१. भारसुत्तवण्णना
२२. भारवग्गस्स पठमे पञ्चुपादानक्खन्धातिस्स वचनीयन्ति पञ्चुपादानक्खन्धा इति अस्स वचनीयं, एवं वत्तब्बं भवेय्याति अत्थो. अयं वुच्चति, भिक्खवे, भारोति ये इमे पञ्चुपादानक्खन्धा, अयं भारोति वुच्चति. केनट्ठेनाति? परिहारभारियट्ठेन. एतेसञ्हि ठापनगमननिसीदापननिपज्जापनन्हापनमण्डनखादापनभुञ्जापनादिपरिहारो भारियोति परिहारभारियट्ठेन भारोति वुच्चति. एवंनामोति तिस्सो दत्तोतिआदिनामो. एवंगोत्तोति कण्हायनो वच्छायनोतिआदिगोत्तो. इति वोहारमत्तसिद्धं पुग्गलं ‘‘भारहारो’’ति कत्वा दस्सेति. पुग्गलो हि पटिसन्धिक्खणेयेव खन्धभारं उक्खिपित्वा दसपि वस्सानि वीसतिपि वस्ससतम्पीति यावजीवं इमं खन्धभारं न्हापेन्तो भोजेन्तो मुदुसम्फस्समञ्चपीठेसु निसीदापेन्तो निपज्जापेन्तो परिहरित्वा चुतिक्खणे छड्डेत्वा पुन पटिसन्धिक्खणे अपरं खन्धभारं आदियति, तस्मा भारहारोति जातो.
पोनोभविकाति पुनब्भवनिब्बत्तिका. नन्दीरागसहगताति नन्दिरागेन सह एकत्तमेव गता. तब्भावसहगतञ्हि इध अधिप्पेतं. तत्र तत्राभिनन्दिनीति उपपत्तिट्ठाने वा रूपादीसु वा आरम्मणेसु तत्थ तत्थ अभिनन्दनसीलाव. कामतण्हादीसु पञ्चकामगुणिको रागो कामतण्हा नाम, रूपारूपभवरागो झाननिकन्ति सस्सतदिट्ठिसहगतो रागोति अयं भवतण्हा नाम, उच्छेददिट्ठिसहगतो रागो विभवतण्हा नाम. भारादानन्ति भारगहणं. तण्हाय हि एस भारं आदियति. असेसविरागनिरोधोतिआदि सब्बं निब्बानस्सेव वेवचनं. तञ्हि आगम्म तण्हा असेसतो विरज्जति निरुज्झति चजियति पटिनिस्सज्जियति विमुच्चति, नत्थि चेत्थ कामालयो वा दिट्ठालयो वाति निब्बानं एतानि नामानि लभति. समूलं तण्हन्ति तण्हाय अविज्जा मूलं नाम. अब्बुय्हाति अरहत्तमग्गेन तं समूलकं उद्धरित्वा. निच्छातो परिनिब्बुतोति नित्तण्हो परिनिब्बुतो नामाति वत्तुं वट्टतीति. पठमं.