७. आणिसुत्तवण्णना

२२९. सत्तमे दसारहानन्ति एवंनामकानं खत्तियानं. ते किर सततो दसभागं गण्हिंसु, तस्मा ‘‘दसारहा’’ति पञ्ञायिंसु. आनकोति एवंलद्धनामो मुदिङ्गो. हिमवन्ते किर महाकुळीरदहो अहोसि. तत्थ महन्तो कुळीरो ओतिण्णोतिण्णं हत्थिं खादति. अथ हत्थी उपद्दुता एकं करेणुं सक्करिंसु ‘‘इमिस्सा पुत्तं निस्साय अम्हाकं सोत्थि भविस्सती’’ति. सापि महेसक्खं पुत्तं विजायि. ते तम्पि सक्करिंसु. सो वुद्धिप्पत्तो मातरं पुच्छि, ‘‘कस्मा मं एते सक्करोन्ती’’ति? सा तं पवत्तिमाचिक्खि. सो ‘‘किं मय्हं कुळीरो पहोति? एथ गच्छामा’’ति महाहत्थिपरिवारो तत्थ गन्त्वा पठममेव ओतरि. कुळीरो उदकसद्देनेव आगन्त्वा तं अग्गहेसि. महन्तो कुळीरस्स अळो, सो तं इतो वा एत्तो वा चालेतुं असक्कोन्तो मुखे सोण्डं पक्खिपित्वा विरवि. हत्थिनो ‘‘यंनिस्साय मयं ‘सोत्थि भविस्सती’ति अमञ्ञिम्हा, सो पठमतरं गहितो’’ति ततो ततो पलायिंसु.

अथस्स माता अविदूरे ठत्वा ‘‘मयं थलनागा, तुम्हे उदकनागा नाम, नागेहि नागो न विहेठेतब्बो’’ति कुळीरं पियवचनेन वत्वा इमं गाथमाह –

‘‘ये कुळीरा समुद्दस्मिं, गङ्गाय यमुनाय च;

तेसं त्वं वारिजो सेट्ठो, मुञ्च रोदन्तिया पज’’न्ति.

मातुगामसद्दो नाम पुरिसे खोभेत्वा तिट्ठति, तस्मा सो गहणं सिथिलमकासि. हत्थिपोतो वेगेन उभो पादे उक्खिपित्वा तं पिट्ठियं अक्कमि. सह अक्कमना पिट्ठि मत्तिकभाजनं विय भिज्जि. अथ नं दन्तेहि विज्झित्वा उक्खिपित्वा थले छड्डेत्वा तुट्ठरवं रवि. अथ नं हत्थी इतो चितो च आगन्त्वा मद्दिंसु. तस्स एको अळो पटिक्कमित्वा पति, तं सक्को देवराजा गहेत्वा गतो.

इतरो पन अळो वातातपेन सुक्खित्वा पक्कलाखारसवण्णो अहोसि, सो देवे वुट्ठे उदकोघेन वुय्हन्तो दसभातिकानं राजूनं उपरिसोते जालं पसारापेत्वा गङ्गाय कीळन्तानं आगन्त्वा जाले लग्गि. ते कीळापरियोसाने जालम्हि उक्खिपियमाने तं दिस्वा पुच्छिंसु ‘‘किं एत’’न्ति? ‘‘कुळीरअळो सामी’’ति. ‘‘न सक्का एस आभरणत्थाय उपनेतुं, परियोनन्धापेत्वा भेरिं करिस्सामा’’ति? परियोनन्धापेत्वा पहरिंसु. सद्दो द्वादसयोजनं नगरं अवत्थरि. ततो आहंसु – ‘‘न सक्का इदं दिवसे दिवसे वादेतुं, छणदिवसत्थाय मङ्गलभेरी होतू’’ति मङ्गलभेरिं अकंसु. तस्मिं वादिते महाजनो अन्हायित्वा अपिळन्धित्वा हत्थियानादीनि आरुय्ह सीघं सन्निपतन्ति. इति महाजनं पक्कोसित्वा विय आनेतीति आनको त्वेवस्स नामं अहोसि.

अञ्ञं आणिं ओदहिंसूति अञ्ञं सुवण्णरजतादिमयं आणिं घटयिंसु. आणिसङ्घाटोव अवसिस्सीति सुवण्णादिमयानं आणीनं सङ्घाटमत्तमेव अवसेसं अहोसि. अथस्स द्वादसयोजनप्पमाणो सद्दो अन्तोसालायम्पि दुक्खेन सुय्यित्थ.

गम्भीराति पाळिवसेन गम्भीरा सल्लसुत्तसदिसा. गम्भीरत्थाति अत्थवसेन गम्भीरा महावेदल्लसुत्तसदिसा (म. नि. १.४४९ आदयो). लोकुत्तराति लोकुत्तरअत्थदीपका. सुञ्ञतप्पटिसंयुत्ताति सत्तसुञ्ञतधम्ममत्तमेव पकासका संखित्तसंयुत्तसदिसा. उग्गहेतब्बं परियापुणितब्बन्ति उग्गहेतब्बे च परियापुणितब्बे च. कविकताति कवीहि कता. इतरं तस्सेव वेवचनं. चित्तक्खराति विचित्रअक्खरा. इतरं तस्सेव वेवचनं. बाहिरकाति सासनतो बहिभूता. सावकभासिताति तेसं तेसं सावकेहि भासिता. सुस्सूसिस्सन्तीति अक्खरचित्तताय चेव सवनसम्पत्तिया च अत्तमना हुत्वा सामणेरदहरभिक्खुमातुगाममहागहपतिकादयो ‘‘एस धम्मकथिको’’ति सन्निपतित्वा सोतुकामा भविस्सन्ति. तस्माति यस्मा तथागतभासिता सुत्तन्ता अनुग्गय्हमाना अन्तरधायन्ति, तस्मा. सत्तमं.