५. पठमकामभूसुत्तवण्णना
३४७. पञ्चमे नेलङ्गोति निद्दोसो. सेतपच्छादोति सेतपटिच्छादनो. अनीघन्ति निद्दुक्खं. मुहुत्तं तुण्ही हुत्वाति तस्स अत्थपेक्खनत्थं तीणि पिटकानि कण्णे कुण्डलं विय सञ्चालेन्तो ‘‘अयं इमस्स अत्थो, अयं इमस्स अत्थो’’ति उपपरिक्खणत्थं मुहुत्तं तुण्ही हुत्वा. विमुत्तियाति अरहत्तफलविमुत्तिया. इमं पन पञ्हं कथेन्तो उपासको दुक्करं अकासि. सम्मासम्बुद्धो हि ‘‘पस्सथ नो तुम्हे, भिक्खवे, एतं भिक्खुं आगच्छन्तं ओदातकं तनुकं तुङ्गनासिक’’न्ति (सं. नि. २.२४५) अत्तनो दिट्ठेन कथेसि. अयं पन नयग्गाहेन ‘‘अरहतो एतं अधिवचन’’न्ति आह.