६. धनुग्गहसुत्तवण्णना
२२८. छट्ठे दळ्हधम्मा धनुग्गहाति दळ्हधनुनो इस्सासा. दळ्हधनु नाम द्विसहस्सथामं वुच्चति, द्विसहस्सथामं नाम यस्स आरोपितस्स जियाबद्धो लोहसीसादीनं भारो दण्डे गहेत्वा याव कण्डप्पमाणा उक्खित्तस्स पथवितो मुच्चति. सुसिक्खिताति दसद्वादसवस्सानि आचरियकुले उग्गहितसिप्पा. कतहत्थाति यो सिप्पमेव उग्गण्हाति, सो कतहत्थो न होति, इमे पन कतहत्था चिण्णवसीभावा. कतूपासनाति राजकुलादीसु दस्सितसिप्पा.
तस्स पुरिसस्स जवोति एवरूपो अञ्ञो पुरिसो नाम न भूतपुब्बो, बोधिसत्तस्सेव पन जवनहंसकालो नाम आसि. तदा बोधिसत्तो चत्तारि कण्डानि आहरि. तदा किरस्स कनिट्ठभातरो ‘‘मयं, भातिक, सूरियेन सद्धिं जविस्सामा’’ति आरोचेसुं. बोधिसत्तो आह – ‘‘सूरियो सीघजवो, न सक्खिस्सथ तुम्हे तेन सद्धिं जवितु’’न्ति. ते दुतियं ततियम्पि तथेव वत्वा एकदिवसं ‘‘गच्छामा’’ति युगन्धरपब्बतं आरुहित्वा निसीदिंसु. बोधिसत्तो ‘‘कहं मे भातरो’’ति? पुच्छित्वा, ‘‘सूरियेन सद्धिं जवितुं गता’’ति वुत्ते, ‘‘विनस्सिस्सन्ति तपस्सिनो’’ति ते अनुकम्पमानो सयम्पि गन्त्वा तेसं सन्तिके निसीदि. अथ सूरिये उग्गच्छन्ते द्वेपि भातरो सूरियेन सद्धिंयेव आकासं पक्खन्ता, बोधिसत्तोपि तेहि सद्धिंयेव पक्खन्तो. तेसु एकस्स अपत्तेयेव अन्तरभत्तसमये पक्खन्तरेसु अग्गि उट्ठहि, सो भातरं पक्कोसित्वा ‘‘न सक्कोमी’’ति आह. तमेनं बोधिसत्तो ‘‘मा भायी’’ति समस्सासेत्वा पक्खपञ्जरेन पलिवेठेत्वा दरथं विनोदेत्वा ‘‘गच्छा’’ति पेसेसि.
दुतियो याव अन्तरभत्ता जवित्वा पक्खन्तरेसु अग्गिम्हि उट्ठहिते तथेवाह. तम्पि सो तथेव कत्वा ‘‘गच्छा’’ति पेसेसि. सयं पन याव मज्झन्हिका जवित्वा, ‘‘एते बालाति मयापि बालेन न भवितब्ब’’न्ति निवत्तित्वा – ‘‘अदिट्ठसहायकं बाराणसिराजं पस्सिस्सामी’’ति बाराणसिं अगमासि. तस्मिं नगरमत्थके परिब्भमन्ते द्वादसयोजनं नगरं पत्तकटाहेन ओत्थटपत्तो विय अहोसि. अथ परिब्भमन्तस्स परिब्भमन्तस्स तत्थ तत्थ छिद्दानि पञ्ञायिंसु. सयम्पि अनेकहंससहस्ससदिसो पञ्ञायि. सो वेगं पटिसंहरित्वा राजगेहाभिमुखो अहोसि. राजा ओलोकेत्वा – ‘‘आगतो किर मे पियसहायो जवनहंसो’’ति वातपानं विवरित्वा रतनपीठं पञ्ञापेत्वा ओलोकेन्तो अट्ठासि. बोधिसत्तो रतनपीठे निसीदि.
अथस्स राजा सहस्सपाकेन तेलेन पक्खन्तरानि मक्खेत्वा, मधुलाजे चेव मधुरपानकञ्च अदासि. ततो नं कतपरिभोगं ‘‘सम्म, कहं अगमासी’’ति? पुच्छि. सो तं पवत्तिं आरोचेत्वा ‘‘अथाहं, महाराज, याव मज्झन्हिका जवित्वा – ‘नत्थि जवितेन अत्थो’ति निवत्तो’’ति आचिक्खि. अथ राजा आह – ‘‘अहं, सामि, तुम्हाकं सूरियेन सद्धिं जवनवेगं पस्सितुकामो’’ति. दुक्करं, महाराज, न सक्का तया पस्सितुन्ति. तेन हि, सामि, सरिक्खकमत्तम्पि दस्सेहीति. आम, महाराज, धनुग्गहे सन्निपातेहीति. राजा सन्निपातेसि. हंसो ततो चत्तारो गहेत्वा नगरमज्झे तोरणं कारेत्वा अत्तनो गीवाय घण्डं पिळन्धापेत्वा तोरणस्स उपरि निसीदित्वा – ‘‘चत्तारो जना तोरणं निस्साय चतुदिसाभिमुखा एकेकं कण्डं खिपन्तू’’ति वत्वा, सयं पठमकण्डेनेव सद्धिं उप्पतित्वा, तं कण्डं अग्गहेत्वाव, दक्खिणाभिमुखं गतकण्डं धनुतो रतनमत्तापगतं गण्हि. दुतियं द्विरतनमत्तापगतं, ततियं तिरतनमत्तापगतं, चतुत्थं भूमिं अप्पत्तमेव गण्हि. अथ नं चत्तारि कण्डानि गहेत्वा तोरणे निसिन्नकालेयेव अद्दसंसु. सो राजानं आह – ‘‘पस्स, महाराज, एवंसीघो अम्हाकं जवो’’ति. एवं बोधिसत्तेनेव जवनहंसकाले तानि कण्डानि आहरितानीति वेदितब्बानि.
पुरतो धावन्तीति अग्गतो जवन्ति. न पनेता सब्बकालं पुरतोव होन्ति, कदाचि पुरतो, कदाचि पच्छतो होन्ति. आकासट्ठकविमानेसु हि उय्यानानिपि होन्ति पोक्खरणियोपि, ता तत्थ नहायन्ति, उदककीळं कीळमाना पच्छतोपि होन्ति, वेगेन पन गन्त्वा पुन पुरतोव धावन्ति. आयुसङ्खाराति रूपजीवितिन्द्रियं सन्धाय वुत्तं. तञ्हि ततो सीघतरं खीयति. अरूपधम्मानं पन भेदो न सक्का पञ्ञापेतुं. छट्ठं.