१. सगाथावग्गो
१. समाधिसुत्तवण्णना
२४९. वेदनासंयुत्ते सगाथावग्गस्स पठमे समाहितोति उपचारेन वा अप्पनाय वा समाहितो. वेदना च पजानातीति वेदना दुक्खसच्चवसेन पजानाति. वेदनानञ्च सम्भवन्ति तासंयेव सम्भवं समुदयसच्चवसेन पजानाति. यत्थ चेताति यत्थेता वेदना निरुज्झन्ति, तं निब्बानं निरोधसच्चवसेन पजानाति. खयगामिनन्ति तासंयेव वेदनानं खयगामिनं मग्गं मग्गसच्चवसेन पजानाति. निच्छातो परिनिब्बुतोति नित्तण्हो हुत्वा किलेसपरिनिब्बानेन परिनिब्बुतो. एवमेत्थ सुत्ते सम्मसनचारवेदना कथिता. गाथासु द्वीहि पदेहि समथविपस्सना कथिता, सेसेहि चतुसच्चं कथितं. एवमेत्थ सब्बसङ्गाहिको चतुभूमकधम्मपरिच्छेदो वुत्तो.
२. सुखसुत्तवण्णना
२५०. दुतिये अदुक्खमसुखं सहाति अदुक्खमसुखञ्च सुखदुक्खेहि सह. अज्झत्तञ्च बहिद्धा चाति अत्तनो च परस्स च. मोसधम्मन्ति नस्सनसभावं. पलोकिनन्ति पलुज्जनकं भिज्जनसभावं. फुस्स फुस्स वयं पस्सन्ति ञाणेन फुसित्वा फुसित्वा वयं पस्सन्तो. एवं तत्थ विरज्जतीति एवं तासु वेदनासु विरज्जति. इधापि सुत्ते सम्मसनचारवेदना कथिता, गाथासु ञाणफुसनं.
३. पहानसुत्तवण्णना
२५१. ततिये अच्छेच्छि तण्हन्ति सब्बम्पि तण्हं छिन्दि समुच्छिन्दि. विवत्तयि संयोजनन्ति दसविधम्पि संयोजनं परिवत्तयि निम्मूलकमकासि. सम्माति हेतुना कारणेन. मानाभिसमयाति मानस्स दस्सनाभिसमया, पहानाभिसमया च. अरहत्तमग्गो हि किच्चवसेन मानं सम्पस्सति, अयमस्स दस्सनाभिसमयो. तेन दिट्ठो पन सो तावदेव पहीयति, दिट्ठविसेन दिट्ठसत्तानं जीवितं विय. अयमस्स पहानाभिसमयो.
अन्तमकासि दुक्खस्साति एवं अरहत्तमग्गेन मानस्स दिट्ठत्ता च पहीनत्ता च ये इमे ‘‘कायबन्धनस्स अन्तो जीरति (चूळव. २७८) हरितन्तं वा’’ति (म. नि. १.३०४) एवं वुत्तअन्तिममरियादन्तो च, ‘‘अन्तमिदं, भिक्खवे, जीविकान’’न्ति (इतिवु. ९१; सं. नि. ३.८०) एवं वुत्तलामकन्तो च, ‘‘सक्कायो एको अन्तो’’ति (अ. नि. ६.६१; चूळनि. तिस्समेत्तेय्यमाणवपुच्छानिद्देस ११) एवं वुत्तकोट्ठासन्तो च, ‘‘एसेवन्तो दुक्खस्स सब्बपच्चयसङ्खया’’ति (सं नि. २.५१; २.४.७१; उदा. ७१) एवं वुत्तकोटन्तो चाति चत्तारो अन्ता, तेसु सब्बस्सेव वट्टदुक्खस्स अदुं चतुत्थकोटिसङ्खातं अन्तमकासि, परिच्छेदं परिवटुमं अकासि, अन्तिमसमुस्सयमत्तावसेसं दुक्खमकासीति वुत्तं होति.
सम्पजञ्ञं न रिञ्चतीति सम्पजञ्ञं न जहति. सङ्ख्यं नोपेतीति रत्तो दुट्ठो मूळ्होति पञ्ञत्तिं न उपेति, तं पञ्ञत्तिं पहाय खीणासवो नाम होतीति अत्थो. इमस्मिं सुत्ते आरम्मणानुसयो कथितो.
४. पातालसुत्तवण्णना
२५२. चतुत्थे पातालोति पातस्स अलं परियत्तो, नत्थि एत्थ पतिट्ठाति पातालो. असन्तं अविज्जमानन्ति असम्भूतत्तं अपञ्ञायमानत्तं. एवं वाचं भासतीति अत्थि महासमुद्दे पातालोति एवं वाचं. सो हि यं तं बलवामुखं महासमुद्दस्स उदकं वेगेन पक्खन्दित्वा चक्कवाळं वा सिनेरुं वा आहच्च योजनद्वियोजनदसयोजनप्पमाणम्पि उग्गन्त्वा पुन महासमुद्दे पतति, यस्स पतितट्ठाने महानरकपपातो विय होति, यं लोके बलवामुखन्ति वुच्चति. तं सन्धाय एवं वदति.
यस्मा पन तत्थ तथारूपानं मच्छकच्छपदेवदानवानं पतिट्ठापि होति सुखनिवासोपि, तस्मा असन्तं असंविज्जमानं तं तं वाचं भासति नाम. यस्मा पन सब्बपुथुज्जना सारीरिकाय दुक्खवेदनाय पतिट्ठातुं न सक्कोन्ति, तस्मा पातस्स अलन्ति अत्थेन अयमेव पातालोति दस्सेन्तो सारीरिकानं खो एतं भिक्खवेतिआदिमाह.
पाताले न पच्चुट्ठासीति पातालस्मिं न पतिट्ठासि. गाधन्ति पतिट्ठं. अक्कन्दतीति अनिबद्धं विप्पलापं विलपन्तो कन्दति. दुब्बलोति दुब्बलञाणो. अप्पथामकोति ञाणथामस्स परित्तताय परित्तथामको. इमस्मिं सुत्ते अरियसावकोति सोतापन्नो. सोतापन्नो हि एत्थ धुरं, बलवविपस्सको न तिक्खबुद्धि उप्पन्नं वेदनं अननुवत्तित्वा पतिट्ठातुं समत्थो योगावचरोपि वट्टति.
५. दट्ठब्बसुत्तवण्णना
२५३. पञ्चमे दुक्खतो दट्ठब्बाति विपरिणामनवसेन दुक्खतो दट्ठब्बा. सल्लतोति दुक्खापनविनिविज्झनट्ठेन सल्लाति दट्ठब्बा. अनिच्चतोति अदुक्खमसुखा हुत्वा अभावाकारेन अनिच्चतो दट्ठब्बा. अद्दाति अद्दस. सन्तन्ति सन्तसभावं.
६. सल्लसुत्तवण्णना
२५४. छट्ठे तत्राति तेसु द्वीसु जनेसु. अनुवेधं विज्झेय्याति तस्सेव वणमुखस्स अङ्गुलन्तरे वा द्वङ्गुलन्तरे वा आसन्नपदेसे अनुगतवेधं. एवं विद्धस्स हि सा अनुवेधा वेदना पठमवेदनाय बलवतरा होति, पच्छा उप्पज्जमाना दोमनस्सवेदनापि एवमेव पुरिमवेदनाय बलवतरा होति. दुक्खाय वेदनाय निस्सरणन्ति दुक्खाय वेदनाय हि समाधिमग्गफलानि निस्सरणं, तं सो न जानाति, कामसुखमेव निस्सरणन्ति जानाति. तासं वेदनानन्ति तासं सुखदुक्खवेदनानं. सञ्ञुत्तो नं वेदयतीति किलेसेहि सम्पयुत्तोव हुत्वा तं वेदनं वेदयति, न विप्पयुत्तो. सञ्ञुत्तो दुक्खस्माति करणत्थे निस्सक्कं, दुक्खेन सम्पयुत्तोति अत्थो. सङ्खातधम्मस्साति विदितधम्मस्स तुलितधम्मस्स. बहुस्सुतस्साति परियत्तिबहुस्सुतस्स पटिवेधबहुस्सुतस्स च. सम्मा पजानाति भवस्स पारगूति भवस्स पारं निब्बानं गतो, तदेव निब्बानं सम्मा पजानाति. इमस्मिम्पि सुत्ते आरम्मणानुसयोव कथितो. अरियसावकेसु च खीणासवो एत्थ धुरं, अनागामीपि वट्टतीति वदन्ति.
७. पठमगेलञ्ञसुत्तवण्णना
२५५. सत्तमे येन गिलानसाला तेनुपसङ्कमीति ‘‘सदेवके लोके अग्गपुग्गलो तथागतोपि गिलानुपट्ठानं गच्छति, उपट्ठातब्बयुत्तका नाम गिलानाति भिक्खू सद्दहित्वा ओकप्पेत्वा गिलाने उपट्ठातब्बे मञ्ञिस्सन्ती’’ति च ‘‘ये तत्थ कम्मट्ठानसप्पाया, तेसं कम्मट्ठानं कथेस्सामी’’ति च चिन्तेत्वा उपसङ्कमि. काये कायानुपस्सीतिआदीसु यं वत्तब्बं, तं परतो वक्खाम. अनिच्चानुपस्सीति अनिच्चतं अनुपस्सन्तो. वयानुपस्सीति वयं अनुपस्सन्तो. विरागानुपस्सीति विरागं अनुपस्सन्तो. निरोधानुपस्सीति निरोधं अनुपस्सन्तो. पटिनिस्सग्गानुपस्सीति पटिनिस्सग्गं अनुपस्सन्तो.
एत्तावता किं दस्सितं होति? इमस्स भिक्खुनो आगमनीयपटिपदा, सतिपट्ठानापि हि पुब्बभागायेव, सम्पजञ्ञेपि अनिच्चानुपस्सना वयानुपस्सना विरागानुपस्सनाति च इमापि तिस्सो अनुपस्सना पुब्बभागायेव, निरोधानुपस्सनापि पटिनिस्सग्गानुपस्सनापि इमा द्वे मिस्सका. एत्तावता इमस्स भिक्खुनो भावनाकालो दस्सितोति. सेसं वुत्तनयमेव.
८-९. दुतियगेलञ्ञसुत्तादिवण्णना
२५६-२५७. अट्ठमे इममेव फस्सं पटिच्चाति वुत्ते बुज्झनकानं अज्झासयेन वुत्तं, अत्थतो पनेतं निन्नानाकरणं. कायोव हि एत्थ फस्सोति वुत्तो. नवमं उत्तानमेव.
१०. फस्समूलकसुत्तवण्णना
२५८. दसमे सुखवेदनियन्ति सुखवेदनाय पच्चयभूतं. सेसेसुपि एसेव नयो. अनुपदवण्णना पनेत्थ हेट्ठा वित्थारिताव. इमस्मिं सुत्तद्वये सम्मसनचारवेदना कथिता.
सगाथावग्गो पठमो.