४. ओक्खासुत्तवण्णना
२२६. चतुत्थे ओक्खासतन्ति महामुखउक्खलीनं सतं. दानं ददेय्याति पणीतभोजनभरितानं महाउक्खलीनं सतं दानं ददेय्य. ‘‘उक्कासत’’न्तिपि पाठो, तस्स दण्डदीपिकासतन्ति अत्थो. एकाय पन दीपिकाय यत्तके ठाने आलोको होति, ततो सतगुणं ठानं सत्तहि रतनेहि पूरेत्वा दानं ददेय्याति अत्थो. गद्दुहनमत्तन्ति गोदुहनमत्तं, गाविया एकवारं अग्गथनाकड्ढनमत्तन्ति अत्थो. गन्धऊहनमत्तं वा, द्वीहि अङ्गुलीहि गन्धपिण्डं गहेत्वा एकवारं घायनमत्तन्ति अत्थो. एत्तकम्पि हि कालं यो पन गब्भपरिवेणविहारूपचार परिच्छेदेन वा चक्कवाळपरिच्छेदेन वा अपरिमाणासु लोकधातूसु वा सब्बसत्तेसु हितफरणं मेत्तचित्तं भावेतुं सक्कोति, इदं ततो एकदिवसं तिक्खत्तुं दिन्नदानतो महप्फलतरं. चतुत्थं.