४. छन्नसुत्तवण्णना

८७. चतुत्थे छन्नोति एवंनामको थेरो, न अभिनिक्खमनं निक्खन्तथेरो. पटिसल्लानाति फलसमापत्तितो. गिलानपुच्छकाति गिलानुपट्ठाका. गिलानुपट्ठानं नाम बुद्धपसत्थं बुद्धवण्णितं, तस्मा एवमाह. सीसवेठं ददेय्याति सीसे वेठनं सीसवेठं, तञ्च ददेय्य. सत्थन्ति जीवितहारकसत्थं. नावकङ्खामीति न इच्छामि. परिचिण्णोति परिचरितो. मनापेनाति मनवड्ढनकेन कायकम्मादिना. एत्थ च सत्त सेखा परिचरन्ति नाम, अरहा परिचारी नाम, भगवा परिचिण्णो नाम.

एतञ्हि, आवुसो, सावकस्स पतिरूपन्ति, आवुसो, सावकस्स नाम एतं अनुच्छविकं. अनुपवज्जन्ति अप्पवत्तिकं अप्पटिसन्धिकं. पुच्छावुसो सारिपुत्त, सुत्वा वेदिस्सामाति अयं सावकपवारणा नाम. एतं ममातिआदीनि तण्हामानदिट्ठिग्गाहवसेन वुत्तानि. निरोधं दिस्वाति खयवयं ञत्वा. नेतं मम, नेसोहमस्मि, न मेसो अत्ताति समनुपस्सामीति अनिच्चं दुक्खं अनत्ताति समनुपस्सामि. एत्तकेसु ठानेसु छन्नत्थेरो सारिपुत्तत्थेरेन पुच्छितं पञ्हं अरहत्ते पक्खिपित्वा कथेसि. सारिपुत्तत्थेरो पन तस्स पुथुज्जनभावं ञत्वापि तं ‘‘पुथुज्जनो’’ति वा ‘‘खीणासवो’’ति वा अवत्वा तुण्हीयेव अहोसि. चुन्दत्थेरो पनस्स पुथुज्जनभावं सञ्ञापेस्सामीति चिन्तेत्वा ओवादं अदासि.

तत्थ तस्माति यस्मा मारणन्तिकं वेदनं अधिवासेतुं असक्कोन्तो सत्थं आहरामीति वदति, तस्मा पुथुज्जनो आयस्मा, तेन इदम्पि मनसिकरोहीति दीपेति. यस्मा वा छन्नं आयतनानं निरोधं दिस्वा चक्खादीनि तिण्णं गाहानं वसेन न समनुपस्सामीति वदसि. तस्मा इदम्पि तस्स भगवतो सासनं आयस्मता मनसिकातब्बन्तिपि पुथुज्जनभावमेव दीपेन्तो वदति. निच्चकप्पन्ति निच्चकालं. निस्सितस्साति तण्हामानदिट्ठीहि निस्सितस्स. चलितन्ति विप्फन्दितं होति. यथयिदं आयस्मतो उप्पन्नं वेदनं अधिवासेतुं असक्कोन्तस्स ‘‘अहं वेदयामि, मम वेदना’’ति अप्पहीनग्गाहस्स इदानि विप्फन्दितं होति, इमिनापि नं ‘‘पुथुज्जनोव त्व’’न्ति वदति.

पस्सद्धीति कायचित्तपस्सद्धि, किलेसपस्सद्धि नाम होतीति अत्थो. नतियाति तण्हानतिया. असतीति भवत्थाय आलयनिकन्तिपरियुट्ठाने असति. आगतिगति न होतीति पटिसन्धिवसेन आगति नाम, चुतिवसेन गमनं नाम न होति. चुतूपपातोति चवनवसेन चुति, उपपज्जनवसेन उपपातो. नेविध न हुरं न उभयमन्तरेनाति न इधलोके न परलोके न उभयत्थ होति. एसेवन्तो दुक्खस्साति वट्टदुक्खकिलेसदुक्खस्स अयमेव अन्तो अयं परिच्छेदो परिवटुमभावो होति. अयमेव हि एत्थ अत्थो. ये पन ‘‘उभयमन्तरेना’’ति वचनं गहेत्वा अन्तराभवं इच्छन्ति, तेसं वचनं निरत्थकं. अन्तराभवस्स हि भावो अभिधम्मे पटिक्खित्तोयेव. ‘‘अन्तरेना’’ति वचनं पन विकप्पन्तरदीपनं. तस्मा अयमेत्थ अत्थो – नेव इध न हुरं, अपरो विकप्पो न उभयन्ति.

सत्थं आहरेसीति जीवितहारकसत्थं आहरि, आहरित्वा कण्ठनाळं छिन्दि. अथस्स तस्मिं खणे मरणभयं ओक्कमि, गतिनिमित्तं उपट्ठासि. सो अत्तनो पुथुज्जनभावं ञत्वा, संविग्गचित्तो विपस्सनं पट्ठपेत्वा, सङ्खारे परिग्गण्हन्तो अरहत्तं पत्वा, समसीसी हुत्वा परिनिब्बुतो. सम्मुखायेव अनुपवज्जता ब्याकताति किञ्चापि इदं थेरस्स पुथुज्जनकाले ब्याकरणं होति; एतेन पन ब्याकरणेन अनन्तरायमस्स परिनिब्बानं अहोसि. तस्मा भगवा तदेव ब्याकरणं गहेत्वा कथेसि.

उपवज्जकुलानीति उपसङ्कमितब्बकुलानि. इमिना थेरो, ‘‘भन्ते, एवं उपट्ठाकेसु च उपट्ठायिकासु च विज्जमानासु सो भिक्खु तुम्हाकं सासने परिनिब्बायिस्सती’’ति पुब्बभागपटिपत्तियं कुलसंसग्गदोसं दस्सेन्तो पुच्छति. अथस्स भगवा कुलेसु संसग्गाभावं दीपेन्तो होन्ति हेते सारिपुत्तातिआदिमाह. इमस्मिं किर ठाने थेरस्स कुलेसु असंसट्ठभावो पाकटो अहोसि. सेसं सब्बत्थ उत्तानमेव.