५. सत्तिसुत्तवण्णना

२२७. पञ्चमे पटिलेणिस्सामीतिआदीसु अग्गे पहरित्वा कप्पासवट्टिं विय नामेन्तो निय्यासवट्टिं विय च एकतो कत्वा अल्लियापेन्तो पटिलेणेति नाम. मज्झे पहरित्वा नामेत्वा धाराय वा पहरित्वा द्वेपि धारा एकतो अल्लियापेन्तो पटिकोट्टेति नाम. कप्पासवट्टनकरणीयं विय पवत्तेन्तो चिरकालं संवेल्लितकिलञ्जं पसारेत्वा पुन संवेल्लेन्तो विय च पटिवट्टेति नाम. पञ्चमं.