१०. पुप्फवग्गो

१. नदीसुत्तवण्णना

९३. पुप्फवग्गस्स पठमे पब्बतेय्याति पब्बते पवत्ता. ओहारिनीति सोते पतितपतितानि तिणपण्णकट्ठादीनि हेट्ठाहारिनी. दूरङ्गमाति निक्खन्तट्ठानतो पट्ठाय चतुपञ्चयोजनसतगामिनी. सीघसोताति चण्डसोता. कासातिआदीनि सब्बानि तिणजातानि. रुक्खाति एरण्डादयो दुब्बलरुक्खा. ते नं अज्झोलम्बेय्युन्ति ते तीरे जातापि ओनमित्वा अग्गेहि उदकं फुसन्तेहि अधिओलम्बेय्युं, उपरि लम्बेय्युन्ति अत्थो. पलुज्जेय्युन्ति समूलमत्तिकाय सद्धिं सीसे पतेय्युं. सो तेहि अज्झोत्थटो वालुकमत्तिकोदकेहि मुखं पविसन्तेहि महाविनासं पापुणेय्य.

एवमेव खोति एत्थ सोते पतितपुरिसो विय वट्टसन्निस्सितो बालपुथुज्जनो दट्ठब्बो, उभतोतीरे कासादयो विय दुब्बलपञ्चक्खन्धा, ‘‘इमे गहितापि मं तारेतुं न सक्खिस्सन्ती’’ति तस्स पुरिसस्स अजानित्वा गहणं विय इमे खन्धा ‘‘न मय्हं सहाया’’ति बालपुथुज्जनस्स अजानित्वा चतूहि गाहेहि गहणं, गहितगहितानं पलुज्जनत्ता पुरिसस्स ब्यसनप्पत्ति विय चतूहि गाहेहि गहितानं खन्धानं विपरिणामे बालपुथुज्जनस्स सोकादिब्यसनप्पत्ति वेदितब्बा. पठमं.

२. पुप्फसुत्तवण्णना

९४. दुतिये विवदतीति ‘‘अनिच्चं दुक्खं अनत्ता असुभ’’न्ति यथासभावेन वदन्तेन सद्धिं ‘‘निच्चं सुखं अत्ता सुभ’’न्ति वदन्तो विवदति. लोकधम्मोति खन्धपञ्चकं. तञ्हि लुज्जनसभावत्ता लोकधम्मोति वुच्चति. किन्ति करोमीति कथं करोमि? मय्हञ्हि पटिपत्तिकथनमेव भारो, पटिपत्तिपूरणं पन कुलपुत्तानं भारोति दस्सेति. इमस्मिं सुत्ते तयो लोका कथिता. ‘‘नाहं, भिक्खवे, लोकेना’’ति एत्थ हि सत्तलोको कथितो, ‘‘अत्थि, भिक्खवे, लोके लोकधम्मो’’ति एत्थ सङ्खारलोको, ‘‘तथागतो लोके जातो लोके संवड्ढो’’ति एत्थ ओकासलोको कथितो. दुतियं.

३. फेणपिण्डूपमसुत्तवण्णना

९५. ततिये गङ्गाय नदिया तीरेति अयुज्झपुरवासिनो अपरिमाणभिक्खुपरिवारं चारिकं चरमानं तथागतं अत्तनो नगरं सम्पत्तं दिस्वा एकस्मिं गङ्गाय निवत्तनट्ठाने महावनसण्डमण्डितप्पदेसे सत्थु विहारं कत्वा अदंसु. भगवा तत्थ विहरति. तं सन्धाय वुत्तं ‘‘गङ्गाय नदिया तीरे’’ति. तत्र खो भगवा भिक्खू आमन्तेसीति तस्मिं विहारे वसन्तो भगवा सायन्हसमयं गन्धकुटितो निक्खमित्वा गङ्गातीरे पञ्ञत्तवरबुद्धासने निसिन्नो गङ्गाय नदिया आगच्छन्तं महन्तं फेणपिण्डं दिस्वा, ‘‘मम सासने पञ्चक्खन्धनिस्सितं एकं धम्मं कथेस्सामी’’ति चिन्तेत्वा परिवारेत्वा निसिन्ने भिक्खू आमन्तेसि.

महन्तं फेणपिण्डन्ति उट्ठानुट्ठाने बदरपक्कप्पमाणतो पट्ठाय अनुसोतागमनेन अनुपुब्बेन पवड्ढित्वा पब्बतकूटमत्तं जातं, यत्थ उदकसप्पादयो अनेकपाणयो निवसन्ति, एवरूपं महन्तं फेणपिण्डं. आवहेय्याति आहरेय्य. सो पनायं फेणपिण्डो उट्ठितट्ठानेपि भिज्जति, थोकं गन्त्वापि, एकद्वियोजनादिवसेन दूरं गन्त्वापि, अन्तरा पन अभिज्जन्तोपि महासमुद्दं पत्वा अवस्समेव भिज्जति. निज्झायेय्याति ओलोकेय्य. योनिसो उपपरिक्खेय्याति कारणेन उपपरिक्खेय्य. किञ्हि सिया, भिक्खवे, फेणपिण्डे सारोति, भिक्खवे, फेणपिण्डम्हि सारो नाम किं भवेय्य? विलीयित्वा विद्धंसेय्येव.

एवमेव खोति यथा फेणपिण्डो निस्सारो, एवं रूपम्पि निच्चसारधुवसारअत्तसारविरहेन निस्सारमेव. यथा च सो ‘‘इमिना पत्तं वा थालकं वा करिस्सामी’’ति गहेतुं न सक्का, गहितोपि तमत्थं न साधेति, भिज्जति एव, एवं रूपम्पि निच्चन्ति वा धुवन्ति वा अहन्ति वा ममन्ति वा गहेतुं न सक्का, गहितम्पि न तथा तिट्ठति, अनिच्चं दुक्खं अनत्ता असुभञ्ञेव होतीति एवं फेणपिण्डसदिसमेव होति. यथा वा पन फेणपिण्डो छिद्दावछिद्दो अनेकसन्धिघटितो बहूनं उदकसप्पादीनं पाणानं आवासो, एवं रूपम्पि छिद्दावछिद्दं अनेकसन्धिघटितं, कुलवसेनेवेत्थ असीति किमिकुलानि वसन्ति, तदेव तेसं सूतिघरम्पि वच्चकुटिपि गिलानसालापि सुसानम्पि, न ते अञ्ञत्थ गन्त्वा गब्भवुट्ठानादीनि करोन्ति, एवम्पि फेणपिण्डसदिसं.

यथा च फेणपिण्डो आदितो बदरपक्कमत्तो हुत्वा अनुपुब्बेन पब्बतकूटमत्तोपि होति, एवं रूपम्पि आदितो कललमत्तं हुत्वा अनुपुब्बेन ब्याममत्तम्पि गोमहिंसहत्थिआदीनं वसेन पब्बतकूटादिमत्तं होति मच्छकच्छपादीनं वसेन अनेकयोजनसतपमाणम्पि, एवम्पि फेणपिण्डसदिसं. यथा च फेणपिण्डो उट्ठितमत्तोपि भिज्जति, थोकं गन्त्वापि, दूरं गन्त्वापि, समुद्दं पत्वा पन अवस्समेव भिज्जति, एवमेवं रूपम्पि कललभावेपि भिज्जति अब्बुदादिभावेपि, अन्तरा पन अभिज्जमानम्पि वस्ससतायुकानं वस्ससतं पत्वा अवस्समेव भिज्जति, मरणमुखे चुण्णविचुण्णं होति, एवम्पि फेणपिण्डसदिसं.

किञ्हि सिया, भिक्खवे, वेदनाय सारोतिआदीसु वेदनादीनं पुब्बुळादीहि एवं सदिसता वेदितब्बा. यथा हि पुब्बुळो असारो एवं वेदनापि. यथा च सो अबलो अगय्हूपगो, न सक्का तं गहेत्वा फलकं वा आसनं वा कातुं, गहितोपि भिज्जतेव, एवं वेदनापि अबला अगय्हूपगा, न सक्का निच्चाति वा धुवाति वा गहेतुं, गहितापि न तथा तिट्ठति, एवं अगय्हूपगतायपि वेदना पुब्बुळसदिसा. यथा पन तस्मिं तस्मिं उदकबिन्दुम्हि पुब्बुळो उप्पज्जति चेव भिज्जति च, न चिरट्ठितिको होति, एवं वेदनापि उप्पज्जति चेव भिज्जति च, न चिरट्ठितिका होति. एकच्छरक्खणे कोटिसतसहस्ससङ्खा उप्पज्जित्वा निरुज्झति. यथा च पुब्बुळो उदकतलं, उदकबिन्दुं, उदकजल्लं, सङ्कड्ढित्वा पुटं कत्वा गहणवातञ्चाति चत्तारि कारणानि पटिच्च उप्पज्जति, एवं वेदनापि वत्थुं आरम्मणं किलेसजल्लं फस्ससङ्घट्टनञ्चाति चत्तारि कारणानि पटिच्च उप्पज्जति. एवम्पि वेदना पुब्बुळसदिसा.

सञ्ञापि असारकट्ठेन मरीचिसदिसा. तथा अगय्हूपगट्ठेन. न हि सक्का तं गहेत्वा पिवितुं वा न्हायितुं वा भाजनं वा पूरेतुं. अपिच यथा मरीचि विप्फन्दति, सञ्जातूमिवेगा विय खायति, एवं नीलसञ्ञादिभेदा सञ्ञापि नीलादिअनुभवनत्थाय फन्दति विप्फन्दति. यथा च मरीचि महाजनं विप्पलम्भेति ‘‘पुण्णवापि विय पुण्णनदी विय दिस्सती’’ति वदापेति, एवं सञ्ञापि विप्पलम्भेति, ‘‘इदं नीलकं सुभं सुखं निच्च’’न्ति वदापेति. पीतकादीसुपि एसेव नयो. एवं सञ्ञा विप्पलम्भनेनापि मरीचिसदिसा.

अकुक्कुकजातन्ति अन्तो असञ्जातघनदण्डकं. सङ्खारापि असारकट्ठेन कदलिक्खन्धसदिसा, तथा अगय्हूपगट्ठेन. यथेव हि कदलिक्खन्धतो किञ्चि गहेत्वा न सक्का गोपानसिआदीनं अत्थाय उपनेतुं, उपनीतम्पि न तथा होति, एवं सङ्खारापि न सक्का निच्चादिवसेन गहेतुं, गहितापि न तथा होन्ति. यथा च कदलिक्खन्धो बहुपत्तवट्टिसमोधानो होति, एवं सङ्खारक्खन्धो बहुधम्मसमोधानो. यथा च कदलिक्खन्धो नानालक्खणो. अञ्ञोयेव हि बाहिराय पत्तवट्टिया वण्णो, अञ्ञो ततो अब्भन्तरअब्भन्तरानं, एवमेव सङ्खारक्खन्धेपि अञ्ञदेव फस्सस्स लक्खणं, अञ्ञा चेतनादीनं, समोधानेत्वा पन सङ्खारक्खन्धोव वुच्चतीति एवम्पि सङ्खारक्खन्धो कदलिक्खन्धसदिसो.

चक्खुमा पुरिसोति मंसचक्खुना चेव पञ्ञाचक्खुना चाति द्वीहि चक्खूहि चक्खुमा. मंसचक्खुम्पि हिस्स परिसुद्धं वट्टति अपगतपटलपिळकं, पञ्ञाचक्खुम्पि असारभावदस्सनसमत्थं. विञ्ञाणम्पि असारकट्ठेन मायासदिसं, तथा अगय्हूपगट्ठेन. यथा च माया इत्तरा लहुपच्चुपट्ठाना, एवं विञ्ञाणं. तञ्हि ततोपि इत्तरतरञ्चेव लहुपच्चुपट्ठानतरञ्च. तेनेव हि चित्तेन पुरिसो आगतो विय गतो विय ठितो विय निसिन्नो विय होति. अञ्ञदेव च आगमनकाले चित्तं, अञ्ञं गमनकालादीसु. एवम्पि विञ्ञाणं मायासदिसं. माया च महाजनं वञ्चेति, यंकिञ्चिदेव ‘‘इदं सुवण्णं रजतं मुत्ता’’ति गाहापेति, विञ्ञाणम्पि महाजनं वञ्चेति. तेनेव हि चित्तेन आगच्छन्तं विय गच्छन्तं विय ठितं विय निसिन्नं विय कत्वा गाहापेति. अञ्ञदेव च आगमने चित्तं, अञ्ञं गमनादीसु. एवम्पि विञ्ञाणं मायासदिसं.

भूरिपञ्ञेनाति सण्हपञ्ञेन चेव विपुलवित्थतपञ्ञेन च. आयूति जीवितिन्द्रियं. उस्माति कम्मजतेजोधातु. परभत्तन्ति नानाविधानं किमिगणादीनं भत्तं हुत्वा. एतादिसायं सन्तानोति एतादिसी अयं पवेणी मतकस्स याव सुसाना घट्टीयतीति. मायायं बाललापिनीति य्वायं विञ्ञाणक्खन्धो नाम, अयं बालमहाजनलपापनिकमाया नाम. वधकोति द्वीहि कारणेहि अयं खन्धसङ्खातो वधको अञ्ञमञ्ञघातनेनपि, खन्धेसु सति वधो पञ्ञायतीतिपि. एका हि पथवीधातु भिज्जमाना सेसधातुयो गहेत्वाव भिज्जति, तथा आपोधातुआदयो. रूपक्खन्धो च भिज्जमानो अरूपक्खन्धे गहेत्वाव भिज्जति, तथा अरूपक्खन्धेसु वेदनादयो सञ्ञादिके. चत्तारोपि चेते वत्थुरूपन्ति एवं अञ्ञमञ्ञवधनेनेत्थ वधकता वेदितब्बा. खन्धेसु पन सति वधबन्धनच्छेदादीनि सम्भवन्ति, एवं एतेसु सति वधभावतोपि वधकता वेदितब्बा. सब्बसंयोगन्ति सब्बं दसविधम्पि संयोजनं. अच्चुतं पदन्ति निब्बानं. ततियं.

४-६. गोमयपिण्डसुत्तादिवण्णना

९६-९८. चतुत्थे सस्सतिसमन्ति सिनेरुमहापथवीचन्दिमसूरियादीहि सस्सतीहि समं. परित्तं गोमयपिण्डन्ति अप्पमत्तकं मधुकपुप्फप्पमाणं गोमयखण्डं. कुतो पनानेनेतं लद्धन्ति. परिभण्डकरणत्थाय आभततो गहितन्ति एके. अत्थस्स पन विञ्ञापनत्थं इद्धिया अभिसङ्खरित्वा हत्थारुळ्हं कतन्ति वेदितब्बन्ति. अत्तभावपटिलाभोति पटिलद्धअत्तभावो. न यिदं ब्रह्मचरियवासो पञ्ञायेथाति अयं मग्गब्रह्मचरियवासो नाम न पञ्ञायेय्य. मग्गो हि तेभूमकसङ्खारे विवट्टेन्तो उप्पज्जति. यदि च एत्तको अत्तभावो निच्चो भवेय्य, मग्गो उप्पज्जित्वापि सङ्खारवट्टं विवट्टेतुं न सक्कुणेय्याति ब्रह्मचरियवासो न पञ्ञायेथ.

इदानि सचे कोचि सङ्खारो निच्चो भवेय्य, मया महासुदस्सनराजकाले अनुभूता सम्पत्ति निच्चा भवेय्य, सापि च अनिच्चाति तं दस्सेतुं भूतपुब्बाहं भिक्खु राजा अहोसिन्तिआदिमाह. तत्थ कुसावतीराजधानिप्पमुखानीति कुसावतीराजधानी तेसं नगरानं पमुखा, सब्बसेट्ठाति अत्थो. सारमयानीति रत्तचन्दनसारमयानि. उपधानं पन सब्बेसं सुत्तमयमेव. गोणकत्थतानीति चतुरङ्गुलाधिकलोमेन काळकोजवेन अत्थतानि, यं महापिट्ठियकोजवोति वदन्ति. पटकत्थतानीति उभतोलोमेन उण्णामयेन सेतकम्बलेन अत्थतानि. पटलिकत्थतानीति घनपुप्फेन उण्णामयअत्थरणेन अत्थतानि. कदलिमिगपवरपच्चत्थरणानीति कदलिमिगचम्ममयेन उत्तमपच्चत्थरणेन अत्थतानि. तं किर पच्चत्थरणं सेतवत्थस्स उपरि कदलिमिगचम्मं अत्थरित्वा सिब्बेत्वा करोन्ति. सउत्तरच्छदानीति सह उत्तरच्छदेन, उपरि बद्धेन रत्तवितानेन सद्धिन्ति अत्थो. उभतोलोहितकूपधानीति सीसूपधानञ्च पादूपधानञ्चाति पल्लङ्कानं उभतोलोहितकूपधानानि. वेजयन्तरथप्पमुखानीति एत्थ वेजयन्तो नाम तस्स रञ्ञो रथो, यस्स चक्कानं इन्दनीलमणिमया नाभि, सत्तरतनमया अरा, पवाळमया नेमि, रजतमयो अक्खो, इन्दनीलमणिमयं उपक्खरं, रजतमयं कुब्बरं. सो तेसं रथानं पमुखो अग्गो. दुकूलसन्दानानीति दुकूलसन्थरानि. कंसूपधारणानीति रजतमयदोहभाजनानि. वत्थकोटिसहस्सानीति यथारुचितं परिभुञ्जिस्सतीति न्हत्वा ठितकाले उपनीतवत्थानेव सन्धायेतं वुत्तं. भत्ताभिहारोति अभिहरितब्बभत्तं.

यमहं तेन समयेन अज्झावसामीति यत्थ वसामि, तं एकञ्ञेव नगरं होति, अवसेसेसु पुत्तधीतादयो चेव दासमनुस्सा च वसिंसु. पासादकूटागारादीसुपि एसेव नयो. पल्लङ्कादीसु एकंयेव सयं परिभुञ्जति, सेसा पुत्तादीनं परिभोगा होन्ति. इत्थीसु एकाव पच्चुपट्ठाति, सेसा परिवारमत्ता होन्ति. वेलामिकाति खत्तियस्स वा ब्राह्मणिया, ब्राह्मणस्स वा खत्तियानिया कुच्छिस्मिं जाता. परिदहामीति एकंयेव दुस्सयुगं निवासेमि, सेसानि परिवारेत्वा विचरन्तानं असीतिसहस्साधिकानं सोळसन्नं पुरिससतसहस्सानं होन्तीति दस्सेति. भुञ्जामीति परमप्पमाणेन नाळिकोदनमत्तं भुञ्जामि, सेसं परिवारेत्वा विचरन्तानं चत्तालीससहस्साधिकानं अट्ठन्नं पुरिससतसहस्सानं होतीति दस्सेति. एकथालिपाको हि दसन्नं जनानं पहोति.

इति इमं महासुदस्सनकाले सम्पत्तिं दस्सेत्वा इदानि तस्सा अनिच्चतं दस्सेन्तो इति खो भिक्खूतिआदिमाह. तत्थ विपरिणताति पकतिजहनेन निब्बुतपदीपो विय अपण्णत्तिकभावं गता. एवं अनिच्चा खो भिक्खु सङ्खाराति एवं हुत्वाअभावट्ठेन अनिच्चा. एत्तावता भगवा यथा नाम पुरिसो सतहत्थुब्बेधे चम्पकरुक्खे निस्सेणिं बन्धित्वा अभिरुहित्वा चम्पकपुप्फं आदाय निस्सेणिं मुञ्चन्तो ओतरेय्य, एवमेवं निस्सेणिं बन्धन्तो विय अनेकवस्सकोटिसतसहस्सुब्बेधं महासुदस्सनसम्पत्तिं आरुय्ह सम्पत्तिमत्थके ठितं अनिच्चलक्खणं आदाय निस्सेणिं मुञ्चन्तो विय ओतिण्णो. एवं अद्धुवाति एवं उदकपुब्बुळादयो विय धुवभावरहिता. एवं अनस्सासिकाति एवं सुपिनके पीतपानीयं विय अनुलित्तचन्दनं विय च अस्सासविरहिता. इति इमस्मिं सुत्ते अनिच्चलक्खणं कथितं. पञ्चमे सब्बं वुत्तनयमेव. छट्ठं तथा बुज्झनकस्स अज्झासयेन वुत्तं. चतुत्थादीनि.

७. गद्दुलबद्धसुत्तवण्णना

९९. सत्तमे यं महासमुद्दोति यस्मिं समये पञ्चमे सूरिये उट्ठिते महासमुद्दो उस्सुस्सति. दुक्खस्स अन्तकिरियन्ति चत्तारि सच्चानि अप्पटिविज्झित्वा अविज्जाय निवुतानंयेव सतं वट्टदुक्खस्स अन्तकिरियं परिच्छेदं न वदामि. सा गद्दुलबद्धोति गद्दुलेन बद्धसुनखो. खीलेति पथवियं आकोटिते महाखीले. थम्भेति निखणित्वा ठपिते थम्भे. एवमेव खोति एत्थ सुनखो विय वट्टनिस्सितो बालो, गद्दुलो विय दिट्ठि, थम्भो विय सक्कायो, गद्दुलरज्जुया थम्भे उपनिबद्धसुनखस्स थम्भानुपरिवत्तनं विय दिट्ठितण्हाय सक्काये बद्धस्स पुथुज्जनस्स सक्कायानुपरिवत्तनं वेदितब्बं. सत्तमं.

८. दुतियगद्दुलबद्धसुत्तवण्णना

१००. अट्ठमे तस्माति यस्मा दिट्ठिगद्दुलनिस्सिताय तण्हारज्जुया सक्कायथम्भे उपनिबद्धो वट्टनिस्सितो बालपुथुज्जनो सब्बिरियापथेसु खन्धपञ्चकं निस्सायेव पवत्तति, यस्मा वा दीघरत्तमिदं चित्तं संकिलिट्ठं रागेन दोसेन मोहेन, तस्मा. चित्तसंकिलेसाति सुन्हातापि हि सत्ता चित्तसंकिलेसेनेव संकिलिस्सन्ति, मलग्गहितसरीरापि चित्तस्स वोदानत्ता विसुज्झन्ति. तेनाहु पोराणा –

‘‘रूपम्हि संकिलिट्ठम्हि, संकिलिस्सन्ति माणवा;

रूपे सुद्धे विसुज्झन्ति, अनक्खातं महेसिना.

‘‘चित्तम्हि संकिलिट्ठम्हि, संकिलिस्सन्ति माणवा;

चित्ते सुद्धे विसुज्झन्ति, इति वुत्तं महेसिना’’ति.

चरणं नाम चित्तन्ति विचरणचित्तं. सङ्खा नाम ब्राह्मणपासण्डिका होन्ति, ते पटकोट्ठकं कत्वा तत्थ नानप्पकारा सुगतिदुग्गतिवसेन सम्पत्तिविपत्तियो लेखापेत्वा, ‘‘इमं कम्मं कत्वा इदं पटिलभति, इदं कत्वा इद’’न्ति दस्सेन्ता तं चित्तं गहेत्वा विचरन्ति. चित्तेनेव चित्तितन्ति चित्तकारेन चिन्तेत्वा कतत्ता चित्तेन चिन्तितं नाम. चित्तञ्ञेव चित्ततरन्ति तस्स चित्तस्स उपायपरियेसनचित्तं ततोपि चित्ततरं. तिरच्छानगता पाणा चित्तेनेव चित्तिताति कम्मचित्तेनेव चित्तिता. तं पन कम्मचित्तं इमे वट्टकतित्तिरादयो ‘‘एवं चित्ता भविस्सामा’’ति आयूहन्ता नाम नत्थि. कम्मं पन योनिं उपनेति, योनिमूलको तेसं चित्तभावो. योनिउपगता हि सत्ता तंतंयोनिकेहि सदिसचित्ताव होन्ति. इति योनिसिद्धो चित्तभावो, कम्मसिद्धा योनीति वेदितब्बा.

अपिच चित्तं नामेतं सहजातं सहजातधम्मचित्तताय भूमिचित्तताय वत्थुचित्तताय द्वारचित्तताय आरम्मणचित्तताय कम्मनानत्तमूलकानं लिङ्गनानत्तसञ्ञानानत्तवोहारनानत्तादीनं अनेकविधानं चित्तानं निप्फादनतायपि तिरच्छानगतचित्ततो चित्ततरमेव वेदितब्बं.

रजकोति वत्थेसु रङ्गेन रूपसमुट्ठापनको. सो पन अछेको अमनापं रूपं करोति, छेको मनापं दस्सनीयं, एवमेव पुथुज्जनो अकुसलचित्तेन वा ञाणविप्पयुत्तकुसलेन वा चक्खुसम्पदादिविरहितं विरूपं समुट्ठापेति, ञाणसम्पयुत्तकुसलेन चक्खुसम्पदादिसम्पन्नं अभिरूपं. अट्ठमं.

९. वासिजटसुत्तवण्णना

१०१. नवमे सेय्यथापि, भिक्खवे, कुक्कुटिया अण्डानीति इमा कण्हपक्खसुक्कपक्खवसेन द्वे उपमा वुत्ता. तासु कण्हपक्खउपमा अत्थस्स असाधिका, इतरा साधिकाति. सुक्कपक्खउपमाय एवं अत्थो वेदितब्बो – सेय्यथाति ओपम्मत्थे निपातो, अपीति सम्भावनत्थे. उभयेनापि सेय्यथा नाम, भिक्खवेति दस्सेति. कुक्कुटिया अण्डानि अट्ठ वा दस वा दस वा द्वादस वाति एत्थ पन किञ्चापि कुक्कुटिया वुत्तप्पकारतो ऊनाधिकानिपि अण्डानि होन्ति, वचनसिलिट्ठताय पन एवं वुत्तं. एवञ्हि लोके सिलिट्ठवचनं होति. तानस्सूति तानि अस्सु, तानि भवेय्युन्ति अत्थो. कुक्कुटिया सम्मा अधिसयितानीति ताय च जनेत्तिया कुक्कुटिया पक्खे पसारेत्वा तेसं उपरि सयन्तिया सम्मा अधिसयितानि. सम्मा परिसेदितानीति कालेन कालं उतुं गण्हापेन्तिया सुट्ठु समन्ततो सेदितानि उस्मीकतानि. सम्मा परिभावितानीति कालेन कालं सुट्ठु समन्ततो भावितानि, कुक्कुटगन्धं गाहापितानीति अत्थो. किञ्चापि तस्सा कुक्कुटियाति तस्सा कुक्कुटिया इमिना तिविधकिरियाकरणेन अप्पमादं कत्वा किञ्चापि न एवं इच्छा उपज्जेय्य. अथ खो भब्बाव तेति अथ खो ते कुक्कुटपोतका वुत्तनयेन सोत्थिना अभिनिब्भिज्जितुं भब्बाव. ते हि यस्मा ताय कुक्कुटिया एवं तीहाकारेहि तानि अण्डानि परिपालियमानानि न पूतीनि होन्ति, यो नेसं अल्लसिनेहो, सोपि परियादानं गच्छति, कपालं तनुकं होति, पादनखसिखा च मुखतुण्डकञ्च खरं होति, सयम्पि परिणामं गच्छन्ति, कपालस्स तनुत्ता बहि आलोको अन्तो पञ्ञायति, तस्मा ‘‘चिरं वत मयं सङ्कुटितहत्थपादा सम्बाधे सयिम्हा, अयञ्च बहि आलोको दिस्सति, एत्थ दानि नो सुखविहारो भविस्सती’’ति निक्खमितुकामा हुत्वा कपालं पादेन पहरन्ति, गीवं पसारेन्ति, ततो तं कपालं द्वेधा भिज्जति. अथ ते पक्खे विधुनन्ता तंखणानुरूपं विरवन्ता निक्खमन्तियेव, निक्खमित्वा च गामक्खेत्तं उपसोभयमाना विचरन्ति.

एवमेव खोति इदं ओपम्मसम्पटिपादनं. तं एवं अत्थेन संसन्दित्वा वेदितब्बं – तस्सा कुक्कुटिया अण्डेसु तिविधकिरियाकरणं विय हि इमस्स भिक्खुनो भावानुयोगं अनुयुत्तकालो, कुक्कुटिया तिविधकिरियासम्पादनेन अण्डानं अपूतिभावो विय भावनानुयोगमनुयुत्तस्स भिक्खुनो तिविधानुपस्सनासम्पादनेन विपस्सनाञाणस्स अपरिहानि, तस्सा तिविधकिरियाकरणेन अल्लसिनेहपरियादानं विय तस्स भिक्खुनो तिविधानुपस्सनासम्पादनेन भवत्तयानुगतनिकन्तिसिनेहपरियादानं, अण्डकपालानं तनुभावो विय तस्स भिक्खुनो अविज्जण्डकोसस्स तनुभावो, कुक्कुटपोतकानं पादनखसिखमुखतुण्डकानं थद्धखरभावो विय भिक्खुनो विपस्सनाञाणस्स तिक्खखरविप्पसन्न सूरभावो, कुक्कुटपोतकानं परिणामकालो विय भिक्खुनो विपस्सनाञाणस्स परिणामकालो वड्ढितकालो गब्भग्गहणकालो, कुक्कुटपोतकानं पादनखसिखाय वा मुखतुण्डकेन वा अण्डकोसं पदालेत्वा पक्खे पप्फोटेत्वा सोत्थिना अभिनिब्भिदाकालो विय तस्स भिक्खुनो विपस्सनाञाणगब्भं गण्हापेत्वा विचरन्तस्स तज्जातिकं उतुसप्पायं वा भोजनसप्पायं वा पुग्गलसप्पायं वा धम्मस्सवनसप्पायं वा लभित्वा एकासने निसिन्नस्सेव विपस्सनं वड्ढेन्तस्स अनुपुब्बाधिगतेन अरहत्तमग्गेन अविज्जण्डकोसं पदालेत्वा अभिञ्ञापक्खे पप्फोटेत्वा सोत्थिना अरहत्तपत्तकालो वेदितब्बो. यथा पन कुक्कुटपोतकानं परिणतभावं ञत्वा मातापि अण्डकोसं भिन्दति, एवं तथारूपस्स भिक्खुनो ञाणपरिपाकं ञत्वा सत्थापि –

‘‘उच्छिन्द सिनेहमत्तनो, कुमुदं सारदिकंव पाणिना;

सन्तिमग्गमेव ब्रूहय, निब्बानं सुगतेन देसित’’न्ति. (ध. प. २८५) –

आदिना नयेन ओभासं फरित्वा गाथाय अविज्जण्डकोसं पहरति. सो गाथापरियोसाने अविज्जण्डकोसं भिन्दित्वा अरहत्तं पापुणाति. ततो पट्ठाय यथा ते कुक्कुटपोतका गामक्खेत्तं उपसोभयमाना तत्थ विचरन्ति, एवं अयम्पि महाखीणासवो निब्बानारम्मणं फलसमापत्तिं अप्पेत्वा सङ्घारामं उपसोभयमानो विचरति.

पलगण्डस्साति वड्ढकिस्स. सो हि ओलम्बकसङ्खातं पलं धारेत्वा दारूनं गण्डं हरतीति पलगण्डोति वुच्चति. वासिजटेति वासिदण्डकस्स गहणट्ठाने. एत्तकं वत मे अज्ज आसवानं खीणन्ति पब्बजितस्स हि पब्बज्जासङ्खेपेन उद्देसेन परिपुच्छाय योनिसो मनसिकारेन वत्तपटिपत्तिया च निच्चकालं आसवा खीयन्ति. एवं खीयमानानं पन तेसं ‘‘एत्तकं अज्ज खीणं, एत्तकं हिय्यो’’ति एवमस्स ञाणं न होतीति अत्थो. इमाय उपमाय विपस्सनायानिसंसो दीपितो. हेमन्तिकेनाति हेमन्तसमयेन. पटिप्पस्सम्भन्तीति थिरभावेन परिहायन्ति.

एवमेव खोति एत्थ महासमुद्दो विय सासनं दट्ठब्बं, नावा विय योगावचरो, नावाय महासमुद्दे परियादानं विय इमस्स भिक्खुनो ऊनपञ्चवस्सकाले आचरियुपज्झायानं सन्तिके विचरणं, नावाय महासमुद्दोदकेन खज्जमानानं बन्धनानं तनुभावो विय भिक्खुनो पब्बज्जासङ्खेपेन उद्देसपरिपुच्छादीहि चेव संयोजनानं तनुभावो, नावाय थले उक्खित्तकालो विय भिक्खुनो निस्सयमुच्चकस्स कम्मट्ठानं गहेत्वा अरञ्ञे वसनकालो, दिवा वातातपेन संसुस्सनं विय विपस्सनाञाणेन तण्हास्नेहसंसुस्सनं, रत्तिं हिमोदकेन तेमनं विय कम्मट्ठानं निस्साय उप्पन्नेन पीतिपामोज्जेन चित्ततेमनं, रत्तिन्दिवं वातातपेन चेव हिमोदकेन च परिसुक्खपरितिन्तानं बन्धनानं दुब्बलभावो विय एकदिवसं उतुसप्पायादीनि लद्धा विपस्सनाञाणपीतिपामोज्जेहि संयोजनानं भिय्योसोमत्ताय दुब्बलभावो, पावुस्सकमेघो विय अरहत्तमग्गञाणं, मेघवुट्ठिउदकेन नावाय बन्धे पूतिभावो विय आरद्धविपस्सकस्स रूपसत्तकादिवसेन विपस्सनं वड्ढेन्तस्स ओक्खायमाने पक्खायमाने कम्मट्ठाने एकदिवसं उतुसप्पायादीनि लद्धा एकपल्लङ्केन निसिन्नस्स अरहत्तफलाधिगमो, पूतिबन्धनावाय कञ्चि कालं ठानं विय खीणसंयोजनस्स अरहतो महाजनं अनुग्गण्हन्तस्स यावतायुकं ठानं, पूतिबन्धनावाय अनुपुब्बेन भिज्जित्वा अपण्णत्तिकभावूपगमो विय खीणासवस्स उपादिण्णक्खन्धभेदेन अनुपादिसेसाय निब्बानधातुया परिनिब्बुतस्स अपण्णत्तिकभावूपगमोति इमाय उपमाय संयोजनानं दुब्बलता दीपिता. नवमं.

१०. अनिच्चसञ्ञासुत्तवण्णना

१०२. दसमे अनिच्चसञ्ञाति अनिच्चं अनिच्चन्ति भावेन्तस्स उप्पन्नसञ्ञा. परियादियतीति खेपयति. सब्बं अस्मिमानन्ति नवविधं अस्मिमानं. मूलसन्तानकानीति सन्तानेत्वा ठितमूलानि. महानङ्गलं विय हि अनिच्चसञ्ञा, खुद्दानुखुद्दकानि मूलसन्तानकानि विय किलेसा, यथा कस्सको कसन्तो नङ्गलेन तानि पदालेति, एवं योगी अनिच्चसञ्ञं भावेन्तो अनिच्चसञ्ञाञाणेन किलेसे पदालेतीति इदमेत्थ ओपम्मसंसन्दनं.

ओधुनातीति हेट्ठा धुनाति. निद्धुनातीति पप्फोटेति. निच्छोटेतीति पप्फोटेत्वा छड्डेति. इधापि पब्बजानि विय किलेसा, लायनं निच्छोटनं विय अनिच्चसञ्ञाञाणन्ति इमिना अत्थेन उपमा संसन्देतब्बा.

वण्टच्छिन्नायाति तिण्हेन खुरप्पेन वण्टच्छिन्नाय. तदन्वयानि भवन्तीति तं अम्बपिण्डिं अनुगच्छन्ति, तस्सा पतमानाय अम्बानि भूमियं पतन्ति. इधापि अम्बपिण्डि विय किलेसा, तिण्हखुरप्पो विय अनिच्चसञ्ञा, यथा खुरप्पेन छिन्नाय अम्बपिण्डिया सब्बानि अम्बानि भूमियं पतन्ति, एवं अनिच्चसञ्ञाञाणेन किलेसानं मूलभूताय अविज्जाय छिन्नाय सब्बकिलेसा समुग्घातं गच्छन्तीति, इदं ओपम्मसंसन्दनं.

कूटङ्गमाति कूटं गच्छन्ति. कूटनिन्नाति कूटं पविसनभावेन कूटे निन्ना. कूटसमोसरणाति कूटे समोसरित्वा ठिता. इधापि कूटं विय अनिच्चसञ्ञा, गोपानसियो विय चतुभूमककुसलधम्मा, यथा सब्बगोपानसीनं कूटं अग्गं, एवं कुसलधम्मानं अनिच्चसञ्ञा अग्गा. ननु च अनिच्चसञ्ञा लोकिया, सा लोकियकुसलानं ताव अग्गं होतु, लोकुत्तरानं कथं अग्गन्ति? तेसम्पि पटिलाभकरणत्थेन अग्गन्ति वेदितब्बा. इमिना उपायेन सब्बासु उपमासु ओपम्मसंसन्दनं वेदितब्बं. पुरिमाहि पनेत्थ तीहि अनिच्चसञ्ञाय किच्चं, पच्छिमाहि बलन्ति. दसमं.

पुप्फवग्गो दसमो.

मज्झिमपण्णासको समत्तो.