६. उपयवग्गो

१. उपयसुत्तवण्णना

५३. उपयवग्गस्स पठमे उपयोति तण्हामानदिट्ठिवसेन पञ्चक्खन्धे उपगतो. विञ्ञाणन्ति कम्मविञ्ञाणं. आपज्जेय्याति कम्मं जवापेत्वा पटिसन्धिआकड्ढनसमत्थताय वुद्धिआदीनि आपज्जेय्य. विञ्ञाणुपयन्ति पदस्स अग्गहणे कारणं वुत्तमेव. वोच्छिज्जतारम्मणन्ति पटिसन्धिआकड्ढनसमत्थताय अभावेन आरम्मणं वोच्छिज्जति. पतिट्ठा विञ्ञाणस्साति कम्मविञ्ञाणस्स पतिट्ठा न होति. तदप्पतिट्ठितन्ति तं अप्पतिट्ठितं. अनभिसङ्खच्च विमुत्तन्ति पटिसन्धिं अनभिसङ्खरित्वा विमुत्तं. पठमं.

२. बीजसुत्तवण्णना

५४. दुतिये बीजजातानीति बीजानि. मूलबीजन्ति वचं वचत्तं हलिद्दं सिङ्गिवेरन्ति एवमादि. खन्धबीजन्ति अस्सत्थो निग्रोधोति एवमादि. फलुबीजन्ति उच्छु वेळु नळोति एवमादि. अग्गबीजन्ति अज्जुकं फणिज्जकन्ति एवमादि. बीजबीजन्ति सालिवीहिआदि पुब्बण्णञ्चेव मुग्गमासादि अपरण्णञ्च. अखण्डानीति अभिन्नानि. भिन्नकालतो पट्ठाय बीजं बीजत्थाय न उपकप्पति. अपूतिकानीति उदकतेमनेन अपूतिकानि. पूतिबीजञ्हि बीजत्थाय न उपकप्पति. अवातातपहतानीति वातेन च आतपेन च न हतानि, निरोजतं न पापितानि. निरोजञ्हि कसटं बीजं बीजत्थाय न उपकप्पति. सारादानीति गहितसारानि पतिट्ठितसारानि. निस्सारञ्हि बीजं बीजत्थाय न उपकप्पति. सुखसयितानीति चत्तारो मासे कोट्ठे पक्खित्तनियामेनेव सुखं सयितानि. पथवीति हेट्ठा पतिट्ठानपथवी. आपोति उपरिस्नेहनआपो. चतस्सो विञ्ञाणट्ठितियोति कम्मविञ्ञाणस्स आरम्मणभूता रूपादयो चत्तारो खन्धा. ते हि आरम्मणवसेन पतिट्ठाभूतत्ता पथवीधातुसदिसा. नन्दिरागो सिनेहनट्ठेन आपोधातुसदिसो. विञ्ञाणं साहारन्ति सप्पच्चयं कम्मविञ्ञाणं. तञ्हि बीजं विय पथवियं आरम्मणपथवियं विरुहति. दुतियं.

३. उदानसुत्तवण्णना

५५. ततिये उदानं उदानेसीति बलवसोमनस्ससमुट्ठानं उदानं उदाहरि. किं निस्साय पनेस भगवतो उप्पन्नोति. सासनस्स निय्यानिकभावं. कथं? एवं किरस्स अहोसि, ‘‘तयोमे उपनिस्सया – दानूपनिस्सयो सीलूपनिस्सयो भावनूपनिस्सयो चा’’ति. तेसु दानसीलूपनिस्सया दुब्बला, भावनूपनिस्सयो बलवा. दानसीलूपनिस्सया हि तयो मग्गे च फलानि च पापेन्ति, भावनूपनिस्सयो अरहत्तं पापेति. इति दुब्बलूपनिस्सये पतिट्ठितो भिक्खु घटेन्तो वायमन्तो पञ्चोरम्भागियानि बन्धनानि छेत्वा तीणि मग्गफलानि निब्बत्तेति, ‘‘अहो सासनं निय्यानिक’’न्ति आवज्जेन्तस्स अयं उदपादि.

तत्थ ‘‘दुब्बलूपनिस्सये ठत्वा घटमानो तीणि मग्गफलानि पापुणाती’’ति इमस्सत्थस्साविभावनत्थं मिलकत्थेरस्स वत्थु वेदितब्बं – सो किर गिहिकाले पाणातिपातकम्मेन जीविकं कप्पेन्तो अरञ्ञे पाससतञ्चेव अदूहलसतञ्च योजेसि. अथेकदिवसं अङ्गारपक्कमंसं खादित्वा पासट्ठानेसु विचरन्तो पिपासाभिभूतो एकस्स अरञ्ञवासित्थेरस्स विहारं गन्त्वा थेरस्स चङ्कमन्तस्स अविदूरे ठितं पानीयघटं विवरि, हत्थतेमनमत्तम्पि उदकं नाद्दस. सो कुज्झित्वा आह – ‘‘भिक्खु, भिक्खु तुम्हे गहपतिकेहि दिन्नं भुञ्जित्वा भुञ्जित्वा सुपथ, पानीयघटे अञ्जलिमत्तम्पि उदकं न ठपेथ, न युत्तमेत’’न्ति. थेरो ‘‘मया पानीयघटो पूरेत्वा ठपितो, किं नु खो एत’’न्ति? गन्त्वा ओलोकेन्तो परिपुण्णघटं दिस्वा पानीयसङ्खं पूरेत्वा अदासि. सो द्वत्तिसङ्खपूरं पिवित्वा चिन्तेसि – ‘‘एवं पूरितघटो नाम मम कम्मं आगम्म तत्तकपालो विय जातो. किं नु खो अनागते अत्तभावे भविस्सती’’ति? संविग्गचित्तो धनुं छड्डेत्वा, ‘‘पब्बाजेथ मं, भन्ते’’ति आह. थेरो तचपञ्चककम्मट्ठानं आचिक्खित्वा तं पब्बाजेसि.

तस्स समणधम्मं करोन्तस्स बहूनं मिगसूकरानं मारितट्ठानं पासअदूहलानञ्च योजितट्ठानं उपट्ठाति. तं अनुस्सरतो सरीरे दाहो उप्पज्जति, कूटगोणो विय कम्मट्ठानम्पि वीथिं न पटिपज्जति. सो ‘‘किं करिस्सामि भिक्खुभावेना’’ति? अनभिरतिया पीळितो थेरस्स सन्तिकं गन्त्वा वन्दित्वा आह – ‘‘न सक्कोमि, भन्ते, समणधम्मं कातु’’न्ति. अथ नं थेरो ‘‘हत्थकम्मं करोही’’ति आह. सो ‘‘साधु, भन्ते’’ति वत्वा उदुम्बरादयो अल्लरुक्खे छिन्दित्वा महन्तं रासिं कत्वा, ‘‘इदानि किं करोमी’’ति पुच्छि? झापेहि नन्ति. सो चतूसु दिसासु अग्गिं दत्वा झापेतुं असक्कोन्तो, ‘‘भन्ते, न सक्कोमी’’ति आह. थेरो ‘‘तेन हि अपेही’’ति पथविं द्विधा कत्वा अवीचितो खज्जोपनकमत्तं अग्गिं नीहरित्वा तत्थ पक्खिपि. सो ताव महन्तं रासिं सुक्खपण्णं विय खणेन झापेसि. अथस्स थेरो अवीचिं दस्सेत्वा, ‘‘सचे विब्भमिस्ससि, एत्थ पच्चिस्ससी’’ति संवेगं जनेसि. सो अवीचिदस्सनतो पट्ठाय पवेधमानो ‘‘निय्यानिकं, भन्ते, बुद्धसासन’’न्ति पुच्छि, आमावुसोति. भन्ते, बुद्धसासनस्स निय्यानिकत्ते सति मिलको अत्तमोक्खं करिस्सति, मा चिन्तयित्थाति. ततो पट्ठाय समणधम्मं करोति घटेति, तस्स वत्तपटिवत्तं पूरेति, निद्दाय बाधयमानाय तिन्तं पलालं सीसे ठपेत्वा पादे सोण्डियं ओतारेत्वा निसीदति. सो एकदिवसं पानीयं परिस्सावेत्वा घटं ऊरुम्हि ठपेत्वा उदकमणिकानं पच्छेदं आगमयमानो अट्ठासि. अथ खो थेरो सामणेरस्स इमं उद्देसं देति –

‘‘उट्ठानवतो सतीमतो,

सुचिकम्मस्स निसम्मकारिनो;

सञ्ञतस्स धम्मजीविनो,

अप्पमत्तस्स यसोभिवड्ढती’’ति. (ध. प. २४);

सो चतुप्पदिकम्पि तं गाथं अत्तनियेव उपनेसि – ‘‘उट्ठानवता नाम मादिसेन भवितब्बं. सतिमतापि मादिसेनेव…पे… अप्पमत्तेनपि मादिसेनेव भवितब्ब’’न्ति. एवं तं गाथं अत्तनि उपनेत्वा तस्मिंयेव पदवारे ठितो पञ्चोरम्भागियानि संयोजनानि छिन्दित्वा अनागामिफले पतिट्ठाय हट्ठतुट्ठो –

‘‘अल्लं पलालपुञ्जाहं, सीसेनादाय चङ्कमिं;

पत्तोस्मि ततियं ठानं, एत्थ मे नत्थि संसयो’’ति. –

इमं उदानगाथं आह. एवं दुब्बलूपनिस्सये ठितो घटेन्तो वायमन्तो पञ्चोरम्भागियानि संयोजनानि छिन्दित्वा तीणि मग्गफलानि निब्बत्तेति. तेनाह भगवा – ‘‘नो चस्सं, नो च मे सिया, नाभविस्स, न मे भविस्सतीति एवं अधिमुच्चमानो भिक्खु छिन्देय्य ओरम्भागियानि संयोजनानी’’ति.

तत्थ नो चस्सं, नो च मे सियाति सचे अहं न भवेय्यं, मम परिक्खारोपि न भवेय्य. सचे वा पन मे अतीते कम्माभिसङ्खारो नाभविस्स, इदं मे एतरहि खन्धपञ्चकं न भवेय्य. नाभविस्स, न मे भविस्सतीति इदानि पन तथा परक्कमिस्सामि, यथा मे आयतिं खन्धाभिनिब्बत्तको कम्मसङ्खारो न भविस्सति, तस्मिं असति आयतिं पटिसन्धि नाम न मे भविस्सति. एवं अधिमुच्चमानोति एवं अधिमुच्चन्तो भिक्खु दुब्बलूपनिस्सये ठितो पञ्चोरम्भागियानि संयोजनानि छिन्देय्य. एवं वुत्तेति एवं सासनस्स निय्यानिकभावं आवज्जेन्तेन भगवता इमस्मिं उदाने वुत्ते. रूपं विभविस्सतीति रूपं भिज्जिस्सति. रूपस्स विभवाति विभवदस्सनेन सहविपस्सनेन. सहविपस्सनका हि चत्तारो मग्गा रूपादीनं विभवदस्सनं नाम. तं सन्धायेतं वुत्तं. एवं अधिमुच्चमानो, भन्ते, भिक्खु छिन्देय्याति, भन्ते, एवं अधिमुच्चमानो भिक्खु छिन्देय्येव पञ्चोरम्भागियानि संयोजनानि. कस्मा न छिन्दिस्सतीति?

इदानि उपरि मग्गफलं पुच्छन्तो कथं पन, भन्तेतिआदिमाह. तत्थ अनन्तराति द्वे अनन्तरानि आसन्नानन्तरञ्च दूरानन्तरञ्च. विपस्सना मग्गस्स आसन्नानन्तरं नाम, फलस्स दूरानन्तरं नाम. तं सन्धाय ‘‘कथं पन, भन्ते, जानतो कथं पस्सतो विपस्सनानन्तरा ‘आसवानं खयो’ति सङ्खं गतं अरहत्तफलं होती’’ति पुच्छति. अतसितायेति अतसितब्बे अभायितब्बे ठानम्हि. तासं आपज्जतीति भयं आपज्जति. तासो हेसोति या एसा ‘‘नो चस्सं, नो च मे सिया’’ति एवं पवत्ता दुब्बलविपस्सना, सा यस्मा अत्तसिनेहं परियादातुं न सक्कोति, तस्मा अस्सुतवतो पुथुज्जनस्स तासो नाम होति. सो हि ‘‘इदानाहं उच्छिज्जिस्सामि, न दानि किञ्चि भविस्सामी’’ति अत्तानं पपाते पतन्तं विय पस्सति अञ्ञतरो ब्राह्मणो विय. लोहपासादस्स किर हेट्ठा तिपिटकचूळनागत्थेरो तिलक्खणाहतं धम्मं परिवत्तेति. अथ अञ्ञतरस्स ब्राह्मणस्स एकमन्ते ठत्वा धम्मं सुणन्तस्स सङ्खारा सुञ्ञतो उपट्ठहिंसु. सो पपाते पतन्तो विय हुत्वा विवटद्वारेन ततो पलायित्वा गेहं पविसित्वा, पुत्तं उरे सयापेत्वा, ‘‘तात, सक्यसमयं आवज्जेन्तो मनम्हि नट्ठो’’ति आह. न हेसो भिक्खु तासोति एसा एवं पवत्ता बलवविपस्सना सुतवतो अरियसावकस्स न तासो नाम होति. न हि तस्स एवं होति ‘‘अहं उच्छिज्जिस्सामी’’ति वा ‘‘विनस्सिस्सामी’’ति वाति. एवं पन होति ‘‘सङ्खाराव उप्पज्जन्ति, सङ्खाराव निरुज्झन्ती’’ति. ततियं.

४. उपादानपरिपवत्तसुत्तवण्णना

५६. चतुत्थे चतुपरिवट्टन्ति एकेकस्मिं खन्धे चतुन्नं परिवट्टनवसेन. रूपं अब्भञ्ञासिन्ति रूपं दुक्खसच्चन्ति अभिञ्ञासिं. एवं सब्बपदेसु चतुसच्चवसेनेव अत्थो वेदितब्बो. आहारसमुदयाति एत्थ सच्छन्दरागो कबळीकाराहारो आहारो नाम. पटिपन्नाति सीलतो पट्ठाय याव अरहत्तमग्गा पटिपन्ना होन्ति. गाधन्तीति पतिट्ठहन्ति. एत्तावता सेक्खभूमिं कथेत्वा इदानि असेक्खभूमिं कथेन्तो ये च खो केचि, भिक्खवेतिआदिमाह. सुविमुत्ताति अरहत्तफलविमुत्तिया सुट्ठु विमुत्ता. केवलिनोति सकलिनो कतसब्बकिच्चा. वट्टं तेसं नत्थि पञ्ञापनायाति येन ते अवसिट्ठेन वट्टेन पञ्ञापेय्युं, तं नेसं वट्टं नत्थि पञ्ञापनाय. अथ वा वट्टन्ति कारणं, पञ्ञापनाय कारणं नत्थीति. एत्तावता असेक्खभूमिवारो कथितो. चतुत्थं.

५. सत्तट्ठानसुत्तवण्णना

५७. पञ्चमे सत्तट्ठानकुसलोति सत्तसु ओकासेसु छेको. वुसितवाति वुसितवासो. उत्तमपुरिसोति सेट्ठपुरिसो. सेसमेत्थ वुत्तनयेनेव वेदितब्बं. इदं पन सुत्तं उस्सदनन्दियञ्चेव पलोभनीयञ्चाति वेदितब्बं. यथा हि राजा विजितसङ्गामो सङ्गामे विजयिनो योधे उच्चट्ठाने ठपेत्वा तेसं सक्कारं करोति. किं कारणा? एतेसं सक्कारं दिस्वा सेसापि सूरा भवितुं मञ्ञिस्सन्तीति, एवमेव भगवा अप्पमेय्यं कालं पारमियो पूरेत्वा महाबोधिमण्डे किलेसमारविजयं कत्वा सब्बञ्ञुतं पत्तो सावत्थियं जेतवनमहाविहारे निसीदित्वा इमं सुत्तं देसेन्तो खीणासवे उक्खिपित्वा थोमेसि वण्णेसि. किं कारणा? एवं अवसेसा सेक्खपुग्गला अरहत्तफलं पत्तब्बं मञ्ञिस्सन्तीति. एवमेतं सुत्तं खीणासवानं उक्खिपित्वा पसंसितत्ता उस्सदनन्दियं, सेक्खानं पलोभितत्ता पलोभनीयन्ति वेदितब्बं.

एवं खो, भिक्खवे, भिक्खु सत्तट्ठानकुसलो होतीति एत्तावता चेत्थ मग्गफलपच्चवेक्खणवसेन देसनं निट्ठपेत्वापि पुन कथञ्च, भिक्खवे, भिक्खु तिविधूपपरिक्खी होतीति इदं ‘‘खीणासवो यस्मिं आरम्मणे सततविहारेन विहरति, तं सत्तो वा पुग्गलो वा न होति, धातुआदिमत्तमेव पन होती’’ति एवं खीणासवस्स सततविहारञ्च, ‘‘इमेसु धम्मेसु कम्मं कत्वा अयं आगतो’’ति आगमनीयपटिपदञ्च दस्सेतुं वुत्तं. तत्थ धातुसो उपपरिक्खतीति धातुसभावेन पस्सति ओलोकेति. सेसपदद्वयेपि एसेव नयो. पञ्चमं.

६. सम्मासम्बुद्धसुत्तवण्णना

५८. छट्ठे को अधिप्पयासोति को अधिकपयोगो. अनुप्पन्नस्साति इमञ्हि मग्गं कस्सपसम्मासम्बुद्धो उप्पादेसि, अन्तरा अञ्ञो सत्था उप्पादेतुं नासक्खि, इति भगवा अनुप्पन्नस्स मग्गस्स उप्पादेता नाम. नगरोपमस्मिञ्हि अवळञ्जनट्ठानेसु पुराणमग्गो जातो, इध अवत्तमानट्ठेन अनुप्पन्नमग्गो नाम. असञ्जातस्साति तस्सेव वेवचनं. अनक्खातस्साति अकथितस्स. मग्गं जानातीति मग्गञ्ञू. मग्गं विदितं पाकटं अकासीति मग्गविदू. मग्गे च अमग्गे च कोविदोति मग्गकोविदो. मग्गानुगाति मग्गं अनुगच्छन्ता. पच्छा समन्नागताति अहं पठमं गतो, सावका पच्छा समन्नागता. छट्ठं.

७. अनत्तलक्खणसुत्तवण्णना

५९. सत्तमे पञ्चवग्गियेति अञ्ञासि कोण्डञ्ञत्थेरादिके पञ्च जने पुराणुपट्ठाके. आमन्तेसीति आसाळ्हिपुण्णमदिवसे धम्मचक्कप्पवत्तनतो पट्ठाय अनुक्कमेन सोतापत्तिफले पतिट्ठिते ‘‘इदानि नेसं आसवक्खयाय धम्मं देसेस्सामी’’ति पञ्चमियं पक्खस्स आमन्तेसि. एतदवोचाति एतं ‘‘रूपं, भिक्खवे, अनत्ता’’तिआदिनयप्पवत्तं अनत्तलक्खणसुत्तं अवोच. तत्थ अनत्ताति पुब्बे वुत्तेहि चतूहि कारणेहि अनत्ता. तं किं मञ्ञथ, भिक्खवेति इदं कस्मा आरद्धं? एत्तकेन ठानेन अनत्तलक्खणमेव कथितं, न अनिच्चदुक्खलक्खणानि, इदानि तानि दस्सेत्वा समोधानेत्वा तीणिपि लक्खणानि दस्सेतुं इदमारद्धन्ति वेदितब्बं. तस्माति यस्मा इमे पञ्चक्खन्धा अनिच्चा दुक्खा अनत्ता, तस्मा. यंकिञ्चि रूपन्तिआदीसु वित्थारकथा विसुद्धिमग्गे पञ्ञाभावनाधिकारे खन्धनिद्देसे वुत्ताव. सेसं सब्बत्थ वुत्तानुसारेनेव वेदितब्बं. इमस्मिं पन सुत्ते अनत्तलक्खणमेव कथितन्ति. सत्तमं.

८. महालिसुत्तवण्णना

६०. अट्ठमे एकन्तदुक्खन्तिआदीनि धातुसंयुत्ते वुत्तनयानेव. अट्ठमं.

९. आदित्तसुत्तवण्णना

६१. नवमे आदित्तन्ति एकादसहि अग्गीहि आदित्तं पज्जलितं. इति द्वीसुपि इमेसु सुत्तेसु दुक्खलक्खणमेव कथितं. नवमं.

१०. निरुत्तिपथसुत्तवण्णना

६२. दसमे निरुत्तियोव निरुत्तिपथा, अथ वा निरुत्तियो च ता निरुत्तिवसेन विञ्ञातब्बानं अत्थानं पथत्ता पथा चाति निरुत्तिपथा. सेसपदद्वयेपि एसेव नयो. तीणिपि चेतानि अञ्ञमञ्ञवेवचनानेवाति वेदितब्बानि. असंकिण्णाति अविजहिता, ‘‘को इमेहि अत्थो’’ति वत्वा अछड्डिता. असंकिण्णपुब्बाति अतीतेपि न जहितपुब्बा. न संकीयन्तीति एतरहिपि ‘‘किमेतेही’’ति न छड्डीयन्ति. न संकीयिस्सन्तीति अनागतेपि न छड्डीयिस्सन्ति. अप्पटिकुट्ठाति अप्पटिबाहिता. अतीतन्ति अत्तनो सभावं भङ्गमेव वा अतिक्कन्तं. निरुद्धन्ति देसन्तरं असङ्कमित्वा तत्थेव निरुद्धं वूपसन्तं. विपरिणतन्ति विपरिणामं गतं नट्ठं. अजातन्ति अनुप्पन्नं. अपातुभूतन्ति अपाकटीभूतं.

उक्कलाति उक्कलजनपदवासिनो. वस्सभञ्ञाति वस्सो च भञ्ञो च. द्वेपि हि ते मूलदिट्ठिगतिका. अहेतुकवादातिआदीसु ‘‘नत्थि हेतु नत्थि पच्चयो’’ति गहितत्ता अहेतुकवादा. ‘‘करोतो न करीयति पाप’’न्ति गहितत्ता अकिरियवादा. ‘‘नत्थि दिन्न’’न्तिआदिगहणतो नत्थिकवादा. तत्थ इमे द्वे जना, तिस्सो दिट्ठियो, किं एकेकस्स दियड्ढा होतीति? न तथा, यथा पन एको भिक्खु पटिपाटिया चत्तारिपि झानानि निब्बत्तेति, एवमेत्थ एकेको तिस्सोपि दिट्ठियो निब्बत्तेसीति वेदितब्बो. ‘‘नत्थि हेतु नत्थि पच्चयो’’ति पुनप्पुनं आवज्जेन्तस्स आहरन्तस्स अभिनन्दन्तस्स अस्सादेन्तस्स मग्गदस्सनं विय होति. सो मिच्छत्तनियामं ओक्कमति, सो एकन्तकाळकोति वुच्चति. यथा पन अहेतुकदिट्ठियं, एवं ‘‘करोतो न करीयति पापं, नत्थि दिन्न’’न्ति इमेसुपि ठानेसु मिच्छत्तनियामं ओक्कमति.

न गरहितब्बं नप्पटिक्कोसितब्बं अमञ्ञिंसूति एत्थ ‘‘यदेतं अतीतं नाम, नयिदं अतीतं, इदमस्स अनागतं वा पच्चुप्पन्नं वा’’ति वदन्तो गरहति नाम. तत्थ दोसं दस्सेत्वा ‘‘किं इमिना गरहितेना’’ति? वदन्तो पटिक्कोसति नाम. इमे पन निरुत्तिपथे तेपि अच्चन्तकाळका दिट्ठिगतिका न गरहितब्बे न पटिक्कोसितब्बे मञ्ञिंसु. अतीतं पन अतीतमेव, अनागतं अनागतमेव, पच्चुप्पन्नं पच्चुप्पन्नमेव कथयिंसु. निन्दाघट्टनब्यारोसउपारम्भभयाति विञ्ञूनं सन्तिका निन्दाभयेन च घट्टनभयेन च दोसारोपनभयेन च उपारम्भभयेन च. इति इमस्मिं सुत्ते चतुभूमिकखन्धानं पण्णत्ति कथिताति. दसमं.

उपयवग्गो छट्ठो.