाभिसङ्खारादीसु अनेकेसु सङ्खारेसु विज्जमानेसुपि कायसङ्खारादयोव आचिक्खन्तो तयो खो गहपतीतिआदिमाह. तत्थ कायप्पटिबद्धत्ता कायेन सङ्खरीयति निब्बत्तीयतीति कायसङ्खारो. वाचाय सङ्खरोति निब्बत्तेतीति वचीसङ्खारो. चित्तप्पटिबद्धत्ता चित्तेन सङ्खरीयति निब्बत्तीयतीति चित्तसङ्खारो.

कतमो पन भन्तेति इध किं पुच्छति? ‘‘इमे सङ्खारा अञ्ञमञ्ञं मिस्सा आलुळिता अविभूता दुद्दीपना. तथा हि कायद्वारे आदानग्गहणमुञ्चनचोपनानि पापेत्वा उप्पन्ना अट्ठ कामावचरकुसलचेतना द्वादस अकुसलचेतनाति एवं कुसलाकुसला वीसति चेतनापि, अस्सासपस्सासापि कायसङ्खारोत्वेव वुच्चन्ति. वचीद्वारे हनुसञ्चोपनं वचीभेदं पापेत्वा उप्पन्ना वुत्तप्पकाराव वीसति चेतनापि वितक्कविचारापि वचीसङ्खारोत्वेव वुच्चन्ति. कायवचीद्वारेसु चोपनं अपत्वा रहो निसिन्नस्स चिन्तयतो उप्पन्ना कुसलाकुसला एकूनतिंसचेतनापि, सञ्ञा च वेदना चाति इमे द्वे धम्मापि चित्तसङ्खारोत्वेव वुच्चन्ति. एवं इमे सङ्खारा अञ्ञमञ्ञं मिस्सा आलुळिता अविभूता दुद्दीपना, ते पाकटे विभूते कत्वा कथापेस्सामी’’ति पुच्छि.

कस्मा पन भन्तेति इध कायसङ्खारादिनामस्स पदत्थं पुच्छति. तस्स विस्सज्जने कायप्पटिबद्धाति कायनिस्सिता. काये सति होन्ति, असति न होन्ति. चित्तप्पटिबद्धाति चित्तनिस्सिता. चित्ते सति होन्ति, असति न होन्ति.

इदानि ‘‘किं नु खो एस सञ्ञावेदयितनिरोधं वलञ्जेति, नो वलञ्जेति, चिण्णवसी वा तत्थ नो चिण्णवसी’’ति जाननत्थं पुच्छन्तो कथं पन भन्ते सञ्ञावेदयितनिरोधसमापत्ति होतीति आह. तस्स विस्सज्जने समापज्जिस्सन्ति वा समापज्जामीति वा पदद्वयेन नेवसञ्ञानासञ्ञायतनसमापत्तिकालो कथितो. समापन्नोति पदेन अन्तोनिरोधो. तथा पुरिमेहि द्वीहि पदेहि सचित्तककालो कथितो, पच्छिमेन अचित्तककालो.

पुब्बेव तथा चित्तं भावितं होतीति निरोधसमापत्तितो पुब्बे अद्धानपरिच्छेदकालेयेव ‘‘एत्तकं कालं अचित्तको भविस्सामी’’ति अद्धानपरिच्छेदं चित्तं भावितं होति. यं तं तथत्ताय उपनेतीति यं पन एवं भावितं चित्तं, तं पुग्गलं तथत्ताय अचित्तकभावाय उपनेति. वचीसङ्खारो पठमं निरुज्झतीति सेससङ्खारेहि पठमं दुतियज्झानेयेव निरुज्झति. ततो कायसङ्खारोति ततो परं कायसङ्खारो चतुत्थज्झाने निरुज्झति. ततो चित्तसङ्खारोति ततो परं चित्तसङ्खारो अन्तोनिरोधे निरुज्झति. आयूति रूपजीवितिन्द्रियं. विपरिभिन्नानीति उपहतानि विनट्ठानि.

तत्थ केचि ‘‘निरोधसमापन्नस्स ‘चित्तसङ्खारो च निरुद्धो’ति वचनतो चित्तं अनिरुद्धं होति, तस्मा सचित्तकापि अयं समापत्ती’’ति वदन्ति. ते वत्तब्बा – ‘‘वचीसङ्खारोपिस्स निरुद्धो’’ति वचनतो वाचा अनिरुद्धा होति, तस्मा निरोधसमापन्नेन धम्मम्पि कथेन्तेन सज्झायम्पि करोन्तेन निसीदितब्बं सिया. यो चायं मतो कालङ्कतो, तस्सापि चित्तसङ्खारो निरुद्धोति वचनतो चित्तं अनिरुद्धं भवेय्य, तस्मा कालङ्कते मातापितरो वा अरहन्ते वा झापेन्तेन आनन्तरियकम्मं कतं भवेय्य. इति ब्यञ्जने अभिनिवेसं अकत्वा आचरियानं नये ठत्वा अत्थो उपपरिक्खितब्बो. अत्थो हि पटिसरणं, न ब्यञ्जनं.

इन्द्रियानि विप्पसन्नानीति किरियमयपवत्तस्मिञ्हि वत्तमाने बहिद्धारम्मणेसु पसादे घट्टेन्तेसु इन्द्रियानि किलमन्ति, उपहतानि मक्खित्तानि विय होन्ति वातादीहि उट्ठितरजेन चतुमहापथे ठपितआदासो विय. यथा पन थविकाय पक्खिपित्वा मञ्जूसादीसु ठपितो आदासो अन्तोयेव विरोचति, एवं निरोधसमापन्नस्स भिक्खुनो अन्तोनिरोधे पञ्च पसादा अतिविय विरोचन्ति. तेन वुत्तं ‘‘इन्द्रियानि विप्पसन्नानी’’ति.

वुट्ठहिस्सन्ति वा वुट्ठहामीति वा पदद्वयेन अन्तोनिरोधकालो कथितो, वुट्ठितोति पदेन फलसमापत्तिकालो. तथा पुरिमेहि द्वीहि पदेहि अचित्तककालो कथितो, पच्छिमेन सचित्तककालो. पुब्बेव तथा चित्तं भावितं होतीति निरोधसमापत्तितो पुब्बे अद्धानपरिच्छेदकालेयेव ‘‘एत्तकं कालं अचित्तको हुत्वा ततो परं सचित्तको भविस्सामी’’ति अद्धानपरिच्छेदं चित्तं भावितं होति. यं तं तथत्ताय उपनेतीति यं एवं भावितं चित्तं, तं पुग्गलं तथत्ताय सचित्तकभावाय उपनेति. इति हेट्ठा निरोधसमापज्जन्नकालो गहितो, इध निरोधतो वुट्ठानकालो.

इदानि निरोधकथं कथेतुं कालोति निरोधकथा कथेतब्बा सिया. सा पनेसा ‘‘द्वीहि बलेहि समन्नागतत्ता तयो च सङ्खारानं पटिपस्सद्धिया सोळसहि ञाणचरियाहि नवहि समाधिचरियाहि वसीभावतापञ्ञा निरोधसमापत्तियं ञाण’’न्ति मातिकं ठपेत्वा सब्बाकारेन विसुद्धिमग्गे कथिता, तस्मा तत्थ कथितनयेनेव गहेतब्बा. को पनायं निरोधो नाम? चतुन्नं खन्धानं पटिसङ्खा अप्पवत्ति. अथ किमत्थमेतं समापज्जन्तीति? सङ्खारानं पवत्ते उक्कण्ठिता सत्ताहं अचित्तका हुत्वा सुखं विहरिस्साम, दिट्ठधम्मनिब्बानं नामेतं यदिदं निरोधोति एतदत्थं समापज्जन्ति.

चित्तसङ्खारो पठमं उप्पज्जतीति निरोधा वुट्ठहन्तस्स हि फलसमापत्तिचित्तं पठमं उप्पज्जति. तंसम्पयुत्तं सञ्ञञ्च वेदनञ्च सन्धाय ‘‘चित्तसङ्खारो पठमं उप्पज्जती’’ति आह. ततो कायसङ्खारोति ततो परं भवङ्गसमये कायसङ्खारो उप्पज्जति.

किं पन फलसमापत्ति अस्सासपस्सासे न समुट्ठापेतीति? समुट्ठापेति. इमस्स पन चतुत्थज्झानिका फलसमापत्ति, सा न समुट्ठापेति. किं वा एतेन? फलसमापत्ति पठमज्झानिका वा होतु दुतियततियचतुत्थज्झानिका वा, सन्तसमापत्तितो वुट्ठितस्स भिक्खुनो अस्सासपस्सासा अब्बोहारिका होन्ति, तेसं अब्बोहारिकभावो सञ्जीवत्थेरवत्थुना वेदितब्बो. सञ्जीवत्थेरस्स हि समापत्तितो वुट्ठाय किंसुकपुप्फसदिसे वीतच्चितङ्गारे मद्दमानस्स गच्छतो चीवरे अंसुमत्तम्पि न झायि, उस्माकारमत्तम्पि नाहोसि. समापत्तिबलं नामेतन्ति वदन्ति. एवमेव सन्ताय फलसमापत्तिया वुट्ठितस्स भिक्खुनो अस्सासपस्सासा अब्बोहारिका होन्तीति भवङ्गसमयेनेवेतं कथितन्ति वेदितब्बं.

ततो वचीसङ्खारोति ततो परं किरियमयपवत्तवलञ्जनकाले वचीसङ्खारो उप्पज्जति. किं भवङ्गं वितक्कविचारे न समुट्ठापेतीति? समुट्ठापेति. तंसमुट्ठाना पन वितक्कविचारा वाचं अभिसङ्खातुं न सक्कोन्तीति किरियमयपवत्तवलञ्जनकालेनेवेतं कथितं.

सुञ्ञतो फस्सोतिआदयो सगुणेनापि आरम्मणेनापि कथेतब्बा. सगुणेन ताव सुञ्ञता नाम फलसमापत्ति, ताय सहजातफस्सं सन्धाय ‘‘सुञ्ञतो फस्सो’’ति वुत्तं. अनिमित्तप्पणिहितेसुपि एसेव नयो. आरम्मणेन पन निब्बानं रागादीहि सुञ्ञत्ता सुञ्ञता नाम, रागनिमित्तादीनं अभावा अनिमित्तं, रागदोसमोहप्पणिधीनं अभावा अप्पणिहितं, सुञ्ञतं निब्बानं आरम्मणं कत्वा उप्पन्नफलसमापत्तिसम्फस्सो सुञ्ञतो नाम. अनिमित्तप्पणिहितेसुपि एसेव नयो.

अपरा आगमनियकथा नाम होति. सुञ्ञतअनिमित्तअप्पणिहिताति हि विपस्सनापि वुच्चति. तत्थ यो भिक्खु सङ्खारे अनिच्चतो परिग्गहेत्वा अनिच्चतो दिस्वा अनिच्चतो वुट्ठाति, तस्स वुट्ठानगामिनिविपस्सना अनिमित्ता नाम होति. यो दुक्खतो परिग्गहेत्वा दुक्खतो दिस्वा दुक्खतो वुट्ठाति, तस्स अप्पणिहिता नाम. यो अनत्ततो परिग्गहेत्वा अनत्ततो दिस्वा अनत्ततो वुट्ठाति, तस्स सुञ्ञता नाम. तत्थ अनिमित्तविपस्सनाय मग्गो अनिमित्तो नाम, अनिमित्तमग्गस्स फलं अनिमित्तं नाम, अनिमित्तफलसमापत्तिसहजाते फस्से फुसन्ते ‘‘अनिमित्तो फस्सो फुसती’’ति वुच्चति. अप्पणिहितसुञ्ञतेसुपि एसेव नयो. आगमनियेन कथिते पन सुञ्ञतो वा फस्सो अनिमित्तो वा फस्सो अप्पणिहितो वा फस्सोति विकप्पो आपज्जेय्य, तस्मा सगुणेन चेव आरम्मणेन च कथेतब्बं. एवञ्हि तयो फस्सा फुसन्तीति समेति.

विवेकनिन्नन्तिआदीसु निब्बानं विवेको नाम. तस्मिं विवेके निन्नं ओनतन्ति विवेकनिन्नं. विवेकपोणन्ति अञ्ञतो अगन्त्वा येन विवेको, तेन वङ्कं विय हुत्वा ठितन्ति विवेकपोणं. येन विवेको, तेन पतमानं विय ठितन्ति विवेकपब्भारं.