१२. धम्मकथिकवग्गो

१-२. अविज्जासुत्तादिवण्णना

११३-११४. धम्मकथिकवग्गस्स पठमे एत्तावता च अविज्जागतो होतीति यावता इमाय चतूसु सच्चेसु अञ्ञाणभूताय अविज्जाय समन्नागतो, एत्तावता अविज्जागतो होतीति अत्थो. दुतियेपि एसेव नयो. पठमदुतियानि.

३. धम्मकथिकसुत्तवण्णना

११५. ततिये पठमेन धम्मकथिको, दुतियेन सेखभूमि, ततियेन असेखभूमीति एवं धम्मकथिकं पुच्छितेन विसेसेत्वा द्वे भूमियो कथिता. ततियं.

४. दुतियधम्मकथिकसुत्तवण्णना

११६. चतुत्थे तिस्सन्नम्पि पुच्छानं तीणि विस्सज्जनानि कथितानि. चतुत्थं.

५-९. बन्धनसुत्तादिवण्णना

११७-१२१. पञ्चमे अतीरदस्सीति तीरं वुच्चति वट्टं, तं न पस्सति. अपारदस्सीति पारं वुच्चति निब्बानं, तं न पस्सति. बद्धोति किलेसबन्धनेन बद्धो हुत्वा जीयति च मीयति च अस्मा लोका परं लोकं गच्छतीति. इमस्मिं सुत्ते वट्टदुक्खं कथितन्ति. छट्ठादीनि उत्तानत्थानेव. पञ्चमादीनि.

१०. सीलवन्तसुत्तवण्णना

१२२. दसमे अनिच्चतोतिआदीसु हुत्वा अभावाकारेन अनिच्चतो, पटिपीळनाकारेन दुक्खतो, आबाधट्ठेन रोगतो, अन्तोदोसट्ठेन गण्डतो, तेसं तेसं गण्डानं पच्चयभावेन वा खणनट्ठेन वा सल्लतो दुक्खट्ठेन अघतो, विसभागमहाभूतसमुट्ठानआबाधपच्चयट्ठेन आबाधतो, असकट्ठेन परतो, पलुज्जनट्ठेन पलोकतो, सत्तसुञ्ञतट्ठेन सुञ्ञतो, अत्ताभावेन अनत्ततो. एवमेत्थ ‘‘अनिच्चतो पलोकतो’’ति द्वीहि पदेहि अनिच्चमनसिकारो, ‘‘सुञ्ञतो अनत्ततो’’ति द्वीहि अनत्तमनसिकारो, सेसेहि दुक्खमनसिकारो वुत्तोति वेदितब्बो. सेसमेत्थ उत्तानमेव. दसमं.

११. सुतवन्तसुत्तवण्णना

१२३. तथा एकादसमे. दसमस्मिञ्हि ‘‘सीलवता’’ति चतुपारिसुद्धिसीलं वुत्तं, इध सुतवताति कम्मट्ठानसुतं इदमेव नानाकरणं. एकादसमं.

१२-१३. कप्पसुत्तादिवण्णना

१२४-१२५. द्वादसमतेरसमानि राहुलोवादसदिसानेवाति. द्वादसमतेरसमानि.

धम्मकथिकवग्गो द्वादसमो.