१५. दिट्ठिवग्गो

१-९. अज्झत्तसुत्तादिवण्णना

१५०-१५८. दिट्ठिवग्गस्स पठमे किं उपादायाति किं पटिच्च. दुतिये किं अभिनिविस्साति किं अभिनिविसित्वा, पच्चयं कत्वाति अत्थो. ततियादीसु दिट्ठीतिआदीनि पुग्गलज्झासयेन वुत्तानि. पठमादीनि.

१०. आनन्दसुत्तवण्णना

१५९. दसमे उपसङ्कमीति अञ्ञे भिक्खू पञ्चक्खन्धकम्मट्ठानं कथापेत्वा युञ्जित्वा घटेत्वा अरहत्तं पत्वा सत्थु सन्तिके अञ्ञं ब्याकरोन्ते दिस्वा ‘‘अहम्पि पञ्चक्खन्धकम्मट्ठानं कथापेत्वा युञ्जन्तो घटेन्तो, अरहत्तं पत्वा अञ्ञं ब्याकरिस्सामी’’ति चिन्तेत्वा उपसङ्कमि. सत्था पन अत्तनो धरमानकाले थेरस्स उपरिमग्गत्तयवज्झानं किलेसानं पहानं अपस्सन्तोपि ‘‘इमस्स चित्तं गण्हिस्सामी’’ति कथेसि. तस्सापि एकं द्वे वारे मनसि कत्वाव बुद्धुपट्ठानवेला जाताति गन्तब्बं होति. इतिस्स चित्तं सम्पहंसमानो विमुत्तिपरिपाचनीयधम्मोव सो कम्मट्ठानानुयोगो जातोति. दसमं.

दिट्ठिवग्गो पन्नरसमो.

उपरिपण्णासको समत्तो.

खन्धसंयुत्तवण्णना निट्ठिता.