५. ओकिलिनीसुत्तवण्णना

२१६. ओकिलिनीवत्थुस्मिं उप्पक्कं ओकिलिनिं ओकिरिनिन्ति सा किर अङ्गारचितके निपन्ना विप्फन्दमाना विपरिवत्तमाना पच्चति, तस्मा उप्पक्का चेव होति उण्हेन अग्गिना पक्कसरीरा, ओकिलिनी च किलिन्नसरीरा, बिन्दूनिस्सा सरीरतो पग्घरन्ति, ओकिरिनी च अङ्गारसम्परिकिण्णा. तस्सा हि हेट्ठतोपि किंसुकपुप्फवण्णा अङ्गारा, उभयपस्सेसुपि, आकासतोपिस्सा उपरि पतन्ति. तेन वुत्तं – ‘‘उप्पक्कं ओकिलिनिं ओकिरिनि’’न्ति. सा इस्सापकता सपत्तिं अङ्गारकटाहेन ओकिरीति तस्स किर रञ्ञो एका नाटकिनी अङ्गारकटाहं समीपे ठपेत्वा गत्ततो उदकं पुञ्छति, पाणिना च सेदं करोति. राजापि ताय सद्धिं कथञ्च करोति, परितुट्ठाकारञ्च दस्सेति. अग्गमहेसी तं असहमाना इस्सापकता हुत्वा अचिरपक्कन्तस्स रञ्ञो तं अङ्गारकटाहं गहेत्वा तस्सा उपरि अङ्गारे ओकिरि. सा तं कम्मं कत्वा तादिसंयेव विपाकं पच्चनुभवितुं पेतलोके निब्बत्ता. पञ्चमं.